________________
टिप्पनक-परागविवृतिसंवलिता अनतिदूरवर्तिनीभिः संनिधापितसितकुसुमदामदुर्वाक्षतदधिलयाभिरमलकाश्चनस्थालविनिहितोच्छिखज्वलपिष्टमयमङ्गलप्रदीपाभिः प्रत्यग्रविरचितचतुष्कचारुणि मणिवितर्दिकापृष्ठपीठे प्रतिष्ठापितविततहेमपट्टाभिमुहुर्मुहुरदेशप्रहितलोचनामिः प्रतिपालयन्तीभिः क्षोणीपालागमनमतिरुचिरवेषाभिरन्तःपुरविलासिनीभिः परिवृतां मदिरावतीमद्राक्षीत् [3] ॥ ___ दृष्ट्वा च दूरविकसितस्मितादृष्टिस्तां ससंभ्रमकृताभ्युत्थानां करे गृहीत्वा तत्र मणिवेदिकापृष्ठवर्तिनि समीपोपविष्टेयुगपदुत्थाय विहितप्रणामैः प्रधानान्तवंशिक सादरमुपदर्शिते स्पर्शवति हेमविष्टरे न्यवेशयत् []। उपविष्टश्च दक्षिणं पार्श्वमाश्रित्य तस्याः क्रमेणैताभिः सकललौकिकाचारकुशलाभिरिवनिताभिः प्रयुक्तमवतारणकमङ्गलमन्वभवत् [छ] ॥
अथ पुरोहितपुरःसरेषु विहितसायंतनस्वस्त्ययनकर्मस्वपक्रान्तेषु, प्रमोदसलिलप्लुतेक्षणासु दत्त्वाऽक्षतानुदीरिताशीष्षु निर्गतासु बान्धववृद्धासु, प्रस्थितेषु यथास्वमधिकारसदनानि सौविदल्लेषु, प्रारब्धपरिहासपेशल
अक्षतस्य-आर्द्रतण्डुलस्य, दनश्च, लवाः-अंशा याभिस्तादृशीभिः; पुनः अमलकाञ्चनस्थालविनिहितोच्छिखज्वलपिष्टमयमङ्गलप्रदीपाभिः अमलेषु-निर्मलेषु, काञ्चनस्थालेषु-सुवर्णमयपात्रेषु, विशेषेण निहिताः स्थापिता , उच्छिखाः-उद्उर्व, शिखा-ज्वाला, येषां तादृशाः, पिष्टमया:-स्निग्धचूर्णमयाः, मङ्गलादीपा याभिस्तादृशीभिः; पुनः प्रत्यग्रविरचितचतुष्कचारुणि प्रत्यप्रं-नूतनं यथा स्यात् तथा, विरचितेन-निर्मितेन, चतुष्केण-चतुःस्तम्भेन मण्डपेन, चारुणि-मनोहरे, मणिवितर्दिकापृष्ठपीठे मणिमयवेदिकापृष्ठभागरूपासने, प्रतिष्ठापितविततहेमपट्टाभिः प्रतिष्ठापितानि-संस्थापितानि, विततानि-विस्तृतानि, हेमपट्टानि-सुवर्णमयोचपीठानि याभिस्तादशीभिः पुनः द्वारदेशप्रहितलोचनाभिः द्वारदेश प्रहिते-प्रेरिते, लोचने याभिस्तादृशीभिः; पुनः क्षोणीपालागमनं क्षोणीपालस्य-राज्ञः, आगमनं प्रतिपालयन्तीभिः प्रतीक्षमाणाभिः; पुनः अतिरुचिरवेषाभिः अतिमनोहरवेषशालिनीभिः [3] ॥
दृष्टा च तां तथाविधामवलोक्य तु, दूरविकसितस्मितादृष्टिः दूरादेव विकसिता-उत्फुल्ला, स्मितेन-मन्दहासेन, आदा-परसा, यद्वा स्मिता-मन्दहासान्विता, सरसा-अश्रुभिरा , दृष्टिर्यस्य तादृशः, ससम्भ्रमकृताभ्युत्थानां सवेगमभ्युत्थिताम् , तां मदिरावतीम् , करे हस्ते, गृहीत्वा, तत्र तस्मिन् , हेमविष्टरे सुवर्णपट्टे, न्यवेशयत् उपवेशितवान् , स राजेति शेषः । कीदृशे ? मणिवेदिकापृष्ठवर्तिनि मणिवेदिकोपरि विद्यमाने, पुनः युगपदुत्थाय सहैवोत्थाय, विहितप्रणामैः कृताभिवादनैः, समीपोपविष्टः समीपस्थितैः, प्रधानान्तर्वशिकैः अन्तः- अभ्यन्तरः, वंश:-गृहम्, तत्र नियुक्तः, मुख्यभूतैरन्तःपुराधिकृतजनैरिति यावत् , सादरं सबहुमानम् , उपदर्शिते दृष्टिगोचरीकारिते, पुनः स्पर्शपति प्रशस्तस्पर्शने, "अन्तःपुरे त्वधिकृतः स्यादन्तर्वशिको जनः" इत्यमरः [च] । तस्याः मदिरावत्याः, दक्षिणपार्श्व दक्षिणभागम् , आश्रित्य अधिष्ठाय, उपविष्टः खयमपि कृतोपवेशनः स राजा, सकललौकिकाचारकुशलाभिः अशेषलौकिकव्यवहारनिपुणाभिः, एताभिः अनुपदमुक्ताभिः, वारवनिताभिः वेश्याभिः, प्रयुक्तं कृतपूर्वम् , यद् अवतारणकमङ्गलं वस्त्राञ्चलादिना पूजनरूपमङ्गलं स्वागतमङ्गलगानं वा, तत् अन्वभवत् अनुभूतवान् [छ]।
अथ अनन्तरम् , पुरोहितपुरस्सरेषु पुरोहितप्रमुखेषु, षट्कर्मसु अध्ययनाऽध्यापन-यजन-याजन दान-प्रतिग्रहरूपाणि घट् कर्माणि येषां ते षट्कर्माणो विप्रास्तेषु, विहितसायन्तनखस्त्ययनकर्मसु विहितम् -अनुष्ठितम् , सायन्तनंसायंकाल कम् , खस्त्ययन-कल्याणफलककर्मविशेषः, स्वस्तिपदघटितम अपाठ इति यावत् , यैस्तादृशेषु, अत एव अपक्रान्ते निष्कान्तेषु सत्सु, तथा प्रमोदसलिलप्लुतेक्षणासु प्रमोदसलिलैः-आनन्दजलैः, प्लुते व्याने, ईक्षणे नेत्रे यासां तादृशीषु, बान्धववृद्धासु बन्धुभूतवृद्धस्त्रीजनेषु, अक्षतान् शुभाशीर्व्यजकातण्डुलान् , दत्वा उरिक्ष य, उदीरिताशीषु उक्काशीर्वादासु, अत एव निगतासु निष्कान्तासु सतीधु, तथा सौविदल्लेषु अन्तःपुररक्षकजनेषु, यथाखं यथायोग्यम् , अधिकारसदनानि रक्षणाय स्वस्खाधिकृतगृहान् , प्रस्थितेषु कृतप्रस्थानेषु । तथा प्रारब्धपरिहासपेशलकथासु