________________
तिलकमञ्जरी। विघटमानाष्टदिग्भागदलं विकटायमानकुक्षिकोटरमरविन्दमिव मधुपङ्कदिग्धेष्वलिकुलेषु गगनमपहाय तत इतः प्रयात्सु संध्यारागरञ्जितेषु रजनीतमस्सु, राजा राजतगिरिशिखरमधिरूढायाः श्वेतवसनस्रग्विलेपनालङ्कारकमनीयमूर्तेर्मदिरावत्याः शैलराजदुहितुरिव हेरम्बमम्बरादवतीर्य पुरःस्थितमपारपरिमलान्धैः सर्वतो निपतद्भिरश्रान्तझकारमुखरिताशामुखैरहमहमिकया विलुप्यमानकपोलमदवारिनिर्झरमलिकुलैः कुचकुम्भविन्यस्तविकटपुष्करेण करेणाकृष्याकृष्य स्तन्यमापिबन्तं स्वप्ने सुरेन्द्रवाहनं वारणमपश्यत् [अ] । उपशान्तनिद्रश्च मङ्गलतूर्यनिर्घोषेण सप्रहर्षमुत्थाय प्रथमतरमुत्थितायाः 'देवि! संपन्नास्ते गुरुजनाशिषः, प्रसन्ना समासन्नैव देवी राजलक्ष्मीः , भविष्यत्यशेषभूभृचक्रचूडारत्नमचिरेणैव सूनुः' इत्युदीर्य प्रकटितादरो मदिरावत्याः स्वप्नमाचचक्षे, सापि बद्धावधाना सविस्मयब्रीडमवनतेन शिरसा तमश्रौषीत् [2]॥
पल्लवाः-वर्णसाम्यानूतनदलानि, तत्र कृतो निवेश:-समावेशो येन तादृशम् , अघश्यायजलबिन्दुजालमिघ हिमजलबिन्दुपुञ्जमिवेत्युत्प्रेक्षास्पदम्, नक्षत्रनिवहं तारासमूहम् , अजस्रं सततम्, उज्झतीषु मुश्चन्तीषु सतीसु । तथा मधु. पङ्कदिग्धेषुमधुपङ्केन-मकरन्दद्रवेण, दिग्धेषु-उपलिप्तेषु, अलिकुलेषु भ्रमरमण्डलेषु, अरविन्दमिव कमलमिव, गगनम् आकाशमण्डलम् , अपहाय त्यक्त्वा, सन्ध्यारागरञ्जितेषु सन्ध्याकालिकरक्तवर्णव्याप्तेषु, रजनीतमस्सु निशान्धकारेषु, तत इतः अत्र तत्र, प्रयात्सु प्रयाणमाचरत्सु, कीदृशमरविन्दम् ? पर्याय विघटमानाष्टदिग्भागदलं पर्यायेण-क्रमेण, विघटमानानि-विश्लिष्यमाणानि, पक्षे पृथगवभासमानानि, अष्टदिग्भागदलानि-अष्टदिग्भागावलम्बिपत्राणि, पक्षे अष्टदिग्भाग. रूपपत्राणि यस्मिंस्तादृशम् , पुनः विकटायमानकुक्षिकोटरं विकटायमानः-प्रकटायमानः, कुक्षिकोटर:-मध्यभागरूपगुहा, यस्मिंस्तादृशम् । कीदृशम् वारणमपश्यत् ? अम्बरात्-आकाशात , अघतीर्य अधस्तादागत्य, पुरः अग्रे, स्थितम् उपविष्टम् । पुनः कीदृशम् ? राजतगिरिशिखरमधिरूढायाः राजतः-रजतसंबन्धी, यो गिरिः-कैलासपर्वतः, तस्य शिखरम् , अधिरूढायाः-आरूढायाः, पुनः श्वेतवसननग्विलेपनालङ्कारकमनीयमूर्तेः श्वेतवसनेन-शुभ्रवस्त्रेण, सजा-माल्येन, विलेपनेन-अरागेण, अलङ्कारैः-हाराद्याभूषणैश्च, कमनीया-मनोहरा, मूर्तिः-शरीरं, यस्यास्तादृश्याः, स्तन्य दुग्धम् , पिबन्तं पानकर्मतामापादयन्तम् , कस्पाः कमिव किं कृत्वा ? शैलराजदुहितुः पार्वस्याः, हेरम्बं गणेशमिव, कुचकुम्भविन्यस्तविकटपुष्करेण कुम्भाविव यौ कुचौ-स्तनौ, तत्र विन्यस्त-स्थापितम्, विकटं प्रकटम्, पुष्करम्अग्रभागो यस्य तादृशेन करेण-शुण्डादण्डेन, आकृष्याकृष्य पुनः पुनराकृष्य । पुनः कीदृशम् ? अहमहमिकया अहमहम्भावेन, अलिकुलैः भ्रमरसमूहैः, विलुप्यमानकपोलमदवारिनिझरं विल्लुप्यमानः-पानद्वारा निरुध्यमानः, कपोल मदवारिणः-गण्डस्थलनिष्पन्दिमदजलस्य, निर्झरः-प्रवाहो यस्य तादृशम् , कीदृशैर लिकुलैः ? अपारपरिमलान्धैः अपारेणबहुतरेण, परिमलेन-मदजलसौरभेण, अन्धैः-व्यामुग्धैः, पुनः सर्वतः सर्वदिग्भ्यः, निपतद्भिः मदजलप्रवाहे निमज्जद्भिः, पुनः अश्रान्तझङ्कारमुखरिताशामुखैः अश्रान्तैः-अविरतैः, झङ्कारैः-ध्वनिविशेषैः, मुखरितानि-प्रतिध्वानितानि, आश. मुखानि-दिङ्मुखानि यस्तादृशैः []। च पुनः, मङ्गलतूर्यनिर्घोषेण मङ्गलतूर्याणां-माङ्गलिकवाद्यविशेषाणाम् , यो
घोषः-ध्वनिः तेन उपशान्तनिद्रः-भननिद्रः, सहर्षहर्षपूर्वकम्, उत्थाय जागरित्वा, प्रथमतरं पूर्वतरम्, उत्थितायाः प्रबुद्धायाः, मदिरावत्याः, देवि! ते तव, गुरुजनाशिषः श्रेष्ठजनशुभैषणाः, संपन्नाः सिद्धाः, समासव सन्निहितैव, राजलक्ष्मी देवी राजवैभवाधिष्ठात्री लक्ष्मीनाम्नी देवी, प्रसन्ना प्राप्तप्रसादा, यतः अशेषभूभृश्चक्रचूडारत्नम् अशेषाणां भूमृतां-राज्ञाम् , यच्चक्र-समूहः, तस्य चूडारनं-मुकुटरूपः, सूनुः पुत्रः, अचिरेणैव अविलम्बेनैव, भविष्यति उत्पत्स्यते, इत्युदीर्य इत्युक्त्वा, प्रकटितादरः प्रदर्शितादरः, खप्नं तद्विषयकवानज्ञानम् , आचचक्षे उक्तवान् । सापि मदिरावत्यपि, बद्धापधाना कृतावधाना सती, अवनतेन नम्रतां गतेन, शिरसा मस्तकेन, सविस्मयवीडं साश्चर्यलज्जम् , तं खप्नम् , अश्रौषीत् श्रुतवती [2]।