________________
तिलकमञ्जरी ।
२६७ कूर्मि तार्क्ष्यवपुरिवाखण्डितं सर्पदशनैर्वसुंधराया मधुरिपोच वास इति विश्रुतमुद्वहन्तं चारि भगवन्तमम्भोनिधिमपश्यम् [ औ ] |
तस्य चाविषमविस्तीर्णावकाशे सर्वतो वहत्स्वादुसलिलस्रोतसि चलाचलप्रान्तपरिसरे सन्निविष्टम्, अनतिसन्निकृष्टप्रधान सचिवावासम्, उल्लासितानेकवर्णघनवितानैरुत्पातगगनमिव दिगन्तैः परिगतमशेषतः सामन्तशिविरैः, प्रतिद्वारमुच्छ्रतानेक्रम करतोरणम्, अनेककक्षान्तरोपेतम्, इतस्ततः प्रकल्पिताधिकारिकर्मशालं, कुण्डलीकृतशक्रकोदण्डशोभा विडम्बनदक्षाभिः शरीररक्षाधिकार नियुक्तानां वीरपुरुषाणामन्योऽन्यलग्नाभिरनेकवर्णगुणल्यनिकाभिस्त्रिः परिक्षिप्तम्, ऊर्ध्वनिखात निश्चलस्थूणाश्रेणि संयतया वेणुदण्डिकामय्या महाप्रमाणया वृत्या समन्ततः परिवृतैः श्वेतैश्च शितिभिश्च लोहितैश्च कल्माषैश्च महाकायमण्डपिका मण्डिताजिरैरखण्डबुनाण्डकपरिमण्डलाकारैः पटागारैः स्थपुटितावकाशं स्वावासमत्रजम् [अं] ।
टिप्पनकम् - उल्लासितानेकघनवितानैः स्वीयैयत (?) [ रुद्धपर्यन्त ] नानावर्णमेघ संघातैः, अन्यत्रोल्लासितानेकवर्णनिबिढचन्द्रोदयैः [अं] ।
यस्य तादृशमिति विरोधः, तदुद्धारे तु कूर्माः - कच्छपाः सन्ति अस्मिन्निति व्याख्येयम्; पुनः तार्क्ष्यवपुरिव गरुडशरीरमित्र, सर्पदशनैः सर्पदन्तैः, अखण्डितम् अवदारितम् अन्यन्त्राखण्डितमपरिच्छिन्नम्, अशनैः - शीघ्रं, सर्पत्-प्रसरत्, पुनः 'वसुन्धराया पृथिव्याः, मधुरिपोः विष्णोश्व, वासः वस्त्रं वासस्थानं च इति विश्रुतम् [ औ ] ।
च पुनः, तस्य समुद्रस्य, चलाचलप्रान्तपरिसरे चलाचले - चञ्चले, प्रान्तपरिसरे - निकट कच्छस्थले, सन्निविष्टं समवस्थितम्, स्वावासं खनिवासस्थानम्, अव्रजम् अगच्छम् । कीदृशे ? अविषमविस्तीर्णावकाशे अविषमः समभूतः, विस्तीर्णः - दीर्घश्व, अवकाशो - निरावरणस्थानं यस्मिंस्तादृशे, पुनः सर्वतः सर्वभागेषु, वहत्वादुसलिलस्रोतसि वहन्तिस्यन्दमानानि, खादूनां मधुराणां सलिलानां जलानां, स्रोतांसि प्रवाहा यस्मिंस्तादृशे कीदृशमावासम् ? अनतिसन्निकृष्टप्रधान सचिवावासम् अनतिसन्निकृष्टः-- अनत्यन्तसन्निहितः, प्रधानसचिवस्य- मुख्यमन्त्रिगः, आवासो - वासभवनं यस्य तादृशम् ; पुनः दिगन्तैः दिगमैः, उत्पातगगनमिव युगान्त कालिकाकाशमण्डलमिव, सामन्तशिबिरैः क्षुद्रनुपसेनासन्निवेशैः, अशेषतः सर्वतः परिगतं परिवृतम्, कीटशैर्दिगन्तैः सेनासन्निवेशैश्वे याह- उल्लासितानेकवर्ण घन वितानैः उल्लासिताः-उन्नमिताः, अनेकवर्णाः - नानावर्णाः, घनाः - निविडाश्च, वितानाः-उल्लोचाः चन्द्रातपा येषु तादृशैः, पक्षे उल्लासिता नानावर्णा धनाः- मेघा एवं बितानाः, तादृशानां घनानां - मेघानां वितानाः - विस्तारा वा येषु तादृशैः; पुनः प्रतिद्वारं सर्वद्वारेषु, उच्छ्रितानेकमकरतोरणम् उच्छ्रिताः- उन्नमिताः, अनेके मकरतोरणाः-नक्रमया बाह्यद्वाराणि यस्मिंस्तादृशम् ; पुनः अनेककक्षान्तरोपेतम् अनेकैः - बहुभिः, कक्षान्तरैः - अवान्तरभवनावलीभेदैः, उपेतं युक्तम् ; पुनः इतस्ततः अत्र तत्र, प्रकल्पिताधिकारिकर्मशालं प्रकल्पिताः- निर्मिताः, अधिकारिणां कार्याधिकृतजनानां, कर्मशाला:- कार्यालया यस्मि स्तादृशम् ; पुनः शरीररक्षाधिकार नियुक्तानां - राजकीयशरीररक्षणात्मक कार्ये कृतनियोगानाम्, वीरपुरुषाणां पराक्रमशालिजनानाम्, अनेकवर्णगुणलयनिकाभिः अनेकवर्णाः - नानावर्णा ये गुणाः - तन्तवः, तन्मयीभिः, लयनिकाभिः मण्डपिकाभिः, त्रिः त्रिवारम्, परिक्षितं परिवेष्टितम् कीदृशीभिः ? कुण्डलीकृतशककोदण्डशोभा विडम्बनदक्षाभिः कुण्डलीकृतस्य- वलयाकारितस्य शक्रकोदण्डस्य -- इन्द्रधनुषः, या शोभा तद्विडम्बनदक्षाभिः - तदनुकरणकुशलाभिः, पुनः अन्योऽन्यलग्नाभिः परस्परसम्बद्धाभिः पुनः कीदृशम् ? पटागारैः वस्त्रमयगृहैः, स्थपुटितावकाश स्थपुटितः - नित्रोन्नतीकृतः, व्याप्त इति यावत्, अवकाशः - अनावृत्त प्रदेशो यस्मिंस्तादृशम् कीदृशैः ? वृत्या प्राकारेण, समन्ततः सर्वतः, परिवृत्तैः परिवेष्टितैः कीदृश्या वृत्त्या ? ऊर्ध्व निखातनिश्चलस्थूणाश्रेणिसंयतया ऊर्ध्वया - उन्नतया, यद्वा ऊर्ध्वे - उपरिभागे, निखातया- भूगर्भावस्थापितमूलया, निश्चलया - स्थिरया, स्थूणाश्रेण्या - स्तम्भपङ्ख्या, संयतमा नियत्रितया पुनः वेणुदण्डिकामय्या वंशयष्टिप्रचुरया, महाप्रमाणया अधिकप्रमाणया, अत्युन्नतयेत्यर्थः, पुनः श्वेतैः शुभ्रवर्णैः च पुनः, शितिभिः कृष्णवर्णैः च पुनः, लोहितैः रक्तवर्णैः, च पुनः, कल्माषैः चित्रवर्णैः, पुनः महाकाय मण्डपिका