SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ कथासारः। Armanna wmwwwm wimminwww.wwmar mammam अस्ति सुवर्णद्वीपदेदीप्यमानमणिपुराभिधाननगरवास्तव्यो लोकयात्रायामतिमात्रनिपुणो वैश्रवणो नाम पोतवणिक् । तस्य धार्मिकधौरेयस्यान्तिमे वयसि वसुदत्ताभिधायां भार्यायां तारकनामाऽऽत्मजन्मा समजनि । स च शव एव श्रुताशेषशास्त्रः कलासुलब्धफ्रमिककौशलः क्रमागतयौवनावस्थापन्नो यानपात्रमधिरुह्य द्वीपान्तरं प्रस्थितः सांयात्रिकैरनुगम्यमानो रङ्गशाला नगरीमागमत् । आगतस्य च तस्य नागरिकजनसम्मईचारणाय विस्तृतावकाशविकस्वरे जलनिधिपरिसरे सम्यगावासितस्य कैवर्तकुलाधिपेन जल केतुनाम्ना कैवर्तेन सख्यं समवर्तत । क्रमेणोपारूढढिमनि तयोः सख्ये कदाचनारूढनवयौवना परमरमणीयदर्शना प्रियदर्शना नाम जलकेतुकन्यका पितुरादेशेन मौक्तिकहारमुपहारमादाय तद्गृहमबाजीत् । तत्र च तत्प्रथमदर्शन एव तदुज्वललावण्यावलोकनप्ररूढदृढप्रीतिप्रेर्यमाणा सा प्रत्यहं केनापि व्याजेन तदन्तिकं गन्तुमारेभे। कदाचिदेकदा तदीयचन्द्रशालायां सख्या सार्क क्रीडन्त्यास्तस्याः कथञ्चिदन्तिकमागतोऽसौ तदवलोकनोत्तरं संभ्रमेण धावन्त्याः पतन्त्याश्च तस्याः सत्वरमुपसृत्य दक्षिणपाणि गृहीत्वा सान्त्वयामास, स्वगृहगमनाय प्रवर्तयामास च। तदनु तस्करग्रहणमहिना दूरमपसृतसम्भ्रमा प्रीतिप्रथितप्रागल्भ्यप्रकटितविभ्रमाऽसौ कुमारिका किञ्चिद् विहस्य 'कुमार! त्वद्गृहीतपाणिरहं त्वामपहाय न पारयामि गृहान्तरमितो गन्तुम् , साम्प्रतं तु त्वत्सदनमेव त्वदीयाया मे सदनम्' इत्यभिधाय वामपादाङ्गुष्ठलेखया मन्दं मन्दं कुट्टिम लेखितुमारेभे । सांयात्रिकयुवाप्यसौ तत्कृतेनात्मसमर्पणेन प्रीयमाणस्तां मन्दमालिङ्गय 'प्रणियिनि ! न खलु गृहमात्रम्, अपि तु शरीरेन्द्रियादिकमपि मामकं त्वदीयमेव' इत्युदीर्य "दुष्कुलादपि कन्यारत्र ग्राह्यम्” इत्याचार्यवाक्यं प्रामाण्येनास्थाय योजनगन्धामिव पराशरस्तां पत्नीमकार्षीत् । पाणिग्रहणदिनादारभ्य सर्वाङ्गसुभगया तया सह नवयौवनोएभोगमासेवमानः पर्यहार्षीद खिलमपि कार्यम् । कस्यचन पोतवणिजः कन्यकाऽसौ, भग्नतां गते तत्पोते जलकेतुना मध्येसागरादुनृत्य रक्षितेति श्रूयमाणादसीयवृत्तान्तोऽपि साकमागतैर्वणिग्जनैः स्वाभिजनपरावर्तनाय प्रवर्त्यमानोऽपि, बान्धवजनैरुपालम्भपूर्णैः सन्देशैराकृष्यमाणोऽपि न मनागपि गमनाय मतिमकार्षीत् । __ कदाचिदास्थानभूमिमागतस्य तस्याकाररामणीयकावलोकनाकृष्टमनसा राज्ञा चन्द्रकेतुना सादरमाभाष्य जामातृधिया भूयसी जीविकां दत्त्वा सकलनाविकजनाधिपत्यापादनेनातीव प्रतिपत्तिरकारि । तदाधिपत्यमाचरन्नसौ निखिला नौवहनविद्यामधिगत्य कर्णधारधौरेयतामधात् । तदयमतीव योग्यो निजतरणिकर्णधारतया नियुज्येत चेदतिसुखेन तारयेत् कुमार पारावारम्, पारयेच्चापराण्यपि प्रयोजनानि निष्पादयितुम्" इत्थमुपवर्णयति तस्मिन्नसौ कैवर्तनाथः सविधमागत्य सादरं प्रणम्य चातिप्रणयेन प्रत्यपादयत् 'युवराज! भवदीयविजययात्रोद्घोषणक्षण एवार्णवाभ्यर्णमागतेन मया अन्नोदकसर्पिस्तैलेन्धनादिपूर्णानि लघुब्रहप्रवहणानि सजितानि सन्ति, विजययात्राभिधाना नौरपि कुमारस्य शत्रुविजयाय सजिता, अतः प्रस्थीयतामभ्युदयाय नास्ति चेत् प्रस्थानप्राकालिककार्यविलम्बः। तदाकर्ण्य तरक्षणमेव राजगणपरिवृतः समुद्रस्य तीरं गत्वा तत्प्रणामोत्तरमध्यरुक्षमधिरूढपूर्वेण तारकेणावलम्बितो नावम् । तत्र बद्धासने मयि समेऽपि राजपुत्राः स्वस्वयानपात्राण्यधिरुह्य मां परिबृत्य प्रातिष्ठन्त । तैः समं कियहरमुलध्य सागरमन्तराऽन्तरोपस्थितद्वीपवर्तिनः सामन्तान् प्रातिस्विकप्रक्रियाभिर्दमयित्वा सुवेलाचलसंज्ञकमचलमुदचलम् । तस्य चातिरमणीयेषु पर्यान्तारण्येषु सूचिताखिलरामायणरमणीयवृत्तान्तरुत्पाठ्य रोपितैस्तत्रत्यसामन्तैरुपदर्शितानू लङ्कापुरीपरिसरप्रदेशान् सप्रमोदमवलोकमानः कतिचिदहान्यवात्सम् , एकदा तु तत्रावस्थितशिविर एव प्रधानपार्थिवपुत्रैः पदातिपुरुषैश्वानुगम्यमानः सेतोः पश्चिमे नातिदूरं गत्वा सक्रौर्यचौर्यप्रवृत्तस्यातिगर्वितस्य पर्वतकनाम्नः किरातराजस्य राजधानीमवस्कन्द्य तस्य सर्वस्वमात्मसात्कृत्य स्वशिबिराभिमुखं प्रस्थितस्य मम प्रथमप्रस्थान एव तृतीयभागावशिष्टायां निशायामबिनामा भट्टपुत्रः 'क युवराजः ?, इति पृच्छन्नतित्वरितवाहितया नौकया निकटमागत्यावोचत् "कुमारसेनानीर्विज्ञापयति यदयमनतिदूरवर्ती रामायकेन सर्वपर्वतानामग्रणी रत्रकूटो नाम गिरिः । भयं जानकीविरहानलजाज्वल्यमानमानसस्य भगवतो रामचन्द्रस्य लङ्कामभिप्रयातस्यादेशेन पर्वतानाहरद्भिः कपिनिकरप्रवरैरुत्पाक्य सुमेरोः सानुः सेनापतेर्नलस्य पुरस्तादपस्थापितः, तेनापि हीरकमणिरिव साधारणमणिभिः पाषाणमयैः पर्वतैः समं नायमेकत्र सम
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy