________________
तिलकमञ्जरी।
२७७
सविभ्रमोल्लासितैकवा गुरुणेव नवानुरागेण कारितप्रगल्भकलालापपरिचया चिरकाललब्धावसरया विदग्धसख्येव तत्समागमतृष्णया स्थापिता स्वयं दूतीव्रतविधौ निसर्गमुग्धापि प्रौढयनितैव किश्चिद् विहस्य वचनमिदमुदीरितवती फि]। 'कुमार! त्वया गृहीतपाणिः कथमहं विसंस्थूलीभूतमात्मानं संवृणोमि, कथं च गेहादितो गृहान्तरं गच्छामि, सांप्रतमिदमेव मे त्वदीयं सदनमाश्रयः संवृत्तः' इत्युक्त्वा पावनतवदना पुरःप्रसृतधवलनखमयूखोयोतया तदीयवक्रालापनवणजातहासयेव बामचरणामुष्ठलेखया मन्दमन्दमलिखत् कुट्टिमम् [व] । असावपि युवा तेन तस्याः स्मरविकारदर्शनेन, तेन तत्कालमतिशयस्पृहणीयतां गतेन रूपलावण्यादिगुणकलापेन, तेनामृतस्यन्दशीतलेन करतलस्पर्शेन, तेन च प्रकटितानुरागेण, निपुणया वचनभङ्गया कृतेनात्मसमर्पणेन परमरस्त [भ]।
सहासवदनश्च मन्दमाश्लिष्य तामानन्दमुकुलायमानलोचनोत्पला परिघट्य च कपोलोदरे कपोलेन 'सुन्दरि! यदि न यातव्यं गृहान्तरमिति निश्चयस्ते, ततः किम् ? एकेन गृहेण, द्रविणसंग्रहो रत्नानि
अपसारितसाध्वसा निष्कासितभया, पुनः गुरुणेव शिक्षकेणेव, सविभ्रमोल्लासितैकभ्रुवा सविभ्रम-सविलास यथा स्यात् तथा, उल्लासिता-उन्नमिता, एका भ्रूः-नेत्रोर्ध्वरोमर जिर्येन तादृशेन, नवानुरागेण नूतनप्रणयेन, कारितप्रगल्भकलालापपरिचया कारितः-जनितः, प्रगल्भकलालापाना-प्रतिभान्वितमधुरालापानाम् , परिचयो यस्यास्तादृशी सती, पुनः विदग्धसख्येव निपुणवयस्ययेव, चिरकाललब्धावसरया दीर्घकालप्राप्तावसरया, तत्समागमतृष्णया तारकसमागमनेच्छया, स्वयम् आत्मनैव, दूतीव्रतविधौ दूतीनियमानुष्ठाने, स्थापिता नियुक्ता, निसर्गमुग्धाऽपि प्रकृत्याऽप्रगल्भापि, प्रौढवनितेव प्रगल्भनायिकेव, किञ्चित् ईषत् , विहस्य हासं कृत्वा, इदम् अनुपदमन्द्यमान वचनम् , उदीरितवती उक्तवती [फ], किमित्याह-कुमार! तारक ! त्वया भवता, गृहीतपाणिः कृतपाणिग्रहणा, अहम् , विसंस्थूलीभूतं विक्षिप्तम् , आत्मानं खं, कथं केन प्रकारेण, संवृणोमि उपसंहरामि, च पुनः, इतः
मात . भावत्कादित्यर्थः गेहात गृहात, रोहान्तरं गृहान्तरे, कथं केन प्रकारेण, गच्छामि उपसरामि, त्वदीयं भवदीयम् , इदमेव प्रत्यक्षभूतमेव, सदनं गृहम् , साम्प्रतम् अधुना, आश्रयः मम शरणं, संवृत्तः सम्पनः, इत्युक्त्वा इति कथयित्वा, पावनतवदना लजाऽधोमुखी सती, तदीयवकालापश्रवणजातहासयेव प्रियदर्शनावक्रोक्तिश्रवणोत्पन्नहासयेव, पुराप्रसृतधवलनखम तया पुर:-अने, प्रसृतः-प्रकीर्णः, धवलनखानाशुभ्रनखानां, मयूखरूपः-किरणरूपः, उद्द्योतः-प्रकाशो यस्यास्तादृश्या, वामचरणानुष्ठलेखया वामपादाहुष्ठलेखया, कुट्टिमं मणिबद्धभूमिम् , अलिखत् लिखितवती [4]। असावपि सोऽपि, तारकोऽपीत्यर्थः, युवा तरुणपुरुषः, सेन तदानीन्तनेन, तस्याः प्रियदर्शनायाः, सरविकारदर्शनेन कामविकारानुभवेन, पुनः तत्कालं तत्क्षणम् , अतिशय स्पृहणीयताम् अत्यन्तकमनीयताम् , गतेन प्राप्तेन, तेन अनुभूतेन, रूपलावण्यादिगुणकलापेन रूपसौन्दर्यादिगुणगणेन, पुनः अमृतस्यन्दशीतलेन स्पन्दमानामृतसदृशशीतलेन, तेन अनुभूतेन, करतलस्पर्शेन हस्ततलाश्लेषेण, च पुनः, प्रकटितानुरागेण प्रकटितः-अभिव्यक्तः, अनुरागः-प्रीतियन तादृशेन, निपुणया प्रागल्भ्यपूर्णया, वचन भल्या वचनरचनाविशेषेण, कृतेन, तेन अनुभूतेन, आत्मसमर्पणेन आत्मनः-खस्य, अधीनीकरणेन, परम् अत्यन्तम्, अरस्त अप्रीयत [भ]।
च पुनः, सहासवदनः हसितमुखः सन् , आनन्दमुकुलायमानलोचनोत्पलाम् आनन्देन मुकुलायमानेसंकुचन्ती, लोचनोत्पले-नयनकमले यस्यास्तादृशीम् , तां प्रियलोचनाम् , मन्दं किञ्चित् , आश्लिष्य आलिङ्गय, च पुनः, कपोलोदरे गण्डस्थलमध्यभागी, कपोलेन गण्डस्थलेन, परिचय संश्लिष्य.सन्दरि! मनोहारिणि । यदि न्तरम् अन्यगृहम् , न यातव्यं गन्तव्यम् , इति निश्चयः संकल्पः, अस्तीति शेषः, ततः तर्हि, एकेन एकमात्रेण, गृहेण गृहमात्रवस्तुना, किं न किमपि स्यादित्यर्थः, किन्तु द्रविणसंग्रहः धान्यादिराशिः, रत्नानि मौक्तिकहीरकादीनि, वाहनानि