________________
तिलकमञ्जरी।
२९१
इतो निवर्तितानुव्रजत्सुरव्रजेन निजगोत्रराजधानीमयोध्या प्रति यियासुना दशास्यदमनेन सविलासमध्यासितमहार्हमणिवातायनः कौतुकोत्ताननयनजानकी विलोकितगतिरनुकूलपवनप्रसारितैः पताकाबाहुभिः परिरब्धुमिव चिरोत्सृष्टदृष्टां कुबेरपुरमम्बरपथेन प्रधावितः पुष्पकनामा विमानराजः [ 8 ]; इत्यादिपिशुनितानेकरामायणमहापुरुषवृत्तान्तरन्तिकस्थितैस्तत्रत्यनरपतिभिरुत्खातरोपितैरनुपदं प्रदर्शितान् लङ्कापुरीपरिसरो. देशान् सहर्षमीक्षमाणः कतिचिदिनान्यतिष्ठम् [ण] |
एकदा तु तत्रस्थशिबिर एव प्रेषितागतैः प्रणिधिपुरुषैः प्रवर्तितः सज्जीकृत्य प्राज्यवस्त्राभरणदानावर्जितसकलनाविका नाव आत्तकतिपयदिवसपाथेयैः प्रधानपार्थिवसूनुभिरन्यैश्च जन्यशतनियूंढपौरुषैः पदातिपुरुषैरनुगम्यमानस्तक्षणमेवाविक्षेपेणोदचलम् [त] । अविलम्बितगतिश्च पश्चिमेन सेतोगत्वातिदूरमूरीकृतचौर्यवृत्तेरतिविषमदुर्गबलगर्वितस्य पर्वतकनाम्नः किरातराजस्य राजधान्यामवस्कन्दमप्रतर्कितमपातयम् , अदय
टिप्पनकम्-कुबेरपुरम् अलकाम् [6] । जन्य-संग्रामः । विक्षेपः-धाटकः [त] । अवस्कन्दं धाटकम् [थ] |
इव धूमरेखेवेत्युत्प्रेक्षा [ड] । इतः अस्मात् स्थानात , निवर्तितांनुव्रजत्सुरव्रजेन निवर्तितः-परावर्तितः, अनुव्रजन्अनुगच्छन् , सुरव्रजः-देवगणो येन तादृशेन, निजगोत्रराजधानी खवंशराजधानीरूपाम्, अयोध्या, प्रतियियासुना प्रत्यावर्तितुकामेन, यद्वा अयोध्यां प्रति अयोध्याभिमुखं, यियासुना जिगमिषुणा, दशास्यदमनेन रावणगर्वहारिणा रामचन्द्रेण, सविलासं विलाससहितम, अध्यासितमहाहमणिवातायनं अध्यासितम् -अधिष्ठितं, महार्हमणीनाम्अत्युत्तममणिमय, वातायन-पवाक्षी यस्य तादृशः, पुष्पकनामा तन्नामकः, विमानराज: उत्तममाकाशयानम्, अम्बरपथेन गगनमार्गेण, प्रधावितः शीघ्रं यातः, कीदृशः ? कौतुकोत्ताननयनजानकीविलोकितगतिः कौतुकेन-दिदृक्षारसेन, उत्तानम्-उन्नतं, नयनं यस्यास्तादृश्या जानक्या विलोकिता-दृष्टा, गतिः-गमनं यस्य तादृशः, किं कर्तुमिव ? दृष्टां चिरात्-दीर्घकालात् , उत्सृष्ट-त्यक्तं, दृष्ट-दर्शनं यस्यास्ताहशीं, यद्वा चिरात् त्यक्तां विलोकितांच खामिकाम् अलकापुरीम् , अनुकूलपवनप्रसारितैः अभिमुखवाहिवायुविस्तारितैः, पताकाबाहुभिः पताकात्मकभुजैः, परिरन्धमिव आलिङ्गितुमिव [811 इत्यादिपिशनितानेकरामायणमहापुरुषवृत्तान्तैः इत्यादयः-एवंप्रभृतयः, पिशुनिताः-सूचिताः, अनेके रामायणसम्बन्धिनः, महापुरुषस्य-मर्यादापुरुषस्य भगवतो रामचन्द्रस्य, वृत्तान्ताः-वार्ता यैस्तादृशैः, उत्खातरोपितैः पूर्वम् उत्खातैः--उत्पाटितैः, खपदात् प्रच्यावितैरित्यर्थः,पश्चात् पुनः रोपितैः-खपदे प्रतिष्ठापितैः, अन्तिकस्थितैः समीपस्थितैः, नरपतिभिः, अनुपदं प्रतिस्थान, प्रदर्शितान् , लङ्कापरिसरोद्देशान् लङ्कापर्यन्तस्थोर्ध्वदेशान् , सहर्ष सानन्दम् , ईक्षमाणः पश्यन् , कतिचित् कतिपयानि, दिनानि, अतिष्ठं स्थितवानहम् [ण] 1 एकदा तु एकस्मिन् दिने तु, तत्रस्थशिविर एव तत्स्थानस्थसैनिकावास एव, प्रेषितागतैः पूर्व प्रेषितैः पश्चादागतैः, प्रणिधिपुरुषैः गूढचरजनैः, प्रवर्तितः कारितप्रवृत्तिकः, अहमिति शेषः, प्राज्यवस्त्राभरणदानावर्जितसकलनाविकाः प्राज्यवस्त्राभरणानां-प्रत्रुरवस्त्रालङ्करणानां, दानेन-वितरणेन, आवर्जिताः-आनमिताः, परितोषिता इति यावत्, सकलाः-समस्त!ः, नाविका:-कर्णधारा यासां तादृशीः, नावः, सज्जीकृत्य संनद्धाः संभृता निमृता वा कृत्वा, आत्तकतिपयदिवसपाथेयैः आत्त-गृहीत, कतिपयदिवसपाथेयं-कतिपयदिनमार्गभोज्यवस्तु यस्तादृशः, प्रधानपार्थिवसूनुभिः प्रधानराजकुमारैः, च पुनः, अन्यैः, जन्य
शतनियूंढपौरुषैः जन्यशते-संग्रामशते नियूंढम्-अपरिसमाप्त, पौरुष-पराक्रमो येषां तादृशैः, पदातिपुरुषैः पादगामिजनैः, अनुगम्यमानः अनुत्रियमाणः, तत्क्षणमेव तत्कालमेव, अविक्षेपेण सङ्घीभावेन, घाटीरूपेणेत्यर्थः, उदचलम् उच्चलितवान्, उत्थाय चलितवानित्यर्थः [त]। च पुनः, अविलम्बितगतिः अविलम्बिता-सत्वरा, गतिः-गमनं यस्य तादृशः सन् , सेतोः पश्चिमेन पश्चाद्भागेन, दरं बहुदूर, गत्वा, ऊरीकृतचौर्यवृत्तेः ऊरीकृता-स्वीकृता, चौर्यरूपा बृत्तिः-जीविका येन तादृशस्य, अतिविष गर्वितस्य अतिविषम-परमदुधेष, यद् दुर्ग-पर्वतादिकं रिपुप्रवेशप्रतिरोधकं दुर्गमं स्थानं, तदात्मकं यद् बलं-सामर्थ्यम् ,यदा बलं-सैन्यं च, ताभ्यां गर्वितस्य-मदान्वितस्य, पर्वतकनाम्नः तत्संज्ञ