________________
टिप्पनक - परागविवृतिसंवलिता
affaraाविक इव निराकुलो वसति दिवसमपि रसातलगम्भीरेऽम्भसि प्रकृष्टजाङ्गुलिक इव दुरुत्तरास्वपि न मुह्यति विषमोदकविपत्सु तैस्तैरञ्जनैरञ्जितेक्षणः क्षणदास्वपि समस्त वस्तुजातमुपजातयोगिज्ञान इव विज्ञातनिरवशेषविशेष मावेदयति [व] । सर्वथा योग्योऽयं युज्यतेऽस्मिन्नवसरे स्वनावः कर्णधारतां नेतुमात्मनश्च प्रणयीकर्तुम्, अनेन हि प्रगल्भवचसा परेङ्गिताकारज्ञेन भक्तिमता प्रक्रमागतव्याहारिणा च सर्वदा प्रतिपन्नसख्यः सुखेन लङ्घयिष्ययलघुविस्तारमपि भगवन्तमवारपारं पारावारं कुमारः साधयिष्यति च यत्नमन्तरेणापराण्यपि कृच्छ्रसाध्यानि प्रयोजनानि प्रायेग' [श ] इति जल्पत्येव तस्मिन् स कैवर्तनायकः सविधमुपससर्प, क्षितितलोपसर्पिणा च शिरसा प्रदर्शितादरः कृत्वा प्रणाममतिचिरप्रणयीव स्पष्टवर्णोच्चारया गिरा सप्रगल्भ - मुवाच – 'युवराज ! त्वदीय विजयप्रयाणघोषणानुपदमेव सागरोपकण्ठमनुप्राप्तोऽहम् आगत्य च मया कृतानि सर्वाण्यपि सुसूत्राणि यानपात्राणि, प्रगुणिताः समाहृतसमग्रोपकरणाः पोताः, पुञ्जितं तेष्वतिप्राज्यमशनम्, आपूरितानि स्वादुना सलिलेन कृत्स्नान्युदकपात्राणि, समारोपितमप्रमाणमिन्धनम् ; [ष] | अपरोऽपि
-
२८०
3
तीत्यर्थः । पुनः मुखान्तरक्षिप्तदुन्दुभमणिः मुखान्तरे - मुखमध्ये, क्षिप्तः - निहितः, दुन्दुभमणिः - दुन्दुभस्य - जलसर्पस्य, मणिर्येन तादृशः, इतरनाविक इव अन्यकर्णधार इव दिवसमपि सम्पूर्णदिनं व्याप्यापि, निराकुलः स्वस्थः सन्, वसति तिष्ठति, क्वेत्याह-रसातलगम्भीरे पातालावधिनिम्ने, अम्भसि जले, प्रकृष्टजाङ्गुलिक इव प्रकृष्टः- उत्कृष्टो यो जाङ्गुलिकः - जाङ्गुली- विषविद्यामधीते वेद वा यः सः, विषवैद्यो गाडिको तेत्यर्थः, स इव, दुरुत्तराखपि दुष्परि णामाखपि, मृत्युजनिकाखपीत्यर्थः, विषमोदकविपत्सु विषमभूतासु - अनन्यसमासु दारुणासु वा उदकविपत्सु - जलजय विपत्तिषु पक्षे विषमिश्रिता ये मोदकाः - मिष्टान्न विशेषाः, तजन्य विपत्सु - तज्जन्यन्यादिषु न मुह्यति मोहमनुभवति, किन्तु धौरहृदय एव तिष्ठतीत्यर्थः । पुनः तैस्तैः अनेकविधैः, अञ्जनैः नयनसंस्कारकजलजन्तुव सादिद्रव्यैः, अञ्जितेक्षणः लिप्तलोचनः, क्षणदास्वपि रात्रिष्वपि उपजातयोगिज्ञान इच उत्पन्नयोगजदृष्टिरिव, समस्तवस्तुजातं निखिलवस्तुगणम्, विज्ञातनिरवशेषविशेषं खविज्ञातसमप्रभेदं यथा स्यात् तथा, आवेदयति बोधयति [व] । सर्वथा सर्वप्रकारेण योग्यः निपुणः अयम्, अस्मिन्नवसरे समुद्रयात्रावसरे, स्वनावः खकीयनौकायाः, कर्णधारतां वाहकताम्, नेतुं प्रापयितुम्, च पुनः आत्मनः स्वस्थ, प्रणयीकर्तुं सख्यमापादयितुं, युज्यते उचितः । हि यतः, प्रगल्भवचसा निर्भीकवादिना, परेङ्गिताकारज्ञेन परेषाम्, इङ्गितः - चेष्टाविशेषान्वितः, य आकारस्तज्ज्ञेन, तत्परिचयचतुरेण, भक्तिमता पूज्यजनप्रीतिमता, च पुनः प्रक्रमागतव्याहारिणा प्रासङ्गिकार्थवादिना, अनेन तारकेण, सर्वदा प्रतिपन्नसख्यः अधिगतमैत्रीकः सन् कुमारः समरकेतुः भवानित्यर्थः, अलघुविस्तारमपि अत्यन्तविस्तृतमपि, भगवन्तम् ऐश्वर्यवन्तम्, अवारपारम् उभयकुलान्वितम्, पारावारं समुद्रम्, सुखेन अनायासेन, लङ्घयिष्यति तरिध्यति च पुनः, यत्तम् आयासम् अन्तरेणापि विनापि, अपराण्यपि अन्यान्यपि, कृच्छ्रसाध्यानि आयाससाध्यानि, प्रयोजनानि फलानि, प्रायेण बाहुल्येन साधयिष्यति सम्पादयिष्यति [ रा ] । इति इत्थं तस्मिन् यक्षपालिते, जल्पत्येव कथयति सत्येव, स तारकाख्यः, कैवर्तनायकः कर्णधाराध्यक्षः, सविधं निकटम्, उपससर्प उपाजगाम । च पुनः प्रदर्शितादरः प्रकटितादरः सन् क्षितितलोपसर्पिणा भूतलावनम्रेण शिरसा मस्तकेन, प्रणामम् अभिवादनम् कृत्वा, अतिचिरप्रणयीव अतिप्राचीन स्नेहीत्र, स्पष्टवर्णोच्चारया स्फुटवर्णोच्चारणिकया, गिरा वाचा, सप्रगल्भ्रं सप्रौढिकम्, उवाच उक्तवान् किमित्याह-युवराज ! भो नृपकुमार !, अहं त्वदीयविजयप्रयाण घोषणानुपदमेव त्वदीयं भवदीयं, यद् विजयोद्देश्यकं, प्रयाणं - प्रस्थानं, तस्य या घोषणा - सूचना, तदनुपदमेव तदनन्तरमेव, सागरोपकण्ठं समुद्रनिकटम्, अनुप्राप्तः आगतः आगत्य च उपस्थाय च मया सर्वाण्यपि समस्तान्यपि, यानपात्राणि प्रवहणानि, सुसूत्राणि सुष्ठु सूत्रबद्ध नि, कृतानि सम्पादितानि, पुनः समाहृतसर्वोपकरणाः संगृहीतसमप्रोपकरणाः, पोताः लघुप्रवहणानि, प्रगुणिताः सज्जिताः, पुनः तेषु पोतेषु, अतिप्राज्यम् अतिप्रचुरम्, भोजनं भोजनीयं वस्तु, पुञ्जितं राशीकृतम्, पुनः कृत्स्नानि सकलानि, उदकपात्राणि जलपात्राणि, स्वादुना मधुरेण, सलिलेन जलेन, आपूरितानि पूर्णीकृतानि पुनः अप्रमाणम् अपरिच्छिन्नं, प्रचुरतरमित्यर्थः, इन्धनं काष्ठम्, समा