________________
कथासारः।
तदीयकोशमपजहार, त्रयस्त्रिंशत्रिदशकोटिकदर्थनया समूलमेव सुमेरुमाजहार च, नान्यथेगायतनं शक्येत निर्मातुम् , इत्थमालोचयत्येव मयि रभसप्रेरिता नौस्तदायतनदक्षिणप्राकारभित्तिमागमत् । क्रमेणाक्रम्य च तत्प्राकारभित्तेः प्राग्भागं क्षपितमार्गश्रमस्तारकमचक्यम् --
'सखे ! अतः परं सन्तानकप्रभृतीनि विकसितदिव्यकुसुमान्यवचित्य निर्झरादानीय च पानीयमन्तःप्रतिष्ठितमस्यायतनस्य भगवन्तमर्चितुं यतनीयम् , येन मदीययात्रा फलशालिनी सम्पद्येत' इत्थमभिहितोऽसौ विहस्य कुमार ! तत् सर्व सुकरम् , किन्तूभयतो दूरविततटककर्तितप्रकृताद्रिकटकसंसृष्टप्राकारप्रतिरुद्धमवतारद्वारमस्सान्निर्गमिष्यता केनचिदुपदेशमन्तरा दुर्निरूपमिति तत्प्रतिपालनमेव तावत् प्राप्तकालम् ।
___ नूनमेवास्यायतनस्याभ्यन्तरे कोऽपि तिष्ठति, चन्दनप्रवालवन्दनमालादिलिङ्गैरत्र यात्रोत्सवस्याचिरनित्ततायाः प्रतीतेः, इति ब्याहरत्येव तस्मिन्नकस्मादादिगन्तगामी सोपानमार्गेण सविधमापततः स्त्रीगणस्य नूपुरझणत्कारस्तारः पुरस्तादुचचार ।
___ तदनु च व्यापार्यमाणलोचनः प्राकारशिखरे राशीभूतानां लोकोत्तरलावण्यसम्पदा प्रत्यङ्गमनुस्यूतानां कन्यकानां मध्ये षोडशवर्षवयस्कां दिव्यामेकां कन्यकामद्राक्षम् ।
इत्थमपूर्वकथारसप्लुतचेतसा स्ववृत्तान्तविज्ञापनब्यासक्ते समरकेतौ सहसैव प्रमोदोत्फुल्लनयना प्रतीहारी प्रविश्य "कुमार! पीतमतिस्फीतमधुना युवराजोपन्यस्तकथाकर्णामृतम् ; अतः परं नयनामृतमपि क्षणमास्वाद्यताम्" इत्थं हरिवाहनमभिधायोत्तरीयाञ्जलनियन्त्रितं चित्रपट दक्षिणकरेणादाय सादरमर्पयामास ।
[ अपूर्णः]