________________
तिलकमञ्जरी ।
२७१
तत्र चापनीतपर्यन्तपरिकरे संवृतोत्कृष्टविष्टरतया यथाकथचिदासीनराजलोके ढौकितेऽध्वयोग्यगजवशावाजिनि निविश्य कृतसमुद्रावतारमार्गावलोकन: प्रत्यूषस्येव पौतिकानां कृताकृतज्ञानाय प्रेषितेन वेत्रिणा सार्थमापतन्तम् [ च ], असितोत्पलदलश्यामावदातवर्णमर्णवेनेव पूजाप्रीतेन प्रहितमवगाहनार्थमभिनवं वेलावनप्रियङ्गुपादपम्, अचिरमज्जनविशेषस्निग्धसुकुमारवपुषम्, अल्पमालती पुष्परचितशेखरम्, उल्लिखितशङ्खादातिनी तनीयसी नवे दुकूलवाससी वसानम्, अनवसानताम्बूलोपयोगपोषितस्वभावपाटलाधरपुटच्छविम् [ छ ], इन्दुलाच्छनच्छायापहारपटुना शरीरप्रभापटलेन नलनिधिजलेनेव सातिरेकलावण्यलाभतृष्णया संनिधावनुज्झितावस्थानं, प्रस्थान कालकल्पितामनल्पविस्तारे वदनलावण्यपयसि निपततां कटकलोकलोचनानामबलम्बनाय नावभिव संगृहीतां चन्दनपङ्कलेखिकामधिललाट तटमादर्शयन्तम् [ज], अभ्यर्णा पतत्कर्णधारव्यापारणेषु सविलासमुत्सर्पतो लोचनयुगलस्य क्षौमपाण्डुभिः प्रभानिर्गमैरधिकशोभा
च पुनः, अपनीतपर्यन्तपरिकरे अपनीतः त्यक्तः, पर्यन्तः - पार्श्ववर्ती, परिकरः - परिवारो यस्मिंस्तादृशे, तत्र बाह्य सभामण्डपे, यद्वा 'अपनीतपर्यन्तपरिकरे' इत्यनुपदवक्ष्यमाणसप्तम्यन्तप देनान्वेति । संवृतोत्कृष्ट विष्टरतया संवृतःकृतगोपनः, उत्कृष्टः-सुन्दरः, विष्टरः- आसनं यस्य तादृशतया यथाकथञ्चिदासीनराजलोके यथाकथञ्चिदुपविशनृपजने, ढोकिते प्राप्ते, अध्वयोग्यगजवशावाजिनि अध्वयोग्यः - मार्गयोग्यः, यो गजः, वशा- हस्तिनी, वाजी - अश्वः तत्समाहारे, निविश्य उपविश्य, कृतसमुद्रावतारमार्गावलोकनः कृतं समुद्रावतारमार्गस्य - समुद्र प्रवेश मार्गस्य, अवलोकनंदर्शनं निरूपणमित्यर्थः, येन तादृशः सन् पञ्चविंशतिवर्षदेशीयं पञ्चविंशतिवर्षवयस्ककल्पम्, नाविकयुवानं नावा चर तीति नाविकः–कर्णधारः, तादृशं युवानं यौवनावस्थं जनम्, अद्राक्षीत् दृष्टवान् कीदृशम् ! प्रत्यूषस्येव प्रभात एव, पौतिकानां जलयानवाहकानाम्, कृताकृतज्ञानाय कृतमकृतं च यत् कार्यं तत्रिरूपणाय, प्रेषितेन प्रहितेन वेत्रिणा दण्डधारिणा, सार्धं साकम्, आपतन्तम् आगच्छन्तम् [च] पुनः असितोत्पलदलश्यामावदातवर्णम् असितं - कृष्णवर्ण, यदुत्पलं कमलं तदीयदलस्येत्र - तदीयपत्रस्येव, श्यामः, अवदातः - विशुद्धश्व, वर्णो- रूपं यस्य तादृशम्, अत एव पूजाप्रीतेन अर्चना प्रसन्नेन, अर्णवेन समुद्रेण, अवगाहनार्थ प्रवेशार्थ, प्रहितं प्रेषितम्, अभिनवं नवीनं, वेलावनप्रियपादपमिव तटवर्तिचनसम्बन्धिप्रियसंज्ञकश्यामवर्ण वृक्षविशेषमिवेत्युत्प्रेक्षा, पुनः अचिरमजन विशेष स्निग्धसुकुमारवपुषम् अचिरमज्जनेन - किञ्चित्पूर्व कालकृतनानेन, विशेषस्निग्धम् अत्यन्तश्चक्ष्णं, सुकुमारं - कोमलं च वपुः शरीरं यस्य तादृशम्; पुनः अल्पमालती पुष्परचितशेखरम् अपैः कतिपयैः, मालतीपुष्पैः मालयाख्यपुष्पैः, रचितं शेखरं - शिरोमाल्यं येन तादृशम्; पुनः दुकूलवाससी उत्तराधरपट्टवस्त्रे, वसानम् परिदधानम् कीदृशे ? उल्लिखितशङ्खादातिनी उल्लिखितः - उद्धृष्टः, यः शङ्खः, तस्येव अवदाता - शुभ्रा, युतिः - कान्तिर्ययोस्तादृशे, पुनः तनीयसी अतिसूक्ष्मे, पुनः नवे नवीने; पुनः कीदृशम् ? अनवसानताम्बूलोपयोगपोषितस्वभावपाटलाधरपुटच्छविम् अनवसानेन-अविरतेन, ताम्बूलोपयोगेन - ताम्बूलभक्षणेन, पोषिता - पुष्टिमापादिता, स्वभावपाटला-स्वभावतः वे तरका अधरपुटच्छविः - ओष्ठपुटयोः कान्तिर्यस्य तादृशम् [ छ ]; पुनः इन्दुलाञ्छनच्छायापहारपटुता इन्दोः - चन्द्रस्य, यत् लाञ्छनं - कलङ्कः, तस्य या छाया कान्तिः, तदपहारपटुना - तदपहरणनिपुणेन, शरीरप्रभा पटलेन - शरीरकान्तिकला पेन, सन्निधौ निकटे, अनुज्झितावस्थानम् अनुज्झितम् - अत्यक्तम्, अवस्थानम् - अवस्थितिर्यस्मिंस्तादृशम्, कया केनेव ? सातिरेकलावण्यलाभ तृष्णया अधिक सौन्दर्य लिप्सया, जलनिधिजलेनेव समुद्रजलेनेवेत्युत्प्रेक्षा पुनः अधिललाटतटं भालतलप्रान्ते, चन्दनपङ्कलेखिकां चन्दनद्रवलेखाम्, आदर्शयन्तं प्रदर्शयन्तम् कीदृशीम् ? प्रस्थानकालकल्पितां प्रयाणसमयरचिताम्, कामिव ! अनल्पविस्तारे अत्यन्तविस्तृते, वदनलावण्यपयसि मुखसौन्दर्यसलिले, निपततां निमज्जतां, कटकलोकलोचनानां सैनिक जननेत्राणाम्, अवलम्वनाथ आश्रयणाय, संगृहीतां - सङ्घटितां, नावमिव नौकामिवेत्युत्प्रेक्षा [ अ ]; पुनः अभ्यर्णा पतत्कर्णधारव्यापारणेषु अभ्यर्णे-निकटे, आपततः आगच्छतः, कर्णधारस्य-नाविकस्य, व्यापारणेषु-प्रेरणेषु, सविलासं विलासपूर्वकम् उपसर्पतः उद्वेलतः, लोचनयुगलस्य नेत्र