________________
१३
टिप्पनक- परागविवृतिसंवलिता
सेनान्यमुच्चैस्तरेण स्वरेणावोचम् — ' दण्डाधिप ! कृतं तावदपरायुधपरिग्रहेण गृहाण बालारुणाभिधानमिदममोघं प्रहरणम्, अनेन परिगृहीतभुजदण्डशक्तिर्विधेहि निरवग्रहप्रसरस्य विद्विषः प्रतापखण्डनम्, अकाण्ड एव निर्व्याजपौरुषतया मा स्म विस्मरः स्वामिकार्यम्' [द] । असौ तु सासूय इव तन्मदीयवचनमवधार्य कृतावधीरणो· रणर सोच्छु सितगात्रयष्टिराविष्ट इव रे रे दुरात्मन् ! दुर्गृहीतधनुर्विद्यामदाध्मात ! द्रविडाधम ! बधान क्षणमात्रमप्रतोऽवस्थानम्, अस्थान एव किं दृप्यसि, पश्य ममापि संप्रति शस्त्रविद्याकौशलम्' इत्युदीर्य निर्यत्पुलकमसिलताग्रहणाय दक्षिणं प्रसारितवान् बाहुम् । अरिवधावेशविस्मृतात्मनश्च तस्योल्लसितकोपसाटोपकम्पिताङ्गुलौ कराप्रभागे गृहीत्वाङ्गुलीमेकां तदहमङ्गुलीयकमतिष्ठिपम् । अधिष्ठितश्च स तदीयच्छायया तत्क्षणमेव दिमागदन्तमुशल इव वज्रप्रतिमया, महाहिभोग इव मणिप्रभया, समुद्रोर्भिरिव वाडवाचिषा, कामप्यभिरामतामधृष्यतां च पर्यपुष्यत् [ध] ॥
टिप्पनकम् - बधान कुरु । अतिष्ठिपं स्थापितवान् [ध ] |
अरातीनां - शत्रूणाम्, बाणैः - वाणाघातैः, उन्मथितानि - उच्छिन्नानि, केतुच्छत्रकार्मुकाणि - केतुः - ध्वजः, छत्रम् आतपत्रम्, कार्मुकं - धनुश्च यस्य तादृशम्, सेनान्यं सेनाधिपतिम् उच्चैस्तरेण अतिदीर्घेण स्वरेण - कण्ठध्वनिना, अबोचम् उक्तवान्, अहमिति सर्वत्र शेषः । किमित्याह--दण्डाधिप । चतुरङ्गसेनापते !, तावदिति वाक्यालङ्कारे, अपरायुधपरिग्रहेण अपरस्य-अन्यस्य, आयुधस्य - शस्त्रस्य परिग्रहेण - ग्रहणेन, कृतम् अलम्, तत्परिमहो वृथेत्यर्थः । किन्तु बालारुणाभिधानं बालारुणनामकम् इदं सन्निकृष्टम्, अमोघम् अव्यर्थम्, प्रहरणम् अस्त्रम् गृहाण धारय । अनेन अङ्गुलीयक प्रहरणेन, परिगृहीतभुजदण्डशक्तिः संगृहीतभुजरूपदण्डसामर्थ्यः सन् निरवग्रहप्रसरस्य निष्प्रतिबन्धात्रप्रहारस्य, विद्विषः शत्रोः, प्रतापखण्डनं पराक्रमक्षयम्, विधेहि कुरु । अकाण्ड एव अनवसर एव, निव्यजिपौरुषतया निष्कपटपराक्रमेण, वास्तविकपराक्रमेणेति यावत्, स्वामिकार्य स्वामिकृतनियोगम्, मा स्म विस्मरः न विस्मर्यताम्] [द]। असौ तु सेनापतिस्तु, सासूय द्रव आविष्कृतदोष इव, तत् अनुपदोक्तम्, मदीयवचनं मदुक्तकर्तव्या वेदवाक्यम्, अनवधार्य इष्टसाधनत्वेनानिश्चित्य, उपेक्ष्येत्यर्थः कृतावधीरणः कृततिरस्कारः, रणरसोच्छ्वसितगात्रयष्टिः रणरसेन -रणानुरागेण, उच्छुसिताः - उद्वलिता, गात्रयष्टिः- शरीररूपा यष्टिर्यस्य तादृशः, आविष्ट इच प्रकुपित इव भूताविष्ट इव वा, रे रे दुरात्मन् ! रे रे दुष्टात्मन् ! दुर्गृहीतधनुर्विद्यामदाध्मात ! दुर्गृहीतायाः - अयथास्थिततया गृहीतायाः, धनुविद्यायाः, मदेन- गर्वेण, आध्मात ! - व्याप्त ! द्रविडाधम ! द्रविडदेशीयाधम !, क्षणमात्रं मुहूर्तमात्रम्, अग्रतः अग्रे, अवस्थानं स्थितिम् बधान कुरु । अस्थान एव अनवसर एव किं कस्माद्धेतोः, हृप्यसि गर्व करोषि ?, सम्प्रति तत्कालम्, पश्य अनुभव, ममापि मदीयमपि शस्त्रविद्याकौशलं शस्त्रविद्यावैदग्ध्यम्, इत्युदीर्य इत्युक्त्वा, निर्यपुलकं निर्यन्तः - निर्गच्छन्तः, पुलका:-रोमाचा यस्मिंस्तादृशं यथा स्यात् तथा असिलताग्रहणाय खलताग्रहणाय, दक्षिणं वामेतरम्, बाहुं प्रसारितवान् व्यापारितवान् । च पुनः, अरिवधावेश विस्मृतात्मनः अविधावेशेनशत्रुमाणाग्रहण, विस्मृत आत्मा खरूपं येन तादृशस्य तस्य सेनापतेः, एकाम् अङ्गुलीं करशाखाम् गृहीत्वा धत्वा, उल्लसितको साटोपकम्पिताङ्गलौ उल्लसितेन- उन्नतेन, कोपेन - क्रोधेन, साटोपं-सविस्तारं यथा स्यात् तथा, कम्पिताःअलयो यस्मिंस्तादृशे, कराग्रभागे दस्ताप्रभागे, तत् बालारुणनामकम् अङ्गुलीयकम्, अहम्, अतिष्ठिपं स्थापितवान्, धारितवानित्यर्थः । स सेनापतिः, तदीयच्छायया अङ्गुलीयककान्त्या, अधिष्ठितः व्याप्तः सन् तत्क्षणमेव तत्कालमेव, कामपि अनिर्वचनीयाम्, अभिरामतां रमणीयताम्, अधृष्यताम् अपराजेयतां च पर्यपुष्यत् परिपुष्टवान् । कया क इव ? वज्रप्रतिमया वज्रसादृश्येन वज्रतुल्याकृत्या वा वज्रप्रतिभयेति पाठे तु वज्रतुल्य कान्त्येत्यर्थः, दिङ्नागदन्त मुशल इस विङ्नागानां - दिग्गजानाम्, मुशलाकारवन्त इव पुनः मणिप्रभया मणिकान्त्या, महाहिभोग इव महासर्पपणा इव