________________
१७२
टिप्पनक-परागविवृतिसंवलिता वृतो धृतासिपट्टप्रभापटलपोषितप्रदोषतिमिरैः शरीररक्षाविधावधिकृतैर्वीरपुरुषैभरदेशोपविष्टसोपायनानेकप्रधाननगरलोकमनेकभङ्गरचितरङ्गावलीतरङ्गितमसृणमणिकुट्टिमोत्सङ्गमविरलप्रकीर्णपुष्पप्रकरमखिललोकप्रार्थनीयसंगमामिर्मर्त्यलोकलक्ष्मीभिरिव राजलक्ष्मी द्रष्टुमेकहेलयोपगताभिरनयरत्नाभरणभूषिताङ्गायष्टिभिर्वारयोषाभिरापूर्यमाणपर्यन्तं कचित् सुखासीनसचिवपुत्रविचार्यमाणनव्यकविनिबद्धकाव्यगुणदोषविभागं कचिदाबद्धमण्डलीकवैपश्चिकप्रपञ्चयमानललितपश्चममामरागं कचिद्वाञ्छिताधिकारसेवकवारपरिचर्यमाणविकटवेत्रासनो. पविष्टप्रधानसचिवं कचिल्लिख्यमाननिःसंख्यराजाज्ञालेखमुद्रासिन्दूरपूरारुणीकृतदिवं कचिचतुरपरिहासरञ्जित
टिप्पनकम्-वैपश्चिकः-वैणिकः [ग] ।
धृतः, विकट:-स्फुटः, शृङ्गारवेषः-शृङ्गारोद्दीपकवरूपं, येन ता शः स राजा, आस्थानमण्डपं सभागृहम् , अगच्छत् गतवानिति दूरेणान्वेति । कीदृशः? वीरपुरुषैः उद्भटजनैः, सर्वतः समन्ततः, परिवृतः परिवेष्टितः, कीदृशैः ? घटितपरिवेषैः बद्धमण्डलीकैः, पुनः धृतासिण्डप्रभापटलपोषितप्रदोषतिमिरैः धृतस्य-करगृहीतस्य, असिपमुस्यखड्गफलकस्य, प्रभापटलेन-कान्तिकलापेन, पोषितं-संवर्धितम् , प्रदोषतिमिरं-सायन्तनान्धकारो यस्तादृशैः; पुनः शरीररक्षाविधौ शरीररक्षणकार्ये, अधिकृतैः नियुक्तैः । कीदृशमास्थानमण्डपम् ! द्वारदेशोपविष्टसोपायनानेकप्रधाननगरलोकं द्वारदेशे-अन्तःप्रवेशनिर्गमप्रदेशे, उपविष्टा:-आसिताः, सोपायनाः-उपहारसहिताः, प्रधानाः-मुख्याः, नगरलोकाः-नागरिकजना यस्य तादृशम् ; पुनः अनेकभङ्गरचितरङ्गावलीतरङ्गितमसृणमणिकुटिमोत्सङ्गम् अनेकभङ्गैःबहुप्रकारैः, रचिताः-निर्मिताः,ये रजा:-नृत्यमण्डपाः, नील-पीतादिवर्णा वा, तेषामावल्या, तरङ्गितः-तरङ्गवत्वेन लक्षितः, मसृणमणिकुट्टिमस्य-चिकणमणिबद्धभूमेः, उत्सङ्गः-मध्यभागो यस्मिंस्तादृशम् ; पुनः अविरलप्रकीर्णपुष्पप्रकरम् अविरलं-निरन्तरम् , प्रकीर्णः-प्रक्षिप्तः, पुष्पप्रकरः-पुष्पसमूहो यस्मिंस्तादृशम् ; पुनः वारयोषाभिः वाराङ्गनाभिः, वेश्याभिरिति यावत् , आर्यमाणपर्यन्तम् आपूर्यमाण:-व्याप्या अखिललोकप्रार्थनीयसङ्गमाभिः अखिललोकः-सर्वजनैः, प्रार्थनीयः-स्पृहणीयः, सामः-सम्पर्को यासां तादृशीभिः पुनः राजलक्ष्मी राजशोभा, द्रष्टुं साक्षात्कर्तुम् , एकहेलया युगपत , उपगताभिः आगताभिः, मर्त्यलोकलक्ष्मीभि. रिव मर्त्यभुवनसम्बन्धिनीभिलक्ष्मादेवीभिरिवेत्युत्प्रेक्षा; पुनः अनर्घ्यरत्नाभरणभूषितालयष्टिभिः अनध्य:-अमूल्यैः, रत्नाभरणैः-रक्षमयालङ्करणैः, भूषिता-उद्भासिता, अङ्गयष्टिः-शरीरयष्टिर्यासां तादृशीभिः; पुनः कचित् सुखासीनसचिव पुत्रविचायमाणनव्यकविनिबद्धकाव्यगुणदोषविभागं वचित्-कुत्रचित्स्थाने, सुखेन-आनन्देन, आसीनैः-उपविशद्भिः, सचिवपुः,-मत्रिपुत्रैः, विचार्यमाण:-आलोच्यमानः, नव्यकविनिबद्धस्य-नवीनकविप्रणीतस्य, काव्यस्य, गुणदोष. विभाग:-गुण-दोषयोविभागः-पार्थक्यं, यस्मिंस्तादृशम् । पुनः कचिदाबद्धमण्डलीकवैपश्चिकप्रपश्यमानललितपञ्चमग्रामरागं कचित्-कस्मिंश्चित् स्थाने, आबद्धमण्डलीकैः-रचितमण्डलिकः, वैपच्चिकैः-विपञ्ची-वीणा, तद्वादनं शिल्पं येषां तैः, वीणावादिभिरित्यर्थः, प्रपञ्च्यमानाः-स्फुटीक्रियमाणाः, पञ्चमः-"वायुः समुत्थितो नाभेरुरोहत्कण्ठमूर्धसु । विचरन् मध्यमस्थानप्राप्या पञ्चम उच्यते ॥" इत्यभियुक्तोक्तः, खरसन्दोहरूपो ग्रामश्च, रागो लयश्च यस्मिंस्तादृशम् ; पुनः कचिद्वाछिताधिकारसेवकवारपरिचर्यमाणविकटवेत्रासनोपविष्टप्रधानसचिवं कचित्-कस्मिंश्चित् स्थाने, वाञ्छितः-अभिलषितः, अधिकारः-उच्चाधिकारी यैस्तादृशानां सेवकानां-परिचारकाणाम् , वारेण-समूहेन, परिचर्यमाणःसेव्यमानः, विकटे-विस्तृते, वेत्रासने-वेत्ररचितासने, उपविष्टः प्रधानसचिवः-प्रधानमन्त्री, यस्मिस्तादृशम् , “स्तोमीध-निकरवात-वार-संघात-संचयाः” इत्यमरः; पुनः, कचिल्लिख्यमाननिःसंख्यराजाशालेखमुद्रासिन्दूरपूरारुणीकृतदिवं कचित्-कुत्रचित् स्थाने, लिख्यमानानां, निःसंख्यानां-संख्यारहितानाम् , राजाज्ञाना-राजकीयादेशानाम् , ये लेखा:-तद्बोधकाक्षराणि, तेषां यानि मुद्रासिन्दूराणि-मसीशोषणार्थमक्षररजनार्थ च तदुपरि विकीर्यमाणारुणरेणवः, तेषां पूरेण-पुजेन, अरुणीकृता द्यौराकाशं यस्मिंस्तादृशम् , “सिन्दूरं रकचूर्णके” इति मेदिनी; पुनः क्वचिचतुरपरिहासरञ्जितराजगणिकाकटाक्षवीक्षणकृतार्थीकृतपूर्वसंसृष्टविटसामन्तं वचित्-कस्मिंश्चित् स्थले, चतुरेण-वैदग्ध्यपूर्णेन, परिहासेन,