________________
तिलकमञ्जरी। रोद्देशम् , अतिभास्वरतया दुरालोकम् , आकुलाकुलेक्षणैरुत्थाय सर्वैः समकालमौर्वानलार्चिःशङ्कया निभालितं भालतटविनिहिताग्रहस्तच्छत्रकैः कैवतैः संवर्तकालसंध्यासदृशमत्यद्भुतं प्रभाराशिमपश्यम् [ड]1
____दृष्ट्वा चोपजातकौतुकः किमेतदिति वितर्कयन्नेव तस्मादर्कमण्डलादिव मयूखनियहमेकहेलया विनिर्गतम् , आगच्छदभिमुखमाकाशमार्गेण, संतानकनमेरुमन्दारकुसुमप्रायशेखरं, हरिचन्दनरसप्रायाङ्गरागं, कल्पद्रुमांशुकप्रायनिवसनम्, अनेकदिव्याभरणभूषितम् , आभरणमणिकिरणप्रभासंतर्पितेन प्रसर्पता सर्वतस्तप्ततपनीयद्रवाकारेण देहातिप्राग्भारेण पिङ्गलीकृताखिलदिगन्तरालं सदावानलमिवान्तरिक्षमादधानम् , उज्ज्वालदावानलानुलग्नदग्धस्थलाभेन जलनिधिवेलावनान्यपहाय युगपत्प्रधावितेन पृष्ठतो वहता विलेपनामोदाकृष्टेन मधुलिहां पटलेन पश्चात्प्रयायिभिरुन्नीयमानगतिमार्गम् [ 8 ], आदराकृष्टवल्गैर्वारंवारमुच्छलज्जलच्छटास्पर्शपरिहाराय तरुणवारिदानामन्तरालेन नीयमानैरनुभूतधूलीपटलमश्रूयमाणमुखरखुरपुटारवमतिवल्गु वल्गद्भिः
ऊर्ध्वदेशो यस्य तादृशम् । पुनः अतिभास्वरतया अतिदीप्रतया, दूरालोकं दुर्दर्शम् । पुनः और्वानलार्चिःशङ्कया वाडवाग्निज्वालाशङ्कया, आकुलाकुलेक्षणैः अत्यन्तचकितनयनैः, पुनः भालतटविनिहिताग्रहस्तच्छत्रकैः भालतटेललाटतटे, विनिहित-स्थापितम् , अग्रहस्तच्छत्रं-हस्ताग्रभागरूपं छत्रं यस्तादृशैः, सर्वैः, कैवतैः धीवरैः, उत्थाय, समकालमेव युगपदेव, निभालितं विलोकितम् , पुनः संवर्तकालसंध्यासदृशं प्रलयकालिकसन्ध्यातुल्यम् [3] __च पुनः, दृष्ट्वा निरुक्तप्रभाराशिं दृष्टिगोचरीकृत्य, उपजातकोतुकः उत्पन्नोत्सुक्यः सन् , एतत् तेजः, किम् कीदृशम् , इति वितर्कयन्नेव विचिन्तयन्नेव, खेचरनरेन्द्रवृन्दं विद्याधरेन्द्रगणम् , अद्राक्षं दृष्टवानहम् , कीदृशम् ? अर्कमण्डलात् सूर्यमण्डलात् , मयूखनिवह मिव किरणकलापमित्र, तस्मात् प्रभामण्डलात्', एकहेलया युगपत् , विनिर्गतं विनिःसृतम् । पुनः आकाशमार्गेण, अभिमुखं सम्मुखम् , आगच्छत् अवतरत्। पुनः सन्तानक-नमेरु-मन्दारकुसुमप्रायशेखरं संतानक-न मेरु-मन्दारा:-देववृक्षविशेषाः, तेषां यानि कुसुमानि-पुष्पाणि, तत्प्राय-तत्प्रचुर, शेखरं-शिरोमाल्यं यस्य तादृशम्। पुनः हरिचन्दनरसप्रायाङ्गरागम् हरिचन्दनरसप्रायः-चन्दनविशेषरसप्रचुरः, अङ्गरागः-अङ्गालेपो यस्य तादृशम् । पुनः कल्पद्माशुकप्रायनिवसनम् कल्पद्रुमांशुकप्राय-कल्पद्रुमसम्बन्धिसूक्ष्मश्लक्षणवस्त्रप्रचुरं, निवसन-वस्त्रं यस्य तादृशम् । पुनः अनेकदिव्याभरणभूषितं विविधोत्कृष्टालङ्कारालङ्कृतम् । पुनः देहधुतिप्राग्भारेण शरीरकान्तिकलापेन, पिङ्गलीकृताखिलदिगन्तरालंपिङ्गलीकृत-पिशजीकृतम्, अखिलाना-समस्ताना, दिशाम् , अन्तरालं-मध्यं येन तादृशम् ,कीडशेन ? आभरणमणिकिरणप्रभासन्तर्पितेन आभरणमणीनाम्-अलङ्करणमणीना, ये किरणा:-रश्मयः, तत्प्रभाभिः, सन्तर्पितेन-संवर्धितेन, पुनः सर्वतः परितः,प्रसर्पता प्रसरता, तप्ततपनीयद्रपाकारेण तप्तं यत् तपनीयं-सुवर्ण, तस्य यो द्रव-पङ्कः, तदाकारण, अत एव अन्तरिक्षं-गगनमण्डलं, सदावानलमिव दावामिसहितमिव, आदद्धानं कुर्वाणम् । पुनः पश्चात्प्रयायिभिः पश्चात्प्रगामिजनैः, उन्नीयमानगतिमार्गम् उन्नीयमानः-अनुमीयमानः, गतिमार्ग:-गमनमानें यस्य तादृशम् , केन ? मधुलिहां भ्रमराणा, पटलेन-समूहेन, कीदृशेन ? उज्वालदावानलानुलग्नदग्धस्थलामेन उत्-उर्च, ज्वाला यस्य तादृशेन, दावानलेन-दावामिना, अनुलन-संबद्धं दग्धं च यत् स्थलं-स्थानं, तस्येव आभा-कान्तिर्यस्य तादृशेन, पुनः जलनिधिवेलावनानि समुद्रतटवर्तिवनानि, अपहाय त्यक्तवा, युगपत् एककालं, प्रधावितेन कृतसत्वरगतिकेन, पुनः पृष्ठतः पृष्ठमागे, वहता गच्छता, पुनः विलेपनामोदाकृष्ठेन विलेपनस्य-अझोपलेपनद्रव्यस्य, आमोदेन-अतिसौरमेण, आकृष्टेन-वशीकृतेन [6] । पुनः प्रधानवाजिमिः मुख्यभूताश्वैः, उामाननायकम् उह्यमानः-देशान्तर नायमानः, नायको यस्य तादृशम् , कीदृशैः ? आदराकृष्टवलौः आदरेण आकृष्टा वल्गा-मुखरज्जुर्येषां तादृशैः, पुनः वारं वारम् अनेकवारम्, उच्छलजलच्छटास्पर्शपरिहाराय उच्छलन्त्याः-उद्वेलन्याः, जलच्छटायाः-जलधारायाः, स्पर्शपरिहाराय-स्पर्शवर्जनाय, तरुणवारिदानां परिणतमेघानाम् , अन्तरालेन मध्येन, नीयमानः गम्यमानैः, पुनः अनुभूतधूलीपटलम् अनुभूतम्-अनुत्क्षिप्त, धूलीपटलं-धूलीसमूहो यस्मिंस्तादृशं यथा स्यात् तथा, पुनः अश्रूयमाणमुखरखुरपुटारवम् अश्रूयमाणः, मुखरयोः-शब्दायमानयोः, खुरपुटयोः-सम्पुटितखुरयोः, आरवः- ध्वनियस्मिंस्तादृशं