________________
२७६
टिप्पनक-परागविकृतिसंवलिता तस्य जलकेतोः सुता सुतारवृत्तमौक्तिकप्रकल्पितं हारमादाय पितुराज्ञया गता तद्गृहम् [५] । दृष्टश्च स तथा प्रथमदर्शन एव रूपातिशयदर्शनारूढदृढतरानुरागया, सस्पृहमुपनीतोपायना च स्थित्वा कश्चित् कालं कृतप्रत्युपपारा तेन पुनर्गता स्वसदनम् , अनुरागप्रेरिता च तद्दर्शनाशया तैस्तैर्व्यपदेशैरागन्तुमारब्धा प्रतिदिनम् [न] ।
एकदा तु तदीयसौधशिखरशालायां सख्या सह क्रीडन्त्याः कथञ्चित् सविधमागतोऽसौ, तद्दर्शनोपारूढसाध्वसा च सत्वरं ब्रजन्ती वेपथुविशृङ्खलैः पदैः परिस्खलिता कुट्टिमतले, पतन्त्याश्च तस्याः सोपानपथसंनिधौ सत्वरमुपेत्य तेनावलम्बितः प्रवाल इव बालवनलतायाः करिकलभकेन स्निग्धसुकुमारसरलारुणाङ्गुलिदक्षिणः पाणिः, प्रयुक्तपाणिना च मधुरमभिहिता स्मितमुखेन- 'सुमुखि! किमिदं समेऽपि स्खलनम् , अलममुना संभ्रमेण, संवृणु क्षोभविगलितस्तनांशुकमस्थान एव विसंस्थुलीभूतमात्मानं, गच्छ गेहम्' इति [प]। सा तु तत्करप्रणसमकालमेवोत्थितेन सरभसाकृष्टधनुषा कुसुमसायकेन कृतसाहायकेनेव दूरमपसारितसाध्वसा
निकामकमनीयदर्शना अत्यन्तप्रियदर्शना, प्रियदर्शना तदन्वर्थसंज्ञिका, तस्य जलकेतोः तदाख्यकर्णधारस्य, सुता कन्यका, सुतारवृत्तमौक्तिककल्पितं सुतारैः-विशुद्धः, वृत्तैः-वर्तुलाकारैश्च, मौक्तिकैः-मुक्तामणिभिः कल्पितं-निर्मितं, हारं माल्यम्, आदाय गृहीत्वा, पितुः जलकेतोः, आक्षया आदेशेन, तद्गृहं तस्य-तारकाख्यकुमारस्य, गृह, गता गतवती [ध] । च पुनः, प्रथमदर्शन एव प्रथमावलोकनकाले एव, रूपातिशयदर्शनारूढदृढतरानुरागया रूपातिशयस्य - रूपोत्कर्षस्य, दर्शनेन आरूढः-उत्पन्नः, दृढतरः-अतिदृढः, अनुरागः-प्रीतिर्यस्यास्तादृश्या, तया प्रियदर्शनया, स . तारकः, दृष्टः दृष्टगोचरीकृतः । च पुनः, सस्पृहं सानुरागम् , उपनीतोपायना उपाहतोपहारा, कश्चित् कियन्तं कालं स्थित्वा, तेन कुमारेण, कृतप्रत्युपचारा विहितप्रतिसत्कारा सती, पुनः स्वसदनं खगृहं गता; च पुनः, अनुरागप्रेरिता तत्प्रीतिप्रवर्तिता सती, तदर्शनाशया तदवलोकनाकाझ्या, तैस्तैः व्यपदेशैः व्यवहारैः छलैनिमित्ता, प्रतिदिनम् , आगन्तुं तद्गृहमुपस्थातुम् , आरब्धा प्रवृत्ता [न]
एकदा तु एकस्मिन् काले तु, तदीयसौधशिखरशालायां तारकीयप्रासादशिखरवर्तिभवने, सख्या खवयस्यया सह, क्रीडन्त्याः खेलन्त्याः , प्रियदर्शनाया इति शेषः, सविधं समीपम् , असौ तारकः, कथञ्चित् केनापि प्रकारेण, आगतः उपस्थितः। तहर्शनोपारूढसाध्वसा तद्दर्शनेन-तारकावलोकनेन, आरूढम्-उत्पन्नं, साध्वसं-भयं यस्यास्तादृशी सती, सत्वरं शीघ्रं, ब्रजन्ती अपसरन्ती, वेपथुविशृङ्खलैः कम्पनविघटितैः, पदैः चरणैः, तद्विक्षेपैरित्यर्थः, कुट्टिमतले मणिबद्धभूतले, परिस्खलिता निपतितुं प्रवृत्ता । पतन्त्याः स्खलन्त्याः, तस्याः प्रियदर्शनायाः, दक्षिणः वामेतरः, पाणिः हस्तः, तेन तारकेण, अवलम्बित: गृहीतः। कीदृशः स्निग्धसुकुमारसरलारुणालिः निग्धाःसरसाः, न तु रूक्षा इत्यर्थः, सुकुमारा:-कोमलाः, सरलाः-ऋजवः, अरुणाः-रक्तवर्णाश्च, अञ्जलयो यस्मिंस्तादृशः, किं कृत्वा ? सोपानपथसन्निधौ सोपानमार्गसमीपे, सत्वरं शीघ्रम् , उपेत्य आगत्य, केन क इव ? करिकलभकेन हस्तिशिशुना, बालवनलतायाः बनस्थवाललतायाः, प्रवाल इव पल्लव इव 1 च पुनः, प्रयुक्तपाणिना प्रयुक्तःअवलम्बनाय प्रहितः, पाणिः-करो येन तादृशेन, तारकेणेति शेषः, स्मितमुखेन मन्दहासान्वितमुखेन, मधुरं यथा स्यात् तथा, अभिहिता उक्ता, प्रियदर्शनेति शेषः, किमित्याह-सुमुखि! सुन्दरवदने !, समेऽपि अविषमस्थलेऽपि, इदं प्रत्यक्षभूतं, स्खलनं पतनम् , किं? किंहेतुकम् , अमना तरकारणभूतेन, सम्भ्रमेण भयजन्यसंक्षोभेण, अलं व्यर्थम्, क्षोभविगलितस्तनांशुकं क्षोभेण-सम्भ्रमेण, विगलितं-स्खलितं, स्तनांशुकं-स्तनावरणभूतवस्त्रं यस्य तादृशम् , पुनः अस्थान एव अनवसर एव, विसंस्थूलीभूतं—विक्षिप्तं, विह्वलीभूतमित्यर्थः, आत्मानं खम् , संवृणु उपसंहर, प्रकृतिस्थं कुरु इत्यर्थः, गेहं खगृह, गच्छ याहि, ई
ह, हात [प]। सा तु प्रियदर्शना तु, तत्करग्रहणसमकालमेव तारककरग्रहणसमकालमेव, उस्थितेन उद्गतेन, सरभसाकृष्टधनुषा सरभसं-सत्वरम् , आकृष्टम्-आततं, धनुर्येन तादृशेन, पुनः कृतसाहाय्यकेन कृतसहायताकेन, कुसुमसायकेनेव कामदेवेनेव, यद्वा कुसुमसायकेन कृतं यत् साहाय्यक-साहाय्यं तेनेव, दूरं दूरदेशम् ,