________________
विलकमञ्जरी।
३१५ भ्रममभ्रमुकुलप्रभवाभिः करेणुभिरुपनीतसरसलवङ्गपल्लवकवलेषु सुवेलमेखलासु खेलत्सु वामनदिङ्नागवंशजेषु गजेषु [ट], सर्वतः प्रसृततापसाग्रिहोत्रधूमान्धकारे कलशयोनिप्रसादनायायात विन्ध्यशिलालिङ्गित इवोपलक्ष्यमाणे रोहणगिरौ, प्रविष्टारुणालोकस्तोकतरलितद्वारपालवेतालेष्वसुरदेवतार्चनारम्भपिशुनमपूर्वसौरभं दिव्यकुसुमधूपामोदमुद्रित्सु विवरेषु, पातालचन्दनठुमोपवनक्रीडारागिणीभिः पन्नगाङ्गनाभिरापतन्तीभिरलभ्यान्तरेषु रसातलमलयान्तरालमार्गेषु, प्रभातमारुतापूरितरणन्मुखरपुलिनशङ्खमाले दलितशुक्तिमुक्तास्तबकिततीरभुवि जडितजलमानुषाध्यासितसबालातपतटे द्रवीभूतशावरतिमिरविभ्रममूर्मिविस्तारमुपसंहरति मत्सुखप्रचारार्थमिव चन्द्रास्तसमयविद्राणतेजसि तरङ्गिणीनाथे, दिवसकृतयुगावतारे तिमिरसागरादुन्मनां मेदिनीमिव द्रष्टुमुदयादिशिखरमधिरूढे सहस्रदीधितौ; शनैः शनैश्च संधुक्षितसूर्यकान्ताश्महुतभुजि, मन्दितेन्दुमणि
तीव्रः-अत्यन्तः, सन्तापो यस्य तथाभूत इवेत्युत्प्रेक्षा, मन्दं मन्दं शनैः शनैः, सञ्चरति प्रवहति सति । पुनः मुक्तमसृणमणितटीशय्येषु मुक्ता-त्यक्ता, मसृगा-चिक्कणा, मणिनिर्मिता, तटीरूपा-स्थलीरूपा, शय्या यैस्तादृशेषु, पुनः अभ्रमुकुल. प्रसूताभिः अभ्रमुसंज्ञकहस्तिनीवंशजाभिः, करेणुभिः हस्तिनीभिः, सविभ्रमं सविलासम्, उपनीतसरसलघङ्कपल्लवकवलेषु उपनीतः-उपस्थापितः, सरसलवङ्गपल्लवरूपः-स्निग्धलवङ्गलतानूतनदलरूपः, कवलः-ग्रासो येभ्यस्तादृशेषु, वामनदिङ्नागवंशजेषु वामनाख्यदिग्गजकुलप्रसूतेषु, गजेषु हस्तिषु. सुवेलमेखलासु सुवेलपर्वतनितम्बेषु, खेलस्लु क्रीडत्सु सत्सु [2] । पुनः सर्वतः परितः, प्रसृततापसाग्निहोत्रधूमान्धकारे प्रसृतः-विस्तृतः, तापसाना-तपस्विनाम् , अग्निहोत्रसम्बन्धिधूमरूपोऽन्धकारो यस्मिंस्तादृशे, रोहणगिरी रोहणाचले, कलशयोनिप्रसादनाय अगस्त्यमुनेरनुरजनाय, आयातविन्ध्यशिलालिड़ित इव आयातस्य-आगतस्य, विन्ध्यस्य-विन्ध्याचलस्य, शिलाभिः-प्रस्तरैः, आलिङ्गित इव संश्लिष्ट इव, उपलक्ष्यमाणे प्रतीयमाने सति । पुनः प्रविष्टारुणालोकस्तोकतरलितद्वारपालवेतालेषु प्रविष्टाः कृतप्रवेशाः,अरुणालोकेन-सूर्यतेजसा, स्तोकम्-ईषत् , तरलिताः-चञ्चलिताः, द्वारपालाः-प्रतीहाररूपाः, वेतालाः-पिशाचविशेषा येषु तादृशेषु, विवरेषु गुहासु, असुरदेवतार्चनारम्भपिशुनम् असुराणां-देवजातिद्विषां राक्षसानों, देवतार्चनस्य-स्खेष्टदेवत्वेन
वपूजायाः,आरम्भस्य, पिशुन-सूचकम् , पुन: अपूर्वसारभम् असाधारण सौगन्ध्यम्, दिव्यकुसुमधूपामोद दिव्यानां-सुन्दराणां, कुसुमानां-पुष्पाणां, धूपानाम् अग्नितप्तसुगन्धिद्रव्याणां च, आमोद-परिमल त्सु उद्वमत्सु सत्सु। पुनः रसातलमलयान्तरालमार्गेषु पातालमलयगिरिमध्यवर्तिमार्गेषु, पातालचन्दनद्रुमोपवनक्रीडारागिणीभिः पाताले यत् चन्दननुमाणां-चन्दनवृक्षाणाम् उपवनं, तस्मिन् , क्रीडानुरागवतीभिः, आपतन्तीभिः आगच्छन्तीभिः, पन्नगाङ्गनाभिः सर्पस्त्रीभिः, अलभ्यान्तरेषु अप्राप्यावकाशेषु सत्सु । पुनः प्रभातमारुतापूरितरणन्मुखरपुलिनशङ्ख. माले प्रभातमारुतेन-प्रातःकालिकपवनेन, आपूरिता-परिपूर्णविवरा, अत एव रणन्ती-ध्वनन्ती पुलिनशङ्खमाला-सैकत्तस्थल. स्थितशङ्खसमूहो यस्मिंस्तादृशे, पुनः दलितशुक्तिमुक्तास्तबकिततीरभुवि दलितानां-स्फुटितानां, शुक्तीनां-तादृशशुक्तिसम्बन्धिनीभिः,भुक्ताभिः-मुक्तामणिभिः, स्तबकिताः-संजातस्तबकाः, तीरभूः-तीरभूमिर्यस्य तादृशे, पुनः जडितजलमानुषा. ध्यासितसबालातपतटे जडितैः-जाड्यमापादितः, जलमानुषैः-जलीयमनुष्यैः, अध्यासितम्-अधिष्ठित, सबालातपंबालातपेन-अपरिपक्कातऐन रक्तातपेनेति यावत् सहितं, तट-तीरं यस्य तादृशे, पुनः चन्द्रास्तसमयविद्राणतेजसि चन्द्रास्तसमये चन्द्रतिरोभावकाले, विद्राणं-विलीन, तेजः-प्रभावः समृद्धिरिति यावत् , यस्य तादशे, तरङ्गिणीनाथे समुद्र, मत्सुखप्रचारार्थमिव सुखेन-अक्लेशेन, मत्सञ्चारार्थमिवेत्युप्रेक्षा, द्रवीभूतशारतिमिरविभ्रमं द्रवीभूतस्य-स्यन्दितस्य, शार्वरतिमिरस्य-रात्रिसम्बन्ध्यन्धकारस्य, विभ्रमं - विलासभूतम् , ऊर्मिविस्तारं तरङ्गसन्तानम् , उपसंहरति संक्षिपति सति, पुनः दिवसकृतयगावतारे दिवसे-दिने, कृतः, युगावतारः-युगारम्भो येन तादृशे, यद्वा दिवसरूपस्य कृतयुगस्य-सत्यनामक. प्रथमयुगस्यावतारे समागते सति, सहनदीधितौ सहस्रकिरणे. सूर्य इति यावत् , तिमिरसागरात अन्धकारसमुद्रात्, उन्मनाम् ऊर्ध्वमागता, मेदिनीं पृथ्वी, द्रष्टुमिव अवलोकितुमिव, उदयादिशिखरम् उदयाचलशिखरम् , अधिरूढे आरूढे सति । च पुनः, सन्धुक्षितसूर्यकान्तारमहुतभुजि सन्धुक्षितः-उद्दीपितः, सूर्यकान्तारमहुतभुक्-सूर्यकान्तमणि