________________
२८८
टिप्पनक-परागविवृतिसंवलिता मत्तपिककुलालापवाचालविकचचूतमालेषु, परिमलमिलितमधुकरीनिकरान्धकारितकोरकितसरससहकारेषु, रत्नाविलसमुद्रशैवलप्रवालजटिलितराजतालीमूलजटाजालकेषु, घटितसेतुबानरविकीर्णगिरिकूटकुटिलितान्तरालमार्गेषु, [क] इतस्ततः सखीस्नेहदूराकृष्टमनसा त्रिजटया विनोदितदयितविरहक्षाममैथिलीकेषु, अनेकशः क्रीडानिमित्तमागतया प्रधाननक्तंचरीभिः सह पादचारेण विचरन्त्या लतामन्दिरेषु मन्दोदर्या सविभ्रमापचितविकचमन्दारेषु, सेतुशिखरोत्सङ्गलवङ्गतरुतलासीनकिन्नरमिथुनगीयमानरामचन्द्रचरिताद्भुतेषु [ख], प्रशान्तनक्तंचरोपद्रवतया संचरद्भिरचकितैः समीपाश्रमनिवासिभिस्तापसकुमारकैः प्रकटितविभीषणसौराज्येषु, जनकानुकारिभिर्मारीचमृगसमागतानामरण्यमृगीणामुदरसंभवैभ्रमद्भिरेणकैः स्वदेहकाञ्चनप्रभया पिशङ्गितोहेशेषु, निद्रानिषण्णकुम्भकर्णाभिनन्दितशिशिरहरिचन्दनवीथीकेषु, जानकीवैमुख्यदुःखक्षामदशकण्ठातिवाहितोकण्ठेषु, तटवनेषु, कण्टकितानेकसंगरव्यतिकरखिन्नवाहिनीकः कुतूहलादितस्ततो विचरन् [ग];
टिप्पनकम्-त्रिजटा-रावणभगिनी [ख] । कण्डकिताः-रोमाञ्चिताः [ग] ।
कलहं कुर्वतां, मत्तपिककुलानाम्-उन्मत्तकोकिलकुलानाम् , आलापैः-गुञ्जनः, वाचालाः-शब्दायमानाः, विकचचूतमालाविकसितरसालपङ्कियेषु तादृशेषु, पुनः परिमलमिलितमधुकरीनिकरान्धकारितकोरकितसरससहकारेषु परिमलमिलितानां-सौरभसङ्गताना, मधुकरीणां-भ्रमरीणां, निकरेण-गणेन, अन्धकारिताः-अन्धकारान्विताः, सरसाः-मकरन्दाकाः, सहकाराः-अतिदूरगामिसौरभान्विता आम्रा येषु तादृशेषु, पुनः रत्नाविलसमुद्रशैवलप्रवालजटितराजतालीमूलजटाजालकेषु रत्नाविलस्य-रत्नकलुषितस्य, समुद्रस्य, शैवलैः-जलतृणैः, प्रवालैः-विद्रुमैः, जटिलितानि-व्याप्तानि, राजतालीनां-पूगढमाणां, मूलजटाजालानि-शिफासंघाता येषु तादृशेषु, पुनः घटितसेतुवानरविकीर्णगिरिकूटकुटिलितान्तरालमार्गेषु घटितः-रचितः, सेतुः-समुद्रबन्धो यस्तादृशैः, वानरैः, विकीर्णैः-विक्षिप्तैः, विघटितैरिति यावत्, गिरिकूटैः-पर्वतराझैः, कुटिलिताः-वक्रीकृताः, अन्तरालमार्गाः- मध्यमार्गा येषु तादृशेषु [क], पुनः इतस्ततः अत्र तत्र, सखीनेहदराकृष्टमानसा सखीनेहेन-सखीभूतसीताप्रेम्णा, आकृष्टं मनो यस्यास्तादृश्या, त्रिजटया तत्संज्ञकराक्षस्या, विनोदितदयितविरहक्षाममैथिलीकेषु विनोदिता-आश्वासिता, दयितविरहेण-दयितस्य -भर्तुः, रामचन्द्रस्येत्यर्थः, विरहेण-वियोगेन, क्षामा-कृशा, मैथिली-सीता येषु तादृशेषु, पुनः प्रधाननक्तञ्चरीभिः प्रधानराक्षसीभिः, सह, पादचारेण पद्धयां गमनेन, लतामन्दिरेषु लतामण्डपेषु, विचरन्त्या भ्रमन्त्या, मन्दोदर्या तत्संज्ञकरावणभार्यया, सविभ्रमावचितविकचमन्दारेषु सविभ्रमं-सविलासं यथा स्यात् तथा, अवचिताः-त्रोटिताः, मन्दाराः-तदाख्यदिव्यतरुकुसुमानि येषु तादृशेषु, पुनः सेतुशिखरोत्सङ्गलवङ्गतरुलतासीनकिन्नरमिथुनगीयमानरामचन्द्रचरिताद्भुतेषु सेतुशिखरोत्सङ्गे-सेतु शिखरमध्ये, या लवङ्गतरुलताः-लवङ्गवृक्षारूढलताः, तासु-तासां मध्ये, आसीनैः-उपविशद्भिः, किन्नरमिथुनैः-किन्नरदम्पतिभिः, गीयमानः, रामचन्द्रचरितैः, अद्भुतेषु-विस्मयावहेषु ख], पुनः प्रशान्तनक्तञ्चरोपद्रवतया प्रशान्तः-निवृत्तः, नक्तञ्चरैः-राक्षसैः, उपद्रवो येषु तत्तया, अचकितैः असम्भ्रान्तैः, संचरद्भिः विचरद्भिः, समीपाश्रमनिवासिभिः, निकटस्थिताश्रमवास्तव्यैः, तापसकुमारैः तपखिबालकैः, प्रकटितबिभीषणसौराज्येषु प्रकटितम्-अभिव्यक्तं, विभीषणस्य-रावणानुजस्य, सौराज्य-सात्त्विकमाधिपत्यं येषु तादृशेषु, पुनः एणकैः अनुकम्पितैः एणैः-मृगैः, स्वदेहकाञ्चनप्रभया खशरीरसम्बन्धिसुवर्णकान्या, पिशङ्गितोद्देशेषु पिशङ्गितः-पीतवर्णतामापादितः, उद्देशः-ऊर्ध्वप्रदेशो येषु तादृशेषु, कीदृशैः ? जनकानुकारिभिः जनकस्य-जनयितुर्मारीचस्य, अनुकारिभिः-अनुकरणं कुर्वद्भिः, तद्वर्णयुक्तरित्यर्थः, पुनःमारीचमृगसमागतानां मारीचात्मकमृगपार्श्वमायातानाम् , तेन सहाभिरतानामित्याशयः, अरण्यमृगीणां वन्यमृगीणाम् , उदरसम्भवैः उदरोत्पन्नः, पुनः भ्रमद्भिः विचरद्भिः। पुनः निद्रानिषण्णकुम्भकर्णाभिनन्दितशिशिरहरिचन्दनवीथीकेषु निद्रानिषण्णेन-निद्रया स्थितेन, कुम्भकर्णेन-तत्संज्ञकदीर्घनिद्ररावणमात्रा, अभिनन्दिता-समर्धिता, अलङ्गतेति यावत् , शिशिरहरिचन्दनानां-शीतलचन्दनविशेषाणां, वीथी-पतिर्येषु तादृशेषु, पुनः जानकीवैमुख्यदुःख