SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ २८९ तिलकमञ्जरी। 'इह निर्झरेषु दृष्टलङ्कानिर्णीतदशकण्ठकण्ठच्छेदनिर्वृतेन दशरथात्मजेन स्नात्वा जटायुषे निर्वर्तितः प्रथमो निवापाञ्जलिः [घ], इह प्रहर्षास्फोटनसंक्रान्तसरसगैरिकपङ्कपश्चाङ्गुलैईश्यमानमूर्तिमत्प्रतापानलशिखैरिव भुजशिखरैः खर्वयन्तस्त्रिकूटगिरिकूटानि घटितसमग्रसेतुबन्धा बन्धुरं ववल्गुरङ्गदपुरोगाः प्लवगपतयः [3], इयमसमञ्जसक्षिप्तलङ्काप्राकारकाञ्चनशिलाशबला शिविरसन्निवेशभूः सुग्रीवस्य, एषा परस्परविलक्षणलक्ष्यमाणराक्षसकपिकरङ्कावयवा रामरावणयोराजिभूमिः [च ], इह सकलदिग्मुखान्तरालव्यापिघोषस्य विष्वपि भुवनेषु सर्पतः पौलस्त्ययशसो रथस्येव प्रवर्तकः प्रयत्नवद्भिः क्षपाचरैरनेकधाकृतरक्षोऽपि प्रसह्य मारुतिना भुजबलेन भनोऽक्षः [छ], इह कन्दरायामरातिदारितप्रधानवीरविद्राणविजयाध्यवसायेन सायंचरचक्रवर्तिना तैस्तैरसुकुमारैरुपक्रमैरकाल एव त्याजितो निद्रां महानिद्रायै सहोदरः [ज ], इह टिप्पनकम् - अङ्गदः-वालिपुत्रः [3] । सकल दिङ्मुखान्तरालव्यापिघोषस्य पौलस्त्ययशसो रथस्येव भग्नोऽक्षः एकत्र घोषः-घोषणं प्रसरणम् , अन्यत्र चीत्कारः, अक्षः-रावणसुतो धूश्च, मारुतिः-हनुमान् [छ । महानिद्रा-मरणम् [ज]। क्षामदशकण्ठातिवाहितोत्कण्ठेषु जानक्या:-सीतायाः, वैमुख्येन-प्रतिकूलतया, यदुःखं तेन क्षामेण-कृशेन, दशकण्ठेन हिता-व्यतिक्रान्ता, उत्कण्ठा-तदानुकूल्योत्सुकता येषु तादृशेषु [ग]। इह अस्मिन् स्थाने, निर्झरेष प्रवाहेषु, दृष्टलङ्कानिर्णीतदशकण्ठकण्ठच्छेदनिवृतेन दृष्टायां लङ्कायां निर्णीतेन, दशकण्ठकण्ठच्छेदेन-दशकण्ठस्य - रावणस्य, कण्ठच्छेदेन-कण्ठकर्तनेन, निर्वृतेन-सुखितेन, दशरथात्मजेन रामेण, स्नात्वा स्नानं कृत्वा, जटायुषे तत्संज्ञकाय गृध्रप्रवराय, प्रथमः निवापाञ्जलिः श्रद्धाञ्जलिः, निर्वर्तितः निष्पादितः [घ] । इह अस्मिन् स्थाने, अङ्गदपुरोगा अदनामकवालिपुत्रादयः, प्लवगपतयः कपिश्रेष्ठाः, घटितसमग्रसेतुबन्धाः घटितः- सम्पादितः, समप्रः, सेतोःपुलिनस्य, बन्धः-प्रबन्धो यस्तादृशाः, बन्धुरम् अत्युचतानतं यथा स्यात् तथा, ववल्गुः धारागल्या जग्मुः, कीदृशाः? भुजशिखरैः उन्नतभुजाप्रैः, त्रिकूटगिरिकूटानि त्रिकूटगिरेः-त्रीणि कूटानि शृङ्गाणि यस्य इत्यन्वर्थसंज्ञकपर्वतविशेषस्य, कूटानि-शिखराणि, खर्वयन्तः हवयन्तः, कीदृशैः ? प्रहर्षास्फोटनसंक्रान्तसरसगैरिकपङ्कपञ्चाङ्गुलैः प्रहर्षेणअतिहर्षेण, यत् आस्फोटनम्-आस्फालनं, तेन संक्रान्तः, सरसस्य-आर्द्रस्य, मैरिकस्य-रक्तधातुविशेषस्य, पकरे यस्मिन् तादृशं, पञ्चाङल-पञ्चानामङ्गुलीनां समाहारो येषु तादृशैः, अत एव दृश्यमानमर्तिमत्प्रतापानलशिखैरिव दृश्यमाना-प्रतीयमाना, प्रतिभासमानेत्यर्थः, मूर्तिमतः-आकृतिमतः, प्रतापानलस्य-प्रतापानेः, शिखा-ज्वाला येषु तादशैरिवेत्युत्प्रेक्षा [ 0]। असमञ्जसक्षिप्तलाप्राकारकाञ्चनशिलाशबला असमन्जस-क्रोधावेशवशेन असङ्गतं यथा स्यात् तथा, क्षिप्ताभिः, लङ्काप्राकारभूताभिः, काञ्चनशिलाभिः-सुवर्णशिलाभिः, शबला-चित्रिता, सुग्रीवस्य तदाख्यकपिराजस्य, इयं शिबिरसन्निवेशभूः सैन्यावाससन्निवेशस्थानम् । परस्परविलक्षणलक्ष्यमाणराक्षसकपिकरङ्कावयवा परस्परविलक्षणं-परस्परविरूपं यथा स्यात् तथा, लक्ष्यमाणा:-प्रतीयमानाः, राक्षसानां कपीनां वानराणां च, करङ्काः-अस्थिमात्रावशिष्टशवाः, तन्मस्तकानि वा, एवाक्यवा यस्यास्तादशी, एषा रामरावणयोः, आजिभूमिः रणक्षेत्रम् [च] । सकलदिङ्मुखान्तरालव्यापिघोषस्य सकलदिङ्मुखान्तरालव्यापी-समस्तदिगन्तमध्यव्यापकः, घोषः-संशब्दनं प्रसरणं च यस्य ताशस्य, पुनः त्रिष्वपि स्वर्ग-मर्त्य-पातालरूपेष्वपि, भुवनेषु लोकेषु, सर्पतः प्रसिध्यतः, पौलस्त्ययशसः पौलस्त्यः-रावणः, तत्कीर्तेः, रथस्येव, प्रवर्तकः प्रचारकः, अक्षः तदाख्यो रावणकुमारः, पक्षे रथाङ्गधू क्षपाचरैः निशाचरः, अनेकधाकृतरक्षोऽपि अनेकवार रक्षितोऽपि, मारुतिना हनुमता, भुजबलेन बाहुविक्रमेण, प्रसह्य बलात्कारेण, इह अस्मिन् स्थाने, भग्नः नाशितः[छ1। इह अस्या, कन्दरायां गुहायाम् , अरातिदारितप्रधानवीरविद्राणविजयाध्यवसायेन अरातिभिः-शत्रुभिः, दारितैः-खण्डितैः, मारितैरिति यावत् , प्रधानवीरैः-प्रधानभटैः, विद्राणः-भग्नः, विजयाध्यवसायः-विजयोद्योगो यस्य तादृशेन, सायश्चरचक्रवर्तिना राक्षससम्राजा, सहोदरः खानुजः, कुम्भकर्ण इति यावत् , असुकुमारैः कठोरैः, तैस्तैः अनेकविधैः, उपक्रमैः उपद्रवैः, अकाल एव असमय एव, ३७ तिलक.
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy