________________
तिलकमारी। .
१७५ रणेन भर्तुरदर्शनेन च प्रकामकर्शितशरीराम् , उज्झितालङ्कारामप्यकृत्रिमेण कान्तिसुकुमारतादिगुणपरिगृहीतेनाङ्गमाधुर्येण सुकविवाचमिय सहृदयानां हृदयमावर्जयन्तीम् , ज्योत्स्नावदातनिर्मलाम्बरधारिणी राकारजनिमिव, वारंवारमधिगताधिकविकाशसंपदा मुखेन परिपूर्णमिन्दुमण्डलं तुलयन्तीम् , उपनीतविविधवस्त्राभरणमुत्सवागतं बन्धुवनितावर्ग सहस्रगुणमूल्यैरंशुकै रनालङ्कारैश्च संभावयन्तीम् , शक्रावतारगमने सबहुमानेन वेमानिकदर्शने सविस्मयेन दिव्यहाराङ्गुलीयकालङ्कारलाभे सपरितोषेण वैतालरूपव्यावर्णेन सत्रासेन कण्ठच्छेदसमये समासादितमूर्छन राजलक्ष्मीनर्मभाषितश्रवणे सहासोल्लासेन भाविखेचरचक्रसाम्राज्यसुतवरप्राप्स्यवसरे समारूढपरमानन्दनिःष्यन्देन मनसा पार्श्ववर्तिपरिजननिवेद्यमान पत्युरतिक्रान्तयामिनीवृत्तान्तमाकर्णयन्तीम् ,
पुनः सकलराज्यसुखोपभोगेषु सकलानि-समस्तानि, यानि राज्यसुखानि, तेषामुपभोगेषु-अनुभवेषु, निगृहीत. वृत्तिना निरुद्धमनोवृत्तिना; पुनः अतिदुष्करेण अतिदुःखसाध्येन च पुनः, भर्तुः पत्युर्मेघवाहनस्य, अदर्शनेन दर्शनाभावदुःखेन; पुनः कीदृशीम् ? उज्झितालङ्कारामपि त्यक्ताभरणामपि, पक्षे त्यक्तानुप्रासोपमायलङ्कारामपि, सुकविवाचमिव सत्कविवाणीमिव, अकृत्रिमेण स्वाभाविकेन, कान्तिसुकुमारतादिगुणपरिगृहीतेन कान्तिःदेहधुतिः, सुकुमारता-अतिकोमलता च आदियेषां तादृशः गुणैः, परिगृहीतेन-अन्वितेन, अङ्गमाधुर्येण शरीरसौन्दर्येण, पक्षे कान्तिः-औज्वल्यम् , हालिकादिपदविन्यासवैपरीत्येन विजातीयशोभाशालित्वमिति यावत् , सुकुमारता-अक्षराणाम्पारुष्यम्, तत्प्रभृतयो ये गुणा:-भात्मनः शोर्यादय इव रसस्योत्कर्षका धर्माः, तैः परिगृहीतेन, अङ्गमाधुर्येण अङ्गस्य-काव्यशरीरभूतस्य शब्दस्य, यन्माधुर्य-श्रुतिसुखाधायकत्वं तेन, सहृदयानां ददयवताम् , चेतनानामित्यर्थः, पक्षे काव्यार्थपरिशीलनपरिणतमतीनाम्, हृदयम् अन्तःकरणम्, आवर्जयन्तीम् आकर्षन्तीम्, पुनः राकारजनिमिव पूर्णिमारात्रिमिव, ज्योत्सनावदातनिर्मलाम्बरधारिणी ज्योत्स्नावत्-चन्द्रिकावत् , अवदातः-धवलः, निर्मल:-स्वच्छश्च, योऽम्बरः-वस्त्रम् , तद्धारिणीम् , पक्षे ज्योत्स्नया-चन्द्रिकया, अवदातं निर्मलं च यदम्बरम्-आकाशम्, तद्धारिणीम् , पुनः अधिगताधिकविकाससम्पदा अधिगता-प्राप्ता, अधिका-विपुला, विकाससम्पत्-प्रकाशसम्पत्तिर्येन तादृशेन, मुखेन, वारं वारं पुनः पुनः, परिपूर्ण-सम्पूर्णम् , इन्दुमण्डलं चन्द्रमण्डलम् , तुलयन्तीम् उपमिन्वतीम् , पुनः उपनीतविविधवस्त्राभरणम् उपनीतानि-उपहृतानि, विविधानि वस्त्राणि, आभरणानि-आभूषणानि च येन तादृशम् , उत्सवागतम् उत्सवप्रसङ्गेनागतम्, बन्धुवनितावर्ग स्वबन्धुरूपनारीगणम् , सहस्रगुणमूल्यैः तदुपनीतवस्त्राभरणमूल्यापेक्षया सहस्रगुणानि-सहस्रगुणाधिकानि, मूल्यानि-निष्क्रयद्रव्याणि, येषां तादृशः, अंशुकैः श्लक्ष्णवस्त्रैः, कौशेयवस्वैरिति यावत् ; च पुनः, रत्नालङ्कारैः रममयाभूषणैः, सम्भावयन्ती सत्कुर्वतीम् । पुनः पार्श्ववर्तिपरिजननिवेद्यमानं पार्श्ववर्तिपरिजनेन-निकटवर्तिपरिवारेण, बोध्यमानम् , पत्युः मेघवाहनस्य, अतिक्रान्तयामिनीवृत्तान्तं व्यतीतरात्रिसमाचारम् , मनसा हृदयेन, आकणेयन्ती शृण्वतीम्, कीदृशेन मनसा? शक्रावतारगमने शकावताराख्यतीर्थप्रयाणश्रवणक्षणे, स बहुमानसहितेन; पुनः वैमानिकदर्शने विमानवासिदेवदर्शनश्रवणक्षणे, सविस्मयेन आश्चर्यान्वितेन; पुनः दिव्यहारालीयकालङ्कारलाभे परमोत्तमहाराहुलीयकरूपाभरणप्राप्तिश्रवणक्षणे, सपरितोषेण सन्तुष्टेन; पुनः वेतालरूप. व्यावर्णने देतालसम्बन्धिभयङ्कराकृतिवर्णनश्रवणक्षणे, सत्रासेन भीतेन; पुनः कण्ठच्छेदसमये कष्ठकर्तनश्रवणक्षणे, समासादितमूर्छन मूच्छितेन; पुनः राजलक्ष्मीनर्मभाषितश्रवणे राजलक्ष्म्याः -राजवैभवाधिष्ठातृदेव्याः, नर्मणा
भाषितम्-उत्तम, तस्य श्रवणे-श्रवणक्षणे, सहसोलासेन सहसा-शीघ्रम् , उल्लास:-आनन्दो यस्य तादृशेन, सहासोल्लासेनेति पाठे हासेन सहितः सहासः, हासपूर्वक उल्लासो यस्य तादृशेन पुनः भाविखेचरचक्रसाम्राज्यसुतवरप्राप्स्यवसरे खेवरचक्रस्य-विद्याधरसमूहस्य, यत् साम्राज्य-सम्राट्वम्, तद् भावि-भविष्यद् यस्य तादृशो यः सुतःपुत्रः, तदर्थवरलाभश्रवणक्षणे, समारूढपरमानन्दनिःस्यन्देन समारूढः-समासादितः, परमानन्दस्य-अत्यानन्दामृतस्य, निःस्यन्दः-प्रस्रवणम् ,प्रादुर्भाव इति यावत् , येन.तादृशेन । पुनः कीदृशीम् ? अन्तःपुरविलासिनीभिः अन्तःपुरवधूभिः, परिवृतां वेष्टिताम् , कीदृशीभिः ? अनतिदूरवर्तिनीभिः निकटवर्तिनीभिः; पुनः संनिधापितसितकुसुमदामदूर्वाक्षतधिलवाभिः संनिधापिताः-मङ्गलार्थमुपस्थापिताः, सितकुसुमदानः-श्वेतपुष्पमाल्यस्य, दूर्वायाः-तदाख्यतृणविशेषस्य,