________________
२१०
टिप्पनक- परागविवृत्तिसंवलिता
न तु जनितमेवंविधं केनाप्यपरेण कौतुकम् अतिवाहितञ्च पुरः करकलितकार्मुकेण काल एतावान्, तदेतर्हि कृत्वा मनः सविशेष सावधानं प्रहर सर्वात्मना विधेहि च स्वशक्त्या महात्मन् ! आत्मनो रक्षाम्, एष मुच्यसे भुजबलाभिमानभङ्गादवलम्बिता समक्षमस्य समक्षमस्य सामन्तलोकस्य मर्त्यलोकावास सौख्येनेति व्याहरन्नेव वेगाकृष्टचापयष्टिरुत्पातजलधर इव जलधारासारमन्धकारिताष्टदिगन्तरालसूत्रिताकालप्रदोषम्, अनवरतमुत्पतद्भिर्नभसि भीषणैज्यनिनादैररिशिरोभिश्च व्याहृतविसर्गम् स्तूयमानमिव सुभटशस्त्रपातरणितेन, प्रणम्यमानमिव भूमिनिक्षिप्तमूर्धभिः कबन्धैः, अर्च्यमानमिव निपतदातपत्रकुसुमैः स्यन्दनैः, क्षिप्यमाणलाजमिव उच्छलत्कुम्भमुक्ताफलाभिः करिघटाभिः, अभिषिच्यमानमिव मुक्तासृग्वृष्टिभिः प्रहारव्रणैः, दीयमानचाभिघातमित्र विलोलमणिकुण्डलैः क्ष्मापालमुण्डैः, प्रबलपरिवारपरिगतमिव शरच्छेदैः, मूकं
7
चित्तविभ्रमः, तत्परवशस्य तदधीनस्य मे मम, शतशः शतशतसंख्यकेषु, संगरेषु संग्रामेषु, प्रवेशः, संवृत्तः निष्पन्नः । व पुनः, सहस्रसंख्यैः सहस्रात्मकसंख्याविशिष्टैः, धन्विभिः धनुर्धारिभिः सह समागमः, जातः अभूत् । तु किन्तु, अपरेण त्वदन्येन, केनापि, एवंविधम् ईदृशम्, कौतुकं न जनितं नोत्पादितम् । च पुनः, करकलितकार्मुकेण करेहस्ते, कलितं-धृतम्, कार्मुकं - धनुर्येन तादृशेन, मयेति शेषः, पुरः पूर्वम्, एतावान्, कालः समयः, अतिवाहितः व्यतीतः, तत् तस्माद्धेतोः, एतर्हि अधुना, मनः हृदयम्, सविशेषसावधानं सविशेषं सातिशयम् सावधानम्अवधानपूर्वकं यथा स्यात् तथा, सर्वात्मना सर्वतोभावेन, प्रहर मदुपरि प्रहारं कुरु । च पुनः महात्मन् ! भो मद्दानुभाव !, स्वशक्त्या खपराक्रमेण, आत्मनः स्वस्थ, रक्षां प्रतीकारम्, विधेहि कुरु । एषः पुरोवर्ती स्त्वमिति यावत्, भुजबलाभिमानस्य बाहुबलगर्वस्य भङ्गात् नाशात्, अवलम्बितासमक्षमस्य अवलम्बिता - आश्रिता, असमाअसाधारणा, क्षमा - सहनशक्तिर्येन तादृशस्यापि समक्षमस्य साधारणसहनशक्ति कस्येति विरोधः, तदुद्धारे तु तादृशस्य अस्य, सामन्तलोकस्य, स्वाधिकृत नृपजनस्य, समक्षम्, मर्त्यलोकावाससौख्येन मर्त्यभुवननिवाससुखेन, मुच्यसे रहितो भवसि एतत्क्षणमेव म्रियसे इति भावः । इति व्याहरनेव इत्थं ब्रुवन्नेव, वेगाकृष्टचापयष्टिः वेगेन- शीघ्रम् आकृष्टा चापयष्टि:- धनुर्दण्डो येन तादृशः सन् पक्षे चाप:- इन्द्रधनुः, उत्पातजलधरः प्रलयका लिकमेघः, जलधारासारमिव वेगविशिष्टवृष्टिमिव यद्वा जलधाराssसारम्, उत्पातजलधर इव, असंख्यं संख्याशून्यम्, मार्गणत्रातं बाणगणम्, असृजत् अमुञ्चत् । कीदृशम् ? अन्धकारिताष्टदिगन्तराल सूत्रिता कालप्रदोषं - अन्धकारितेन-अन्धकारव्यापितेन, अष्टानां दिशाम्, अन्तरालेन - मध्येन, सूत्रितः - कल्पितः, अकाले असमये, प्रदोषः - निशारम्भो येन तादृशम् ; पुनः नभसि आकाशे, उत्पतद्भिः उच्छलद्भिः, भीषणैः भयङ्करैः, ज्यानिनादैः मौर्वाशब्दः, च पुनः, अरिशिरोभिः शत्रुमस्तकैः, व्याहृतविसर्ग व्याहृतः - सूचितः, विसर्गः- विमोचनं यस्य तादृशम् पुनः सुभटशस्त्रपातरणितेन सुभटानां - सुवीराणाम्, यानि शस्त्राणि खङ्गादीनि तत्पातेन तत्प्रहारेण यद्भणितं - शब्दः, तेन, स्तूयमानमिव क्रियमाणस्तुतिकमिवेत्युत्प्रेक्षा; पुनः भूमिनिक्षिप्तमूर्धभिः भूमौ निक्षिप्ताः - प्रक्षिप्ताः, मूर्धानो-मस्तकानि येषां तादृशैः, कबन्धैः शिरोरहितशरीरः, प्रणम्यमानमिव क्रियमाणप्रणाममिवेत्युत्प्रेक्षा पुनः निपतदातपत्रपकुसुमैः निपतन्ति-स्खलन्ति, आतपत्राणां - छत्राणाम्, कुसुमानि-पुष्पाणि येभ्यस्तादृशैः, पक्षे निपतन् य आतपस्ततो रक्षणकर्तृणि कुसुमानि, स्यन्दनैः रथैः, अभ्यर्च्यमानमिव पूज्यमानमिव पुनः उच्छलत्कुम्भमुक्ताफलाभिः उच्छलन्ति- उद्वेलन्ति, कुम्भमुक्ताफलानि - मस्तकस्थित मुक्कामणयः, पक्षे कुम्भवद् वर्तुलानि मुक्ताफलानि यासां तादृशीभिः, करिघटाभिः हस्तिसमूहैः, क्षिप्यमाणलाजमिव क्षिप्यमाणाःप्रक्षिप्यमाणाः, लाजाः - आई तण्डुला मृष्टधान्यानि वा यस्मिंस्तादृशमिव पुनः मुक्तासृग्वृष्टिभिः मुक्ताः- पातिताः, असृजांरुधिराणाम्, वृष्टयः - वर्षा यैस्तादृशैः, प्रहारवणैः प्रहारजन्यक्षतैः, अभिषिच्यमानमिव क्रियमाणाभिषेकमिवः पुनः विलोलमणिकुण्डलैः विलोलानि - चञ्चलानि, मणिकुण्डलानि मणिमयकर्णालङ्करणविशेषा येषु तादृशैः क्ष्मापालमुण्डैः नृपमस्तकैः, दीयमानचक्राभिघातमिव दीयमानः - क्रियमाणः, चक्रेण तदाख्यानविशेषेण, अभिघातः - आघातो यस्य तादृशमिव पुनः शरच्छेदैः अन्यान्यवाणखण्डैः, प्रबलपरिवारपरिगतमिव प्रबलैः -- बलवत्तरैः, परिवारै: