________________
२८६
टिप्पनक-परागविवृतिसंवलिता मानजात्यजातरूपाणि [ल], प्रत्यहं च स्वीकृतसलिलमध्यसंचारणोचिताञ्जनैरमितैलादिद्रव्यसंग्रहपरैः कूपस्तम्भकानुत्तम्भयद्भिः सितपटानासूत्रयद्भिर्नाङ्गरानाहरद्भिः स्वादुजलकूपिकासु फलकसंधिरन्ध्राणि सर्वतः स्थगयद्भिः पौतिकैरशून्यवेलाकूलनगर।णि [ए], उभयतो वेणुकर्परावरणकृतरक्षेष्वसंकीर्णखरताडपर्णकोत्कीर्णकर्णाटादिलिपिषु पुस्तकेषु विरलमवलोक्यमानसंस्कृतानुविद्धस्वदेशभाषानिबद्धकाव्यप्रबन्धानि [ऐ], स्तोकार्यलोकानि, स्वल्पधर्माधर्मविवेकानि, विरलवर्णाश्रमाचाराणि, परिमितपाखण्डिव्यवहाराणि, रुचिरोद्भटस्त्रीवेषरचनानि, दुरवबोधभाषावचनानि [ओ], स्वभावभीषणाकारैर्विकृतवेषाडम्बरधारिभिः संनिधानवर्तितया यमादिवागतक्रौर्यैत्रिशङ्कोरिव प्रनष्टास्पृश्यसंनिधिपरिहारवासनै रावणादिवोत्पन्नपरदारप्रहणाभिलाषैर्लङ्कानिशाचरलोकादिव संक्रान्तकायकालकान्तिभिः शब्दशास्त्रकारैरिच विहितहखदीर्घव्यञ्जन
धूलिबुद्ध्या, उत्सृज्यमानजात्यजातरूपाणि उत्सृज्यमानानि-उत्क्षिप्यमाणानि, अपसार्यमाणानीत्यर्थः, जात्यानि-प्रश. स्तानि, जातरूपाणि-सुवर्णानि येषु तादृशानि [ल.] च पुनः, प्रत्यहं प्रतिदिनम्, स्वीकृतसलिलमध्यसंचारणो. चिताजनैः स्वीकृत-गृहीतं, सलिलमध्यसञ्चारणाय-जलमध्यप्रचारणाय, उन्धित-योग्यम् , अञ्जन-नेत्रसंस्कारककजलविशेषो यस्तादृशैः, पुनः अग्नितैलादिद्व्यसंग्रहपरैः अग्नितैलादिकस्य-शीताभिभावकद्रव्यस्य, संग्रहे-सच्चये, परैः संलग्नैः, पुनः कूपस्तम्भान् कूपो नाम नावादी रज्ज्वाधारः काष्ठमयो वृक्षः, तद्दण्डान्, उत्तम्भयद्भि उन्नमयद्भिः, पुनः सितपटान् श्वेतवस्त्राणि, आसूत्रयद्भिः आरचयद्भिः, पुनः नाङ्गरान् पोतगतिरोधकान् 'नांगर' इति प्रसिद्धान् नौकोपकरणविशेषान् , आहरद्भिः तत्रानयद्भिः, पुनः स्वादुजलकूपिकासु मधुरजलशालिकाष्ठादिनिर्मितकृत्रिमक्षुद्रकूपेषु, फलकसन्धिरन्ध्राणि फलकसन्धिषु-तदीयकाष्ठपट्टसंश्लेषणस्थानेषु, यानि रन्ध्राणि-छिद्राणि तानि, स्थगयद्धिः आच्छादयद्भिः काष्ठखण्डादिनिवेशेन पूरयद्भिः, पौतिकैः पोतवाहकैः, अशून्यवेलाकूलनगराणि अशून्यानि-अरहितानि, अधिष्ठितानीति यावत् , वेलायां-कच्छे, कूले-तीरे च, यद्वा वेलाकूले-तटप्रान्ते नगराणि येषु तादृशानि [ए], पुनः पुस्तकेषु, विरलम् अल्पं यथा स्यात् तथा, अवलोक्यमानसंस्कृतानुविद्धखदेशभाषानिबद्धकाव्यप्रबन्धानि अवलोक्यमानाः-उपलभ्यमानाः, संस्कृतानुविद्धाभिः-संस्कृतभाषामिश्रिताभिः, खदेशभाषाभिः-स्वाभिजनभाषाभिः, निबद्धाः-प्रणीताः, काव्य. प्रबन्धाः-काव्यग्रन्था येषु तादृशानि, कीदृशेषु पुस्तकेषु ? उभयतः भागद्वये, वेणुकर्परावणकृतरक्षेषु वेणुकर्पररूपाभ्यांपाटितवंशखण्डरूपाभ्याम् , आवरणाभ्याम्-आवेष्टनाभ्यां, कृता रक्षा येषां तादृशेषु, पुनः असंकीर्णखरताडपर्णकोत्कीर्णकर्णाटादिलिपिषु असंकीर्णेषु-विस्तृतेषु, खरेषु-तीक्ष्णेषु कठिनेषु वा, ताडपर्णकेषु-तालपत्रेषु, उत्कीर्णाः-उत्कीर्य लिखिताः, कर्णाटादिलिपयः-कटादिदेशाक्षराणि येषु तादृशेषु [ऐ], पुनः स्तोकार्यलोकानि स्तोकाः-अल्पाः, आर्यलोकाः-“कर्तव्यमाचरन् काममकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे यः स आर्य इति स्मृतः ॥” इत्यन्यत्रोका आचारवन्तो जना येषु तादृशानि, पुनः खल्पधर्माधर्मविवेकानि अत्यल्पधर्माधर्मविभागानि, पुनः विरलवर्णाश्रमाचराणि स्वल्पब्राह्मणादिवर्णगार्हस्थ्याद्याश्रमोचिताचाराणि, पुनः परिमितपाखण्डिव्यवहाराणि परिमिता:-परिगणिताः, प्रचुरिताः, अल्पा इति यावत्, पाखण्डिनां-पापखण्डनकृतां, व्यवहाराः-आचारा येषु तादृशानि, पुनः परिमितरुचिरोटस्त्रीवेषरचनानि परिमिता-परिगणिता, रुचिरा-मनोहरा, उद्धटा-आडम्बरपूर्णा च, स्त्रीणां चेषरचना-वेषविन्यासो येषु तादृशानि, पुनः दुरवबोधभाषावचनानि दुरवबोधा-दुर्वेद्यार्था, भाषाः-वचनानि तद्रचितपदवाक्यानि च येषु तादृशानि [ ओ], पुनः पन्नगैः सः, महारत्ननिधानानीव उत्तमरननिधीनिव, निषादाधिपैः चाण्डालजातिविशेषाधिपः, संरक्षितानि सम्यक्पालितानि, कीदृशैः ? स्वभावभीषणाकारैः स्वभावतो भयानकाकारैः, पुनः विकृतवेषाडम्बरधारिभिः विकृतःबीभत्सो यो वेषाडम्बरः-वेषविस्तारः, तद्धारणशीलैः, पुनः सन्निधानवर्तितया दक्षिणदिगवस्थितयमनिकटवर्तितया, यमादिव यमसकाशादिव, आगतक्रौर्यैः प्राप्तघातुकत्तिकैः, पुनः त्रिशङ्कोरिव त्रिशङ्खः-नृपविशेषः, तद्रूपहेतोरिव, प्रनष्टास्पृश्यसन्निधिपरिहारवासनैः प्रनष्टा-विध्वस्ता, अस्पृश्यसन्निधिपरिहारस्य-स्पर्शायोग्यवस्तुसामीप्यपरित्यागस्य, वासना-संस्कारो येषां तादृशैः, पुनः रावणादिव रावणरूपहेतोरिव, उत्पन्नपरदारग्रहणाभिलाषैः उत्पन्नः परदारग्रहगस्य-पराङ्गनाऽऽकर्षणस्य, अभिलाषः-वाञ्छा येषां तादृशैः, पुनः लवानिशाचरलोकादिव लङ्कावास्तव्यराक्षसजनादिव,