SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी । २७९ चन्द्रकेतुना निर्वर्ण्य सुचिरं परिजनादाकर्णिततदीयपूर्वापरवृत्तान्तेन चापलं प्रति पुनः पुनः सपरिहासमा - भाषितो मधुरमारोपित बहुमानश्च जामातृप्रतिपत्त्या दत्त्वा जीवनमतिप्रभूतं कृतः प्रभुरखिलस्यापि नाविकतन्त्रस्य [र] । तत्र च कुर्वताधिपत्यमचिरेणैव शिक्षितानेन सकलापि नौ प्रचारविद्या, विदितमखिलमपि कर्णधाराणां कर्म, कृतानि बहुकृत्वः सलिलराशौ गमनागमनानि दृष्टा दूरविप्रकृष्टा अपि द्वीपान्तरभूमयः, प्रत्यक्षीकृताः क्षुद्रा अपि जलपथाः, लक्षितानि तेषु सम्यक्समविषमस्थानानि, किंबहुना, स्वल्पेनापि कालेन जातः स सकलस्यापि कर्णधारचक्रस्य धौरेयः स चायमेवाधार्यां धीरेण [ल ] | अस्य हि किमपि लोकोत्तरं धैर्यम्, असाधारणः सत्त्वावष्टम्भः, दृष्टान्तभूतं पौरुषम् ; ईषदपि न स्पृष्ट एष कैवर्तकुल संपर्क दोषाशङ्किनेव वणिग्जातिसहभुवा भीरुत्वेन; वीर्यमपि शारीरमविचार्यमस्य; जलधिमध्यमनन समुद्धरणेष्वनेकशः कवलितोऽपि हर्म्यतलप्रणालसलिलनूर इव हेलया निष्क्रामति मकरमुखतः; कोलालितशीर इव करटभित्तिमाहत्य हरति मदमुदकायानामपि करियादसाम्, मुखान्तरक्षिप्तदुन्दुभ टिप्पनकम् - मकरमुखतः जलचर विशेषवक्त्राद्, अन्यत्र मकरमुखप्रणालात् । हरति मदम् एकत्र मदंमत्तताम्, अन्यत्र दर्पम् । दुन्दुभः - जलसर्पः । प्रकृष्टजाङ्गुलिक इव न मुह्यति विषमोदकविपत्सु एकत्र रौद्रजलापत्सु, अन्यत्र विषमिश्रणजलालुकापरसु, जाङ्गुलिकः - विषवैद्यो गाडिको वा [ व ] । सौष्ठवेन, आकृष्टं चेतो-हृदयं यस्य तादृशेन, देवेन राज्ञा चन्द्रकेतुना, सुचिरं सुदीर्घकालम्, निर्वर्ण्य दृष्ट्वा, परिजनात् परिवार सकाशात्, आकर्णिततदीय पूर्वापर वृत्तान्तेन श्रुततदीयसमप्रवार्ताकेन, चापलं प्रति परिणयनविषयकचाञ्चल्यविषये, सपरिहासं परिहासपूर्वकम् मधुरं प्रियं यथा स्यात् तथा, आभाषितः उक्तः च पुनः, जामातृप्रतिपत्त्या जामातृवुद्ध्या, आरोपित बहुमानः कृतप्रचुर सम्मानः, अतिप्रभूतम् अत्यधिकम् जीवनं जीविकाम्, दत्त्वा, अखिलस्यापि समग्रस्यापि नाविकतन्त्रस्य कर्णधारगणस्य, प्रभुः नायकः, कृतः [र]। च पुनः तत्र कर्णधारगणे, आधिपत्यं प्रभुत्वम् कुर्वता स्थापयता, अनेन तारकेण, सकलापि समप्रापि, नौप्रचारविद्या नौवहनकला, शिक्षिता अधिगता, पुनः अखिलमपि समप्रमपि, कर्णधाराणां नाविकानां कर्म कार्यम्, विदितं परिचितम् पुनः सलिलराशौ समुद्रे, बहुकृत्वः बहुवारम्, गमनागमनानि कृतानि पुनः दूरविप्रकृष्टा अपि अतिदूरस्थिता अपि द्वीपान्तरभूमयः अन्यद्वीपभूमयः, दृष्टाः दृष्टिगोचरीकृताः, पुनः क्षुद्रा अपि लघवोऽपि, जलपथाः जलमार्गाः, प्रत्यक्षीकृताः दृष्टिगोचरीकृताः, पुनः तेषु जलपथेषु, समविषमस्थानानि समानि - अनिम्रोन्नतानि विषमाणि निम्नोन्नतानि च, स्थानानिस्थलानि, सम्यक् अत्यन्तम्, लक्षितानि परिचितानि किं बहुना किमधिकेन । स तारकः स्वल्पेनापि अल्पेनापि, कालेन सकलस्यापि समप्रस्यापि, कर्णधारचक्रस्य नाविकगणस्य, धौरेयः अग्रणीः, जातः सम्पन्नः, स च तारकथ, अयमेव प्रत्यक्षं दृश्यमान एव, धीरेण प्राज्ञेन, अवधार्यतां निश्चीयताम् [ल ] | हि निश्चयेन, अस्य तारकस्य, लोकोत्तरं लोकोत्कृष्टम्, धैर्य धीरत्वम्, पुनः असाधारणः उत्कृष्टः सत्त्वावष्टम्भः बलावलम्बः बलाभिमान इत्यर्थः, यद्वा सवानां जन्तूनामाक्रमणम्, पुनः दृष्टान्तभूतम् आदर्शभूतम्, पौरुषं पराक्रमः । पुनः एषः अयम् भीरुत्वेन भयशीलत्वेन, ईषदपि किञ्चिदपि न स्पृष्टः कृतस्पर्शः कीदृशेन ? वणिग्जाति सहभुवा वैश्यजातिसहजेन, कीदृशेनेव ? कैवर्त कुल सम्पर्कदोषाशङ्किनेव कर्णधारकुलसम्पर्कजन्यकलङ्कशङ्कावतेव । अस्य शारीरं शरीरसम्बन्धि, वीर्य सामर्थ्यमपि, अविचार्यम् अनाकलनीयम् । जलधिमध्यमन्ननौसमुद्धरणेषु जलधिमध्ये समुद्रमध्ये ममानां नाव, समुद्धरणेषु ततो निष्कासनकार्येषु, कवलितोऽपि मकरभक्षितोऽपि, हर्म्यतलप्रणालसलिलपूर इव प्रासादतलस्थितप्रणालिकास्थजलप्रवाह इव, मकरमुखतः जलचरविशेषमुखमार्गतः, अन्यत्र तदाकृति प्रणालमुखाभ्यन्तरात्, हेलया खेलया, अनायासेनेत्यर्थः, निष्क्रामति निःसरति । पुनः कराम्रोलालितशीकर हव करामेण - शुण्डाप्रभागेन, उल्ला लितः - उत्क्षिप्तः, शीकर इव जलकण इव, करढभित्तिं गण्डभित्तिम्, आहत्य ताडयित्वा उदग्रकायानाम् उन्नतशरीराणाम्, करियादसां हस्तिरूपाणां जलचराणां जलहस्तिनामित्यर्थः, मदं गर्व मत्ततां च हरति नाशयति, समय
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy