SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरीक्रमेणाचिरमुबोढुकामोऽयोग्यकारी स्याः, अतो मा त्वरिष्ठाः, अन्यथापि सेत्स्यति तव समीहितम् । कथमित्याह-यत्रावयोरन्योन्यसम्मेलनमभूत् तत्र पत्रप्रचुरपादपवने मदीयदूतीकया निगुह्यमानस्त्वमुद्वाहोपकरणान्तरमनपेक्ष्य केवलमग्निमस्तिके कृत्वा स्थास्यसि, तमेवाग्निं साक्षीकृत्योद्वक्ष्यसि तत्र द्वित्राभिः सहचरीभिः सहाचिरमेवोपस्थास्यमानां मामतिसौकर्येण । वैगुण्यदृष्ट्या गुरुभिरप्रतिपादितामपि मामुदीक्षमाणस्त्वमन्यायेन क्षिप्रमेव नरकं गत्वा पार्श्वज्वलदग्निरसिरूपपत्रपूर्णपादपवने स्थाता-स्थितिशीलः स्था इति शापात्मकमर्थान्तरं तु न कथञ्चनौचितीमचति, अपरक्तमनसा नायिकानामनभिमतनायकान्तिके तागतिललितलेखप्रेषणादरायोगात्, कुतस्तर्हि श्लेषभङ्गी तादृगङ्गीकृता तयेति चेत् ? स्त्रीणामतितरलतया पत्रवाहिकया कौतुकेन तदावरणमपसार्य तत्संकेतितकार्यतत्वमवधार्य सम्भावितरहस्योद्घाटनवारणाय वाग्वैदग्ध्यप्रणयिनं स्वप्रणयिनं प्रति तद्वैदग्ध्यप्रकटनाय च तदुपपत्तेः" इत्युदीरितवति तस्मिन् समरकेतुवर्ज समेऽपि राजपुत्राः प्रसद्य सद्यस्तदीयप्रतिभा प्राशंसन् । समरकेतुस्तु स्रवदश्रुकणक्लिन्ननयनोऽतीवम्लानाननोऽधोमुखीभूय भूतलमलिखत् । तमस्थान एव तादृगवस्थमवलोक्य हासकेलिकोविदः कलिङ्गदेशाधिपतिकुमारः कमलगुप्तः स्मित्वोवाच "युवराज! कुमारस्य काव्यार्थतत्त्वोद्भावनशक्तेः प्राप्तावसरमपि कीर्तनमपहाय किमिति मत्सरीव मौनमालम्ब्य वर्तसे, न प्रवर्तसे च तमनुशोचितुं युवानं ? योऽप्राप्य तत्पाणिग्रहणसौभाग्यमनुभूयमानानुतापः, किं करोतु विपाकोन्मुखपापः परमवराकः सः। वस्तुतस्तस्कराग्रणीरसौ मञ्जीर एव पापीयानत्रापराध्यति, यो यात्रोत्सवं द्रष्टुमागतं ते युवानं दूरादेव दर्शयितुकामया पत्रवाहिकया सहकारमूले न्यस्तमिदं पत्रमपहृत्य मकरध्वजेन दूरत एव पूरयित्वा परस्परप्रेमाणमिति झटिति संघव्यमानं मिथुनमकारणमेव व्यघटि, तस्मादयं केनापि कठिनदण्डेन विनेतन्यो जाल्मः कुमारण, संयोज्यं च मिथोमिधुनमदस्तत इतो महताप्यायासेनान्वेष्य, यद् विरहवितर्कतीवाग्निरन्तर्दहतीवाऽस्य युवराजस्य" इत्युक्तवति तस्मिन् मन्दस्पन्दमानाधरकमलगुप्तमभ्यसूयन्निवानुशोचनाद् व्यावर्त्य समरकेतुमवोचत् “सखे ! किमर्थमेवमस्वस्थेनावस्थीयते त्वया, स्मयते वाऽऽर्ययाऽनयोद्घोधितसंस्कारेण कयाचन दियकुमारिकया स्वकटाक्षबाणैर्वणितस्यात्मनस्तदावेदितसंकेतस्थानस्यापि केनचिदनिवार्येण गरीयसा कार्येण तत्सम्पर्कसौभाग्याभावसमाचारः।" तदाकर्ण्य मुहूर्तमुपरतवाग्व्यापारः स्थित्वा वक्तुमुपचक्रो-“लोकोत्तरप्रतिभासार कुमार ! पेशलं ते परकीयाशयप्रज्ञानकौशलं मनसि मे विस्मयमातनोति । तथापि यदि ते श्रोतुमतिकुतूहलं, श्रूयतामसौ वृत्तान्तः भस्ति सिंहलद्वीपे रङ्गशालानाम्नी नगरी । तद्वास्तव्यो मत्पिता चन्द्रकेतुः सुवेलगिरिनिकटवासिनां दुष्टसामन्तानां निग्रहाय दक्षिणापथगामि नौसैन्यमादिश्याधीतशस्त्र-शास्त्रविद्यं मां यौवराज्येऽभिषिच्य तन्नायकत्वेनाकल्पयत् , प्रधाननृपतिभिरमात्यैः सामन्तैश्च मां ससहाय सम्पाद्य शुभेऽहनि प्रेषयच्च । प्रयाणदिवसे च प्रातरेव स्नात्वा समर्चितेष्टदेवतो द्विजजन वसनाभरणाद्यर्पणेन सन्तर्प्य सभामण्डपमागत्य च तत्र महार्हहेमासने प्रामुखमुपविश्वासादितान्तःपुरविलासिनीसम्पादितः प्रयाणकालोचितमाङ्गलिकक्रियो वज्राङ्कुशनाम्ना महामात्रेणोपस्थापितमरवल्लभारख्यं गन्धगजमारुह्य राजकुलानिर्गतः प्रतिपदमुदाशीराशिमिरभिनन्द्यमानो द्विजजनैर्वन्धमानः पौरजनैर्निभाल्यमानः पौराङ्गनाजनैर्नगरसीमानमतिक्रम्य क्रमेण महासमुद्रमद्राक्षम् । तस्य च सर्वतस्स्यन्दमानस्वादुसलिलबन्धुरे परिसरे द्वित्राणि दिनानि विश्रम्यान्यतरेधुरपराह्नसमये श्रीमन्तमर्णवमपूजयत् , अन्येधुश्च प्रविश्यावलोकितसमुद्रावतरणामार्गः प्रभात एव पौतिककृताकृतानुसन्धानाय प्रहितेन वेत्रिणा सत्रा समापतन्तमसुकृतविवतैरिव कैवतैः परिवृतं काककालाकृतिभिः पञ्चविंशतिवर्षदेशीय कञ्चन नाविकयुवानपश्यम् । तस्य चोज्वलवेषविभूषितमाकारं तत्परियारं च प्रेताकारमवेक्ष्य विस्मितः सद्य एव पार्थोपविष्टमखिलनाविकनायक यक्षपालितसंज्ञकं 'कोऽयम्' इति पृष्ट्वा "निखिलकैवर्तगणनायकोऽयं नाविकः' इति तेन प्रत्युक्तोऽपि तदविश्वस्य पुनरप्राक्षम् - कथं तर्हि कैवतरतिविसदृशोऽयमाकारेणावलोक्यते । सोऽपि पुनरगादीत्-'युवराज! नाकारेणैव, अपि तु सर्वप्रकारेण, नं चैभिरेव, अपि त्वन्यैरपि पुरुषैरय विसदृशः प्रज्ञौदार्यधैर्यादिगुणैः। चेदस्ति कुतूहलमाकर्ण्यतामस्य समासेन वर्ण्यमानः पूर्ववृत्तान्तः। wwwwwww
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy