________________
टिप्पनक-परागविवृतिसंवलिता कुचयुगलस्य साहायकम् , अहो ते बालिशत्वम् , अहोऽनालोचकत्वम् , अहो यहच्छाकारिता' इत्यभिधाय सत्वराकृष्टसंनिकृष्टविलासोपकरणपटलकः सविलेपनां सालङ्कारां सतिलका सावतंसां सशेखरां स्वकरण तां चकार [ज]
दृष्ट्वा च विरतनिमेषया दृष्टया सुचिरमतिचारुणा तेन वेषग्रहणेन तैश्च तत्कालमाविर्भूतैः प्रियप्रेमातिशयजन्मभिः स्मरविकारैर्द्विगुणतररम्यदर्शनां सुदृढमाश्लिष्य शयनीयमनयत, तत्रैव च तया सह सुष्वाप [झ]। स्वल्पावशेषायां च क्षपायामधोमुखविषाणकोटिनोवंचरणेन लाञ्छनमृगेण विधृतमूलाग्रभागव्यत्यये व्रजत्यस्तमस्ताचलचकोरकामिनीमन्दमन्दाचान्तपिच्छायविरसचन्द्रिक चन्द्रमसि, प्रतिवेलमुन्नतनतशिखेषु तत्क्षणमुदयमानमरुणमिव वातायनान्तरेणावलोकयत्सु निजप्रभापहारभीतेषु वासभवनप्रदीपेषु, प्रभातपरुषमारुताहतासु तनुतमिस्रच्छेदपल्लवकृतनिवेशमवश्यायजलबिन्दुजालमिव नक्षत्रनिवहमजस्रमुज्झतीवाशालतासु, पर्याय
पादयन्या, त्वयेति शेषः, प्रकृतिकर्कशस्य स्वभावतः कठोरस्य, अस्य कुचयुगलस्य स्तनद्वयस्य, साहाय्यक सहायत्वम् , स्थौल्यार्थ उपकार इति यावत् , किमिति किमर्थ कृतं विहितम् , शरीरमध्यभागस्य कार्ये कुचस्थौल्यस्यावश्यम्भावात् । ते तव, बालिशत्वं मूर्खत्वम् , अहो खेदजनकम् , अनालोचकत्वम् अविचार्यकार्यकारित्वम् , अहो खेदजनकम् , यहच्छा. कारिता खेच्छया कार्यकारित्वमपि, अहो खेदजनकम् । इति इत्थम् , अभिधाय उक्त्वा, सत्वराकृष्टसन्निकृष्टविलासोपकरणपटलकः सत्वरं-शीघ्रम् , आकृष्टम्-आकृष्य गृहीतम्, सनिकृष्टानां-निकटस्थितानाम् , विलासोपकरणानांविलासोपयोगिनां विलेपनद्रव्यादीनाम्, पटलं-समूहो येन तादृशः स राजा, स्वकरेण वहस्तेन, तां राज्ञीम्, सविलेपनां विलेपनद्रव्येण विलिप्ताम् , पुनः सालङ्काराम् अलङ्कारैरलङ्कृताम् , पुनः सतिलका रचिततिलकाम् , पुनः सावतंसाम् अवर्तसेन-कर्णपूरेण सहिताम्, सशेखरा मस्तकाभरणयुताम् , चकार कृतवान् , "पुंस्युत्तंसाऽवतंसौ द्वौ कर्णपूरे च शेखरे" इत्यमरः [ज]। अतिचारुणा अतिमनोहरेण, तेन अनुपदमुपवर्णितेन, वेषग्रहणेन वेषधारणेन, च पुनः, तत्कालं तत्क्षणम् , आविर्भूतैः उद्भूतैः, प्रियप्रेमातिशयदर्शनजन्मभिः प्रियस्य-भर्तुः, यः प्रेमातिशयः-स्नेहातिशयः, तस्माजन्मयेषां तादृशैः, तैः प्रसिद्धैः, स्मरविकारैः कामविकारैः, द्विगुणतररम्यदर्शनां द्विगुणतरम्-अतिद्विगुणम् , रम्य-मनोहरम् , दर्शनं यस्यास्तादृशीम् , मदिरावतीमिति शेषः, विरतनिमेषया निमेषशून्यया, दृष्ट्या-नेत्रेण, सुचिरम् अतिदीर्घकालम् , दृष्ट्वा निरीक्ष्य, सुदृढम् अत्यन्तम् , आश्लिष्य आलिङ्गय, शयनीयं शय्याम् , अनयत नीतवान् । च पुनः, तत्रैव तस्यामेव शय्यायाम् , तया मदिरावत्या सह, सुष्वाप सुप्तवान् [झ] । च पुनः, स्वल्पावशेषायां खल्पः-अत्यल्पः, अवशेषो यस्यास्तादृश्याम् , किञ्चिदवशिष्टायामिति यावत् , क्षपायां रात्रौ, स्वप्ने स्वप्नावस्थायाम्, राजा सुरेन्द्रवाहनम् इन्द्रवाहनभूतम् , वारणं हस्तिनम् , ऐरावतमित्यर्थः, अपश्यत् दृष्टवानिति दूरेणान्वेति । कस्मिन्नवसरे ? चन्द्रमसि चन्द्रे, अस्त, प्रजति गच्छति सति, कीडशे तस्मिन् ? अधोमुखविषाणकोटिना अधोमुखी विषाणकोटि:-शृङ्गाप्रभागो यस्य तादृशेन, पुनः ऊवचरणेन ऊच्चों-ऊर्ध्वस्थितो, चरणौ-पादौ, यस्य तादृशेन, लाञ्छनमृगेण चिहभूतमृगेण, विधृतमलाग्रभागव्यत्यये विधृतः-गृहीतः, मूलाग्रभागयोः-मूलभागोर्ध्वभागयोः, व्यत्ययः-वैपरीत्यं यस्मिंस्तादृशे, पुनः अस्ताचलचकोरकामिनीमन्दमन्दाचान्तविच्छायविरसचन्द्रिके अस्ताचले-पश्चिमपर्वते,याश्चकोरकामिन्यः-चकोरस्त्रियः, ताभिः, मन्दं मन्दं शनैः शनैः, आचान्ताः-समन्तादुपभुक्ता, विच्छाया-विगतप्रकाशा, विरसा-दर्शने वैरस्यावहा, चन्द्रिकाज्योरमा यस्य तादृशे। तथा प्रतिवेलं तस्मिन् तस्मिन् पवनास्फालनसमये, उन्नतनतशिखेषु ऊवधिोभावेन पवनान्दोलितज्वालेषु, निजप्रभापहारभीतेषु निजप्रभायाः-स्वक्रान्तेः, योऽपहारः-सूर्येणाभिभवः, तीतेषु, वासभवनप्रदीपेषु वासगृहस्थितप्रकृष्टदीपेषु, तत्क्षणं सद्यः, उदयमानम् उद्यन्तम् , अरुणं सूर्यसारथिम्, वातायनान्तरेणग वाक्षमध्येन, अवलोकयत्खिव पश्यत्सु इवेत्युत्प्रेक्षा, नेत्रस्थानीयाभिः पवनोद्धृतशिखाभिः खप्रभापहारिणः सूर्यस्योदयमवलोकितवन्त आसन् प्रदीपा इत्यर्थः । तथा प्रभातपरुषमारुताहतासुप्रभाते-प्रातःकाले, यः परुषः-कठोरः,मारुतः-पवनः, देन आइतासु-कृताघातासु, आशालतासु दिग्रूपलतासु, तनुतमिस्रच्छेदपल्लवकृतनिवेशं तनुतमिस्रस्य-कृशान्धकारस्य, छेदाः-खण्डा एव,