SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विलकमञ्जरी। २३९ तेन स्थवीयसा पाथसां प्रवाहेण प्राकारवलयेनेव स्फाटिकेन प्रान्तेषु कृतपरिक्षेपम् [अं], अम्लानमल्लिकामाल्यरचितशेखराभिः श्रवणावलम्बिशैवलवल्लरीहरितायमाननवबन्धूकपाण्डुगण्डस्थलाभिः कण्ठकन्दलामुक्तहिमगुलिकाहारभासितोन्नतस्तनकलशाभिरसितोत्पलनालवलयाधिष्ठितप्रकोष्टकाण्डाभिः पदे पदे रणितमधुकरजालकिङ्किणीचक्रवालेन बकुलमालामेखलागुणेन परिक्षिप्तघनजघनभागाभिर्घनसारसंपर्ककर्कशामोदेन स्पर्शेन्द्रियहारिणा हरिचन्दनरसद्रवेण संपादिताप्रपदीनचर्चाभिर्जलार्द्रबिससूत्रसंव्यानवाहिनीभिरुद्यानदेवताभिरिव संभूयोपस्थिताभिरभिनवयौवनाभिर्वाररमणीभिरध्यासितविततवातायनम् , अतिविचित्रानेकचित्रशालं जलमण्डपमगच्छत् [अ]] , प्रविश्य च तत्र कतिपयाप्तसहचरसहायो विभावयनितस्ततस्तस्य रचनाविचित्रतामतिचिरं बभ्राम, विरतकौतुकच कणद्भिरप्रतः श्वासपरिमलावकृष्टैरलिभिरभ्यर्थित इवानल्पमेकं कुसुमतल्पमध्यास्त । निषण्णं मणिशिला-चन्द्रकान्तमणिरूपः प्रस्तरः, तत्सम्बन्धि यत् प्रणालं-जलनिर्गमनमार्गः, ततो विगलितेन-स्यन्दितेन, अतः स्थवीयसा अतिस्थूलेन [अं] । पुनः वाररमणीमिः वेश्याभिः, अध्यासितवातायनम् अध्यासितम्-उपविष्टम् , अधिष्टितमित्यर्थः, वातायनं- गवाक्षो यस्य तादृशम् , कीदृशीभिः ? अम्लानमल्लिकामाल्यरचितशेखराभिः अम्लानानाम्अचिरावचितानाम्, मल्लिकानो-तदाख्यकुसुमानाम् , यन्माल्यं तेन रचितं शेखर-शिरोमण्डनं याभिस्तादृशीभिः पुनः श्रवणावलम्बिशैवलवल्लरीहरितायमाननवबन्धूकपाण्डुगण्डस्थलाभिः धवणावलम्बिनी-कर्णावलम्बिनी, या शैवलबालरी-शैल्याधायकतृगजललतिका, तया, हरितायमान-हरितवर्णायमानम् , नववन्धूकपाण्ड-नव-नवीनं यद् बन्धूक-तदाख्यरतकुसुमम् , तद्वत् , पाण्डु-रक्तवर्णम् , गण्डस्थलं-कपोलस्थलं यासां तादृशीभिः, पुनः कण्ठकन्दलामुक्तहिमगुलिकाहारभासितोन्नतस्तनकलशाभिः कण्ठकन्दलेन-कण्ठनालेन, अमुक्तः-शैत्यानुभवाय अत्यक्तः, धृत इत्यर्थः, यः, हिमगुलिकाहारः-हिमखण्डमाला, तेन भासिता-उद्दीपिता-उन्नती, स्तनकलशौ कलशायमानस्खनौ यासां तादृशीभिः पुनः असितोत्पलनालवलयाधिष्ठितप्रकोष्ठकाण्डामिः असितोत्पलनालवलयेन नीलकमलदण्डमण्डलेन, अधिष्ठितः-व्याप्तः, प्रकोष्ठकाण्डःमणिबन्धाधोभागरूपो दण्डो यासां तादृशीभिः; पुनः पदे पदे प्रतिपदम् , प्रतिपादन्यासमित्यर्थः, रणितमधुकरजालकिङ्किणीचक्रवालेन रणितं-शब्दायितम् , मधुकरजालरूपं-भ्रमरमण्डलात्मकम् , किङ्किणीचक्रवाल-क्षुद्रघण्टिकामण्डलं यस्मितादृशेन, बकुलमालामेखलागुणेन बकुलमालायाः-बकुलाख्यकुसुमविशेषमालारूपायाः, मेखलायाः-स्त्रीकटिभूषणस्य, गुणेन-सूत्रेण, परिक्षिप्तधनजघनभागाभिः परिक्षिप्तः-परिवेष्टितः, घनः-दृढः, जघनभाग:-कटिपुरोभागमण्डलं यासां ताश्चीभिः; पुनः हरिचन्दनरसद्वेण हरिचन्दनाख्यचन्दनविशेषरसपङ्केन, सम्पादिताप्रपदीनचर्चाभिः सम्पादिताकृता, आप्रपदीना-पादाप्रपर्यन्ता, चर्चा-शरीरविलेपनं याभिस्वादशीभिः; कीदृशेन तेन ? घनसारसम्पर्ककर्कशामोदेन घनसारस्य-कर्पूरस्य, सम्पर्केण-मिश्रणेन, कर्कशः-उत्कटः, आमोदः-सुगन्धो यस्य तादृशेन, पुनः स्पर्शेन्द्रियहारिणा त्वगिन्द्रियकर्षिणा, अतिशीतलेनेत्यर्थः; पुनः जलाईबिससूत्रसंव्यानवाहिनीभिः जलाई-जलाप्लुतम् , यद् बिससूत्राणां मृणालतन्तूनाम् , संव्यानम्-उत्तरीयवस्नम्, तद्वाहिनीभिः-तद्धारिणीभिः; काभिरिव ? सम्भूय संघीभूय, उपस्थिताभिः उपागताभिः, उद्यानदेवताभिरिव क्रीडावनदेवताभिरिवेत्युत्प्रेक्षा; पुनः अभिनवयौवनाभिः नवीनयुवतीभिः। पुनः कीदृशम् ? आतविचित्रानेकांचत्रशालम् अतिविचित्रा:-अत्यन्तविलक्षणाः, अनेकाः-बहवः, चित्रशाला:-आलेख्यग्रहा यस्मिंस्तादृशम् [:]। ____ च पुनः, तत्र तस्मिन् जलमण्डप इत्यर्थः, प्रविश्य प्रवेशं कृत्वा, कतिपयाप्तसहचरसहायः कतिपयैः-परिगणितैः, आतैः-विश्वस्तैः, सहचरैः-सहगामिभिः, सहायः-सहितः, इतस्ततः अत्र तत्र, तस्य जलमण्डपस्य, रचनाविचित्रतां रचनावैलक्षण्यम् , विभावयन् पर्यालोचयन् , अतिचिरम् अतिदीर्घकालम् , बभ्राम भ्राम्यति स्म । च पुनः, विरतकौतुका निवृत्ततद्वैचित्र्यावलोकनकुतूहल: सन् , अग्रतः अमे, कणद्भिः गुञ्जद्भिः, श्वासपरिमलाकृष्टैः श्वासस्यनासामारुतस्य, परिमलैः-सौरभैः, आकृष्टैः-कृताकर्षणैः, अलिभिः भ्रमरैः, अनल्पम् अत्यन्तम् , अभ्यर्थित इव प्रार्थित
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy