________________
२३८
टिप्पनक-परागविवृतिसंवलिता धूपघटिकम् , सतारागणमिवाङ्गरागमणिभाजनैः, सान्धकारमिव परिमलाकृष्टमधुकरपटलैः, सज्योत्स्नमिव चीनांशुकवितानः, अतिशिशिरतया च जलकलशैरपि निबिडकर्पटावगुण्ठितकर्णैरुत्पन्नशिरोवेदनैरिवाधिष्ठितम् , उद्यानहंसैरपि चनुसंपुटधृतमृणालसूत्रपिण्डैः प्रावरणपटवानार्थिभिरिवेतस्ततो धावद्भिरध्यासितम् , आक्रीडगिरिभिरपि वारंवारमुञ्चरत्तारमयूरकेकैराकारितनिदाघतप्तापरशिलोश्चयैरिवामुक्तसांनिध्यम् , अशिपैरपि परस्परसंवलितशाखैरभिलषितनिरन्तरशरीराश्लेषैरिव परीतम् , अरतिविनोदस्थानमिव सागरविप्रयोगे सरय्त्राः, दुर्गनिवेशमिव ग्रीष्मनिर्दयावस्कन्देषु शिशिरस्य, दाहज्वरचिकित्सागृहमिव दिवसकरमण्डलप्रवेशेषु चन्द्रमसः, शिशिरोपचारमन्दिरमिव वनाग्निसंतापातिवाहनेषु हिमगिरेः, उपरि वर्षतां च प्रावृषेण्ययत्रजलधराणामु रनिनादनर्तितमयूरमण्डलेन निपतता समन्तादशान्तसंतानेन निरन्तरन्यस्तचन्द्रमणिशिलाप्रणाल विगलि.
सुगन्धिद्रव्यविशेषाणां यो धूपः, सस्य घटिका-घटी यस्मिंस्तादृशम् । पुनः अङ्गरागमणिभाजनैः अङ्गरागाणाम्-अङ्गविलेपन द्रव्याणाम् , मणिभाजनैः-मणिमयपात्रः, सतारागणमिव तारागणसहितमिव । पुनः परिमलाष्टमधुकरपटलैः परिमलेन-सौरभेण, आकृष्टानि-कृताकर्षणानि, यानि मधुकरपटलानि-भ्रमरवृन्दानि, तैः, सान्धकारमिय अन्धकारसहितामिव । पुनः चीनांशुकवितानः चीनांशुकं-चीनदेशरचितवस्त्रम्, तत्सम्बन्धिभिः, वितानैः-उल्लोचैः, सज्योत्स्नमिव ज्योत्स्नयाचन्द्रिकया सहितमिव; पुनः अतिशिशिरतया अतिशीतलतया हेतुना, उत्पन्न शिरोवेदनैरिव उत्पन्न शिरोव्यथैरिव, निबिडकर्पटावगुण्ठितकर्णः निविडेन-सान्द्रेण, कपटेन-पटखण्डेन, अवगुण्ठितः-आवृतः, कर्णो येषां तादृशैः, जलकलशैरपि जलपूर्णपटैरपि, किमुत तत्रत्यमनुष्यरित्यर्थः, अधिष्ठितम् आश्रितम् । पुनः प्रावरणपटयानार्थिभिरिव प्रावरणपट:-शीतावरणवस्त्रम् , तस्य वान-निर्माणम् , तदर्थिभिरिव तदभिलाषिभिरिवेत्युरप्रेक्षा, चञ्चसम्पुटधृतमृणालसूत्रपिण्डैः, चक्षुसम्पुटेन-सम्पुटितचञ्चुभ्याम् , धृतः-गृहीतः, मृणालसूत्रपिण्ड:-विसतन्तुपिण्डो यैस्तादृशैः, पुनः इतस्ततः अत्र तत्र, धावद्भिः सञ्चरद्भिः, उधानहंसैरपि क्रीडाकाननहसैरपि, किमुतान्यजनैरित्यर्थः, अध्यासितम् अधिष्ठितम् । पुनः वारंवारम अनेकवारम, उच्चरत्तारमयरकेकैः उच्चरन्ती, तारा-उच्चा, मयूराणां केका-कृजितविशेषो येषु येभ्यो या तादृशैः, अत एव आकारितनिदाघसप्तापरशिलोचयैरिव आकारिताः-शैत्यानुशीलनाय आहूताः, निदाघे-प्रीष्मे, अपरे-अन्ये, शिलोच्चयाः-पर्वता यैस्तादृशैरिवेत्युत्प्रेक्षा, आक्रीडगिरिभिरपि क्रीडापर्वतैरपि, अमुक्तसान्निध्यम् अमुकम्-अत्यक्तम् , सान्निध्यं यस्य तादृशम् । पुनः परस्परसंवलितशाखैः परस्परं संवलिता-सम्पृक्ता, शाखा येषां तादृशैः, अतः अभिलषितनिरन्तरशरीराश्लेषैरिव अभिलषितः, निरन्तरम्-अनवरतम् , शरीराश्लेषः-शरीरासको यैस्तादृशेरिवे. त्युत्प्रेक्षा, अङ्गिपैः पादपैः, परीतं व्याप्तम् । पुनः सरय्वाः सरयूनद्याः, सागरविप्रयोगे समुद्ररूपपतिविरहे, अरतिविनोदस्थानमिव अरतिः-खेदः, सन्ताप इत्यर्थः, तस्य विनोदः-अपनोदनम् , शमन मित्यर्थः, तस्य स्थानमिवेत्युत्प्रेक्षा । पुनः शिशिरस्य तत्संज्ञकस्य ऋतोः, ग्रीष्मनिर्दयावस्कन्देषु प्रीष्मेण-ग्रीष्मर्तुना, ये निर्दया:-दृढतराः, अवस्कन्दाः-आक्रमणानि, खेषु सत्सु, दुर्गनिवेशमिव तद्वारणार्थप्राकारनिवेशमिवेत्युत्प्रेक्षा । पुनः चन्द्रमसः चन्द्रस्य, दिवसकरमण्डलप्रवेशेषु सूर्यबिम्बप्रवेशेषु सत्सु, दाहज्वरचिकित्सागृहमिव तद्विम्बकृतदाहजन्यज्वरस्य या चिकित्सा-प्रतीकारः, तद्गृहमिवेत्ति चोप्रेक्षा । पुनः हिमगिरेः हिमालयपर्वतस्य, वज्राग्निसन्तापातिवाहनेषु वज्रामिना-इन्द्रप्रक्षिप्तवज्रानलेन यः सन्तापः, तदतिवाहनेषु-तदुपशमनेषु, तदर्थमित्यर्थः, शिशिरोपचारमन्दिरमिव शीतोपचारगृहमिवेत्युत्प्रेक्षा । पुनः स्फाटिकेन स्फटिकमणिमयेन, प्राकारवलयेनेव प्राकारमण्डलेनेव, पाथसां जलानाम् , प्रवाहेण निर्झरेण, प्रान्तेषु पर्यन्तप्रदेशेषु, कृतपरिक्षेपं कृतः, परिक्षेपः-परिवेष्टनं यस्य तादृशम् , किंसम्बन्धिना तेन ? उपरि अर्ध्वम् , वर्षतां वर्षणं कुर्वताम् , प्रावृषेण्ययनजलधराणां प्रावृषेण्या:-वर्षासम्बन्धिनो ये यन्त्राः, तद्रपाणां जलधराणां-मेघानाम्, तत्सम्बन्धि नेत्यर्थः, कीदृशेन प्रवाहेण ? उद्धरनिनादनर्तितमयूरमपडलेन उद्धरेण-उच्चन, निनादेन-ध्वनिना, नर्तितं-नृत्यं कारितम् , मयूरमण्डलं-मयूरसमूहो येन तादृशेन, पुनः समन्तात् सर्वतः, निपतता स्यन्दमानेन, पुनः अश्रान्तसन्तानेन अविच्छिन्नधारण, पुनः निरन्तरन्यस्तचन्द्रमणिशिलाप्रणालविगलितेन निरन्तरम्-अविरलम् , न्यस्ता स्थापिता, या चन्द्र