________________
३७८
टिप्पनक- परागविवृतिसंवलिता
"
वाहनानि परिजनः शरीरं हृदयमिन्द्रियाणि प्राणाः सर्वमेव त्वदीयम् एतदारोपय स्वेनाङ्गीकारेण गौरवम्' इत्युदीर्य " दुष्कुलादपि प्राह्यमङ्गनारत्नम्" इत्याचार्यवचनं मनसि कृत्वा स्वजातिनिरपेक्षस्तत्रैव क्षणे ज्वलन्तमन्तर्मदनानलं साक्षीकृत्य भूयो गृहीतपाणिस्तां चकितमृगशावलोचनामत्यन्तमनुरागान्धां योजनगन्धामिव पाराशरः प्रणयिनीमकृत [म] । तस्माच्च पाणिग्रहणदिवसादारभ्य निर्भरानुरागस्तया सर्वाङ्गसुन्दर्या सह विवमानविविधविदग्धपरिहासमश्रान्त चित्रचाटुक्रममप्रकटितस्वस्वामिभावमल्पक्षणोपजायमानाने ककोपप्रसादस्थानसंपाद्यमानस्पृहणीय निग्रहानुग्रह मनु दिवसमा सेवमानो नवयौवनोपभोगमुपभोगसुखमपर कामिनीसुरतसंभोगानां गृहव्यापारयोगानां च प्रायच्छदुदकाञ्जलिम् [य] । जलकेतुना कस्यापि सांयात्रिकस्य तनया वनभङ्गे सागरादुद्धृत्य परिपालितेयमिति तत्त्ववेदिभिरावेदिततदीयवृत्तान्तोऽपि सहागतैर्वणिग्भिः स्वदेशगमनाय पुनः पुनरभ्यर्थ्यमानोऽपि दर्शनोत्कण्ठितेन ज्ञातिवर्गेण सोपालम्भवचनैः संदेशदानैरुन्मनीक्रियमाणोऽपि त्रपया स्थितोऽत्रैव न गतो निजस्थानम्, आस्थानभूमौ उपगतश्च द्रष्टुमाकृतिगुणाकृष्टचेतसा देवेन
www.www
गजाश्वादीनि, परिजनः परिवारः, शरीरं मदीयगात्रम्, हृदयम् अन्तःकरणम्, इन्द्रियाणि ज्ञान- कर्मसाधनानि नयनइस्तादीनि, प्राणाः - जीवितम् एतत् सर्वं त्वदीयं भवदीयम्, खेन खकीयेन, अङ्गीकारेण स्वीकारेण, गौरवं महत्त्वम्, आरोपय आपादय, इति इत्थम्, उक्त्वा, अङ्गनारत्नं, दुष्कुलादपि - नीचकुलादपि, ग्राह्यं गृहीतव्यम्, इति आचार्यवचनं नीतिमार्गोपदेशवाक्यम्, मनसि हृदये, कृत्वा प्रमाणीकृत्य, स्वजातिनिरपेक्षः पाणिग्रहणे खसाजात्यनपेक्षः, तत्रैव तस्मि नेष, क्षणे, अन्तः अन्तःकरणे, ज्वलन्तं दीप्यमानं, मदनानलं कामदेवाभिम्, साक्षीकृत्य पाणिग्रहणसाक्षिभावेनाश्रित्य भूयः पुनरपि गृहीतपाणिः गृहीतप्रियदर्शनाहस्तः सन्, चकितमृगशावलोचनां चकितः - सम्भ्रान्तो यो मृगशावःहरिण शिशुः, तस्येव, लोचने - नयने यस्यास्तादृशीम्, पुनः अनुरागान्धां प्रणयान्धाम्, तां प्रियदर्शनाम्, पाराशरः पराशरासमजो व्यासः, योजनगन्धामिव अन्वर्थ तदाख्य कैवर्त कन्यकामिव प्रणयिनीं प्रियाम्, स्ववधूमित्यर्थः, अकृत कृतवान् [म] 1 च पुनः तस्मात् पाणिग्रहण दिवसात् विवाहृदिनात् आरभ्य निर्भरानुरागः सान्द्रत्नेहः सन् सर्वाङ्गसुन्दर्या सर्वाङ्गमनोज्ञया, तया सह उपभोगसुखं सुरतसम्भोगप्रधानकम्, नवयौवनोपभोगं नवयौवन सुखम् अनुदिनं प्रतिदिनम्, आसेवमानः सम्यगनुभवन्, अपर कामिनीसुरतसम्भोगानां तदन्यवनितारतिसुखानाम्, च पुनः, गृहव्यापारयोगानां गृहकार्यसम्बन्धानां च उदकाञ्जलिं तिलाञ्जलिं प्रायच्छत् प्रदत्तवान् त्यागं कृतवानित्यर्थः कीदृशं नवयौवनोपभोगम् ? विवर्धमान विविधविदग्धपरिहासं विवर्धमानाः- विशेषेण वर्धमानाः, विविधाः -- अनेकविधाः, विदग्धाः - चमत्कृतिपूर्णाः, परिहासा यस्मिंस्तादृशम्, पुनः अश्रान्त चित्रचाटुक्रमम् अश्रान्तः - अनवरतः, चित्रचाटूनविचित्र मधुरवचनानाम्, क्रमः- धारा यस्मिंस्तादृशम् पुनः अप्रकटितस्वस्वामिभावम् अप्रकटितः - अप्रकाशितः, स्वस्वामिभावः - ईशितव्येशितृभावो यस्मिंस्तादृशम् पुनः अल्पक्षणोपजायमानानेककोपप्रसादम् अल्पक्षणं- कतिपयक्षणाभ्यन्तरे, उपजायमानाः - उत्पद्यमानाः, अनेके - विविधाः, कोपाः- प्रणयक्रोधाः प्रसादाः - प्रसन्नताश्च यस्मिंस्तादृशम् पुनः अस्थानसम्पाद्यमानस्पृहणीयनिग्रहानुग्रहम् अस्थाने - अनवसरे, सम्पाद्यमानौ - क्रियमाण, स्पृहणीयौ - किञ्चित् कालिकत्वेन रमणीयौ, निग्रहानुग्रह-बन्धमोक्षौ यस्मिंस्तादृशम् [य] | कस्यापि सांयात्रिकस्य पोतवणिजः, इयं तनया कन्या, वहनभङ्गे तदीयपोतभमतायां सत्याम्, सागरात् समुद्रात् उद्धृत्य निष्कास्य, जलकेतुना तदाख्य कैवर्तेन, परिपालिता रक्षिता इति, तत्त्ववेदिभिः यथार्थज्ञातृभिः, आवेदिततदीयवृत्तान्तोऽपि विज्ञापितप्रियदर्शनासम्बन्धि वार्ताकोऽपि पुनः सहागतैः आत्मना साकमागतैः, वणिग्भिः वाणिज्यवृत्तिकैः स्वदेशगमनाय खदेशप्रत्यावर्तनाय, पुनः पुनः वारंवारम् अभ्यर्थ्यमानोऽपि प्रार्थ्यमानोऽपि पुनः दर्शनोत्कण्डितेन तदवलोकनोत्सुकेन, ज्ञातिवर्गेण बन्धुवर्गेण, सोपालम्भवचनैः साक्षेपवाक्यैः, सन्देशदानैः स्वविज्ञप्तिप्रेषणैः, उन्मनीक्रियमाणोऽपि गन्तुमुत्सुकीक्रियमाणोऽपि, त्रपया लज्जया, अत्रैव अस्मिन्नेव स्थाने, स्थितः, निजस्थानं स्वस्थानम्, न गतः च पुनः, आस्थानभूमौ राजसभाभूमौ द्रष्टुम् अवलोकितुम्, उपगतः उपस्थितः, आकृतिगुणाकृष्टचेतसा आकृतिगुणेन - आकार