________________
२९०
टिप्पनक-परागविवृतिसंवलिता क्रमाक्रान्तसकलाम्बरेण साडम्बरमुदञ्चता ज्वलनजन्मना नीलेन धूमोत्पीलेनेव नयननलिनेषु विस्तारितः प्रहस्तप्रणयिनीनामश्रुधारासारः [झ ], इदमुपान्तनिर्झरासन्नप्ररूढविरलविशल्यौषधिलवमवदारितोरःस्थलस्य शक्त्या समिति सुमित्रासुतस्य मूर्छानिपतनस्थानम् [अ], अमी नेमिनिष्पिष्टकपिशिरःकपालकपरशुक्तिकाशकलशारिताः शरविसरवर्षिणि रामभद्रे पुनरुक्तमुपसृतापसृतरावणरथस्य क्षयसमयशोषितमहानदीप्रवाहानुकारिणः चक्रमार्गाः [ट ], इयं स्वामिभक्तेरमजशक्तेश्च जगति ज्ञापनाय विभीषणेन प्रतिष्ठापिता द्रुतापतच्छिन्नकुम्भकर्णोत्तमाङ्गत्रासितस्य दाशरथेर्यथाप्रथममायतपदान्तराप्रतीपापसर्पणसरणिः [ 7 ], इह लतावेश्मन्यपनीतरक्षोगृहनिवासनिर्वादकलङ्काया जनकदुहितुर्वेपमानस्वेदाकरकिसलयेन दाशरथिना कथश्चिदुन्मोचितो हुताशनप्रवेशलनो धूमदण्ड इव धूम्रकुटिलायतशिखो वेणीबन्धः [ ड],
टिप्पनकम्-नीला-रामप्रधानः, प्रहस्तः-रावणप्रधानः, भासारः-वेगवदृष्टिः [झ] । नेमिः-चक्रधारा [८]1 अग्रजशक्तेः कुम्भकर्णसामर्थ्यस्य, सरणिः-मार्गः [8]।
महानिद्रायै मृत्यवे, निद्रां त्याजितः मोचितः, जागारित इत्यर्थः [ज] क्रमाक्रान्तसकलाम्बरेण क्रमेण आक्रान्तव्याप्त, सकलं-समग्रम्, अम्बरं-गगनमण्डलं वस्त्रं च येन तादृशेन, पुनः साडम्बरं सविस्तारम् , उदश्चता उद्च्छता, धूमोत्पीलेनेव धूमावरोधेनेव, ज्वलनजन्मना अग्निजातेन, नीलेन-श्यामवर्णेन रामप्रधानेन च, कज्जलेन वा, प्रहस्तप्रणयिनीनां प्रहस्तस्य-रावणप्रधानस्य याः प्रणयिन्य:-प्रियाः, तासां, नयननलिनेषु नयनारविन्देषु, अश्रुधाराऽऽसारः अश्रुधारासम्पातः, इह अस्मिन् स्थाने, विस्तारितः विस्तारमापादितः [२] । इदं सुमित्रासुतस्य लक्ष्मणस्य, मूर्छानिपतनस्थानं मूर्च्छया यन्निपतन-निपातः, तद्भूमिः, कीदृशम् ? उपान्तनिर्झरासन्नप्ररूढविरल विशल्यौषधिलवम् उपान्ते-समीपे, ये निर्झरा:-स्रोतांसि, तदासजे-तन्निकटप्रदेशे, प्ररूढाः-उत्पन्नाः, विरलानाम्-अनिबिडाना, विशल्यौषधीनाविशल्यासंज्ञकौषधीना, लवाः-लेश यस्मिंस्तादृशम् , कीदृशस्य तस्य ? समिति युद्धे, शक्त्या शस्त्रविशेषेण, अवदारितोर:स्थलस्य खण्डितवक्षःस्थलस्य [अ]। नेमिनिष्पिष्टकपिशिरसकपालकपरशुक्तिकाशकलशारिताः नेमिभिःचक्रान्तभागः, निष्पिष्टानां-सञ्चर्णिताना, कपिशिरःकपालकपराणां-बानरमस्तकानां ये कपालकर्परा:-कपालाख्यघटाव शिरोऽस्थिमण्डलरूपकपालास्तेषां, शुक्तिकाशकलैः-कपालखण्डात्मकखण्डैः शारिताः-चित्रिताः,रामभद्रे रामचन्द्र शरविसर:वर्षिणि बाणगणवृष्टिकारिणि सति, पुनरुक्तम् असकृत् सूचितं यथा स्यात् तथा, उपस्तापसृतरावणरथस्य उपसृतःसमीपगतः,अपसृतः-दूरगतश्च यो रावणस्य रथस्तत्सम्बन्धिनः,क्षयसमयशोषितमहानदीप्रवाहानुकारिणःक्षयसमयेप्रलयकाले, शोषिता-शुष्कता नीता, या महानदी, तत्प्रवाहानुकारिणः, अमी इमे, चक्रमार्गाः रथाङ्गप्रचारमार्गाः [2] स्वामिभक्तेः खामिनि-रामचन्द्रे या भक्तिः-प्रीतिस्तस्याः,च पुनः, अनजशक्तः अग्रजस्य-खज्येष्ठनातुः, रावणस्येत्यर्थः,या शक्तिः-पराक्रमस्तस्याः, प्रख्यापनाय विख्यापनाथ, बिभीषणेन तदाख्यरावणानुजेन, प्रतिष्ठापिता प्रकल्पिता, इयम् , द्रुतापतच्छिन्नकुम्भकर्णोत्तमाङ्गवित्रासितस्य द्रुतं-सत्वरम् , आपतता, छिन्नेन-खण्डितेन, कुम्भकर्णस्य-तदाख्यरावणानुजस्य, उत्तमाङ्गेन-मस्तकेन, वित्रासितस्य-विभीषितस्य, दाशरथेः रामचन्द्रस्य, यथाप्रथमं यथापूर्वम् , आयतपदान्तराप्रतीपापसर्पणसरणिः आयतेन-दीर्घेण, पदान्तरेण-पादविक्षेपान्तरेण, यत् अप्रतीपम्-अप्रतिकूलम् , स्खलनशङ्काशून्यमित्यर्थः, अपसर्पणम्-अपसरणं, तस्य सरणि:-मार्गः[3]। इह अस्मिन् , लतावेश्मनि लतागृहे, अपनीतरक्षोगृहनिवासनिर्वादकलङ्कायाः अपनीतः-अग्निप्रवेशेन विरोधितः, रक्षागृहनिवासनिर्वादकलङ्कः-राक्षसगृहाधिकरणकनिवासापवादरूपः कलको यया तादृश्याः, जनकदुहितुः जानक्याः, धूम्रकुटिलायितशिखः धूम्रा-कृष्णलोहितवर्णा, कुटिला-वका, आयता च शिखा-अग्रभागो यस्य तादृशः, वेणीबन्धः प्रोषितभर्तृकोचितकेशरचनाविशेषरूपाया वेण्या बन्धः, वेपमानस्वेदाकरकिसलयेन वेपमानः-कम्पमानः, खदाः-स्रवद्घर्मोदकाः, कर किसलयः-करपल्लवो यस्य तादृशेन, दाशरथिना रामेण, उन्मोचितः विश्लेषितः, क इव ? हुताशनप्रवेशलग्नः अग्निप्रवेशसम्पृक्तः, धूमदण्ड