________________
२७५
तिलकमञ्जरी। प्रवीणः किमपि लोकयात्रायां सांयात्रिकवणिग् वैश्रवणो नाम । तस्य सर्वदा देवद्विजातिश्रमणगुरुशुश्रूषापरस्य निजभुजार्जितं पूर्वपुरुषोपार्जितं च प्राज्यमर्थमर्थिजनैः सुहृद्भिर्वान्धवैर्विद्वद्भिश्च भुक्तशेषमुपभुञ्जानस्य पश्चिमे वयसि वसुदत्ताभिधानायां गृहिण्यामपश्चिमः सर्वापत्यानां तारको नाम दारकः समुदपादि [थ ] । स रूपसंपदा तुलितसुरकुमारः कौमार एव यथाविधिश्रुतशास्त्रः कलासु कृतश्रमः क्रमागतमशेषपुरुषार्थसंपत्तिपात्रमभिनवमधिरुह्य यौवनं यानपात्रं च गृहीतप्रचुरसारभाण्डैर्भूरिशः कृतद्वीपान्तरयात्रैः सहकारिभिरनेकैः सांयात्रिकैरनुगम्यमान इमामेव नगरी रङ्गशालामागच्छत् [द] । आयातमात्रस्य च तस्य विविधानिबद्धनगरलोकसंपातपरिहाराय विघुलावकाशे जलराशिपरिसरे समावासितस्य समीपवासिना सकलकैवर्तकुलनायकेन जलकेतुनाम्ना कर्णधारेण साधं कथश्चित् सख्यमजनि । परस्परोपचारकर्मणा च प्रौढिमुपगते तत्र कदाचिदारूढनवयौवना त्रिदशवनितेव शापदोषानिपतिता मनुष्यलोके निकामकमनीयदर्शना प्रियदर्शना नाम
टिप्पनकम्-अशेषपुरुषार्थसंप्राप्तिपात्रं यौवनं पात्रं च-एकत्र सर्वधर्मार्थकामप्राप्तिभाजनम् , अन्यन्त्र सर्वपुरुषद्रव्यसंस्थापनम् [द ] ।
राक्षः नृपस्य, च पुनः, पौरवर्गस्य पुरवासिवृन्दस्य, बहुमतः परमाभिमतः, पुनः लोकयात्रायां लोकव्यवहारे, किमपि अवर्णनीयः, प्रवीणः दक्षः, वैश्रवणः तदाख्यः, सांयात्रिकवणिक पोतवणिक, अस्ति विद्यते, मामेति वाक्यालङ्कारे, तस्य वैश्रवणस्य, पश्चिमे वयसि वार्धक्यावस्थायाम् , वसुदत्ताभिधानायां वसुदत्तानान्यां, गृहिण्यां भार्यायाम् , सर्वापत्यानां सर्वसन्तानानाम्, अपश्चिमः उत्कृष्टः, चरमो वा, तारकः तत्संज्ञकः, दारकः सुतः, समद नामेति वाक्यालङ्कारे, कीदृशस्य तस्य ? देव-द्विजाति-श्रमण-गुरुशुश्रूषापरस्य देवाः-प्रसिद्धाः, द्विजातयः-द्विजाः, श्रमणाः-साधवः, गुरुः-धर्मोपदेशकः, तेषां शुश्रूषा-परिचर्या, तत्परस्य-तल्लमहृदयस्य, पुनः निजभुजार्जितं खबाइपार्जितं, च पुनः, पूर्वपुरुषोपार्जितं खपूर्वजजनोपार्जितम् , प्राज्य-प्रचुरम् , अर्थ धनम् , अर्थिजनैः याचकजनैः, सुहृद्भिः मित्रजनैः, बान्धवैः बन्धुजनैः, विद्वद्भिश्च विद्वजनैश्च, भुकशेषम् उपभुक्तावशिष्टम् , उपभुज्ञानस्य [थ]। रूपसम्पदा खरूपसम्पत्त्या, तुलितसुरकुमारः उपमितदेवकुमारः, स तारकः, कौमार एव बाल्यकाल एव, यथावि. धिश्रुतशास्त्रः यथाविधि-विध्यनुसार, श्रुतं-श्रवणगोचरीकृतम् , अधीतमिति यावत् , शास्त्रम्-आगमो येन तादृशः, पुनः कलासु शिल्पविद्यासु, कृतश्रमः कृतव्यवसायः, क्रमागतं शैशवादिक्रमेण पक्षे पितृपितामहादिक्रमेणोपनतम् , अशेषपुरुपार्थसंप्राप्तिपात्रम् अशेषाणां-समस्ताना, पुरुषार्थानां-धर्मार्थकाममोक्षरूपाणां, पक्षे अशेषाणां पुरुषाणां-खपूर्वजपुरुषाणां, या अर्थसंप्राप्तिः-धनप्राप्तिः, तस्याः पात्र-संस्थानम, अभिनवं नवीनं, यौवनं युवावस्थां च पुनः, यानपानं पोतं च, अधिरुह्य आरुह्य, गृहीतप्रचुरसारभाण्डैः गृहीतानि, प्रचुराणि-विपुलानि, सारभाण्डानि-श्रेष्ठभाजनानि दृढभाजनानि धनपात्राणि वा यस्तैः, भूरिशः बहुशः, कृतद्वीपान्तरयात्रैः विहितान्यद्वीपप्रयागः, सहकारिभिः सहकारिभूतैः, अनेकैः बहुभिः, सांयात्रिकैः पोतवाणिग्भिः, अनुगम्यमानः अनुत्रियमाणः, इमामेव प्रत्यक्षभूतामेव, रङ्गशालां तदाख्यां नगरीम्, आगच्छत आगतवान् [द च पुनः, आयातमात्रस्य आगतमात्रस्य, विविधानिबद्ध सम्पातपरिहाराय विविधाः-बहुविधाः, अनिबद्धाः-अनियन्त्रिताश्च, ये नगरलोकाः-नगरवास्तव्यजनाः, तेषां सम्पातस्यसमागमस्य, परिहाराय-परिवर्जनाय, विपुलावकाशे प्रचुरावकाशान्विते, जलराशिपरिसरे समुद्रकच्छप्रदेशे, समावासितस्य सम्यनिवासितस्य, तस्य तारकाख्यकुमारस्य, समीपवासिना निकटवास्तव्येन, सकलकैवर्तकुलनायकेन समस्तधीवरकुलश्रेष्ठेन, जलकेतुनाना, कर्णधारेण नाविकेन, साध साकम् , कथञ्चित् कथमपि, सख्यं मैत्री, समजनि सम्यगभूत् । तत्र तस्मिन् , सख्य इत्यर्थः, परस्परोपचारकर्मणा पारस्परिकसत्कारात्मककार्यद्वारा, प्रौढिं पूर्णरूपताम् , उपगते प्राप्ते सति, कदाचित् कस्मिंश्चित् समये, आरूढनवयौवना प्राप्ताभिनवतारुण्या, शापदोषात् कस्यापि शापरूपात्-अशुभाशंसनरूपात् , दोषात्, मनुष्यलोके मर्त्यभुवने, निपतिता अवतीर्णा, त्रिदशवनितेव देवाहनेव,