________________
२१६
टिप्पनक-परागविवृतिसंवलिता आसादितविजयरिपुदर्शनपरिजिहीर्षयेव निमिषितेक्षणारविन्दम् , आजिविपन्नसुभटजीवितसंजिघृक्षायातयमदर्शनागतया यमुनयेयाबद्धविकटतरङ्गया भ्रुकुट्याऽन्धकारितललाटभित्तिम् , उपरि रिपुशिलीमुखासारेणाधस्ताव रणरभसरोमाञ्चजालकेन जर्जरितमुल्लसितमिव मूर्छान्धकारमुन्निद्रतापिच्छनीलमस्थूलं कालायसकवचमुरःस्थलेनोद्वहन्तम् , उत्सृष्टचापयष्टिना वामेन दक्षिणेन च स्फुरितदीर्घनखकिरणेन तत्क्षणभ्रष्टकरवालान्वेषिणेव पाणिना विराजमानम् , उपान्तकेतुस्तम्भविन्यस्तदेहभारैश्च निद्रादूरमुग्नकण्ठनालैरात्मयोधैः परिवृतं प्रसुप्तसर:कुमुदधनमध्यवर्तिनमिव प्रतिमादिनकरम् , अव्याजशौर्यावर्जितहृदयैश्चागत्यागत्य वीरवृन्दैर्वन्धमानबाणत्रणोद्वाम्तरुधिरबिन्दुनिकरं कुमारम् [म], उपजातविस्मयश्च निश्चलस्निग्धतारकेण चक्षुषा सुचिरमवलोक्य तदवलोकनप्रीतमनसा समीपवर्तिना सामन्तलोकेन सह बहुप्रकारमारब्धतद्वीर्यगुणस्तुतिस्तस्मिन्नेव प्रदेशे मुहूर्तमात्रमतिष्ठत् । तद्वृत्तान्तश्रवणसकुतूहलश्च निपुणतरमपि व्यापारितया दृष्टया यदा प्रतिपक्षपक्षे कमपि पुरुष
रथपश्चाद्भागे, पर्यस्तं लीनम् ; पुनः आसादितविजयरिपुदर्शनपरिजिहीर्षयेव आसादितः-प्राप्तः, विजयो येन तारजस्य, रिपो:-वशत्रोः, यद् दर्शनम् , तत्परिजिहीर्षयेव-तत्परिहारेच्छयेव, निमिषितेक्षणारविन्दं निमीलितनयनारविन्दम् । पुनः भृकुट्या नेत्रोपरितनकुटिलरोमराज्या, अन्धकारितललाटभित्तिम् अन्धकारिता-अन्धकारव्यापिता, ललाटभित्तिः-ललाटस्थलं यस्य तादृशम्, कीदृश्या? आजिविपन्नसुभटजीवितसंजिघक्षायातयमदर्शनागतया आजी-संग्रामे, विपन्नाः-मृताः,ये सुभटाः-सुयोधाः, तेषां यानि जीवितानि-प्राणाः, तत्संजिघृक्षया-तत्संहरणेच्छया, आयातस्य-आगतस्य, यमस्य-तदाख्यभ्रातुः, दर्शनाय-अवलोकनाय, आगतया-उपस्थितया, यमुनयेव तदाख्यनयेव, आबद्ध विकटतरल्या आबद्धाः-रचिताः, विकटा:-विशाला, तरङ्गा यया तादृश्या; पुनः कालायसकवचं लोहविशेषमयं कवचम्, उरस्थलेन वक्षःस्थलेन, उद्वहन्तं धारयन्तम् , कीदृशं कवचम् ? उपरि ऊर्श्वभागे, रिपुशिलीमुखासारेण रिपशिलीमुखाना-स्वशक्षिप्तबाणानाम् , आसारेण-धारापातेन, च पुनः, अधस्तात अधोभागे, रणरभसरोमाञ्चजालकेन रणरभसेन-संग्रामवेगेन, उद्गतो यो रोमाञ्चः-पुलकः, तज्जालकेन-तत्पुजेन, जर्जरितं विह्वलीकृतम् , अत एव उल्लसितम् उद्भूतम् , मूर्छान्धकारमिव मूर्छारूपान्धकारमिवेत्युत्प्रेक्षा, पुनः उन्निद्रतापिच्छनीलम् उनिद्रःउत्फुल्लो यस्तापिच्छः-तमालः, तद्वन्नीलवर्णम् , पुनः अस्थूल लघुम्; पुनः कीदृशं कुमारम् ? उत्सृष्टचापयष्टिना
सृष्टा-त्यक्ता, चापाष्टः-धनुदण्डा येन तादृशेन, वामन दक्षिणेतरण, पाणना हस्तेन, च पुनः, स्फुरितदीधेनख किरणेन स्फुरिताः-ज्वालिताः, दीर्धाः, नखकिरणा:-नखकान्तयो यस्मिस्तादृशेन, तत्क्षणभ्रकरवालान्वेषिणेव तत्क्षणंतत्कालम् , भ्रष्टः-खसकाशात् पतितो यः, करवालः-खङ्गः, तदन्वेषिणेव-तदन्वेषणव्यातेनेव, दक्षिणेन, पाणिना हस्तेन, विराजमान शोभमानम् ; च पुनः, उपान्तकेतुस्तम्भविन्यस्तदेहभारः उपान्तेषु-निकटस्थेषु, केतुस्तम्भेषु-ध्वजदण्डेषु, विन्यस्तः-धृतः, देहभारो यैस्तादृशः, पुनः निद्रादूरभुन्नकण्ठनालैः निद्रया दूरभुनानि-दूरपर्यन्तकुटिलानि, कण्ठनालानि-कण्ठरूपकमलदण्डा येषां तादृशैः, आत्मयोधैः स्वकीयसुभटैः, परिवृतं परिवेष्टितम् , अत एव प्रसुप्तसर:कुमुदवनमध्यवर्तिनं प्रसुप्त-संकुचितम् , यत् सरःकुमुदवन-तडागस्थकुमुदवनम्, तन्मध्यवर्तिनम् , प्रतिमादिनकरमिव सूर्यप्रतिबिम्बमिव; च पुनः, अव्याजशौर्यावर्जितहृदयैः अव्याजेन-वास्तविकेन, शौर्येण, आवर्जितम्-अवनमितं हृदयं येषां तादृशैः, वीरवृन्दैः शूरसमूहै, आगत्य आगत्य उपस्थायोपस्थाय, वन्द्यमानबाणवणोद्वान्तरुधिरबिन्दुनिकर वन्धमानः-स्तूयमानः, बाणव्रणोद्वान्तानां-बाणवणनिर्गतानाम् , रुधिरबिन्दूनां-शोणितबिन्दूनाम् , निकरः-समूहो यस्य तादृशम् [मच पुनः, उपजातविस्मयः उत्पन्नाचयः, निश्चलस्निग्धतारकेण निश्चला-निःस्पन्दाः, स्निग्धाः-आर्द्रा च, तारकाकनीनिका यस्य यस्मिन् वा तादृशेन, चक्षुषा नेत्रेण, सुचिरम् अतिदीर्घकालम् , अवलोक्य दृष्ट्वा, तदवलोकनप्रीतमनसा तद्दर्शनप्रसन्नहृदयेन, समीपवर्तिना पार्श्ववर्तिना, सामन्तलोकेन अधिकृतनृपजनेन, सह, बहुप्रकारम् अनेकप्रकारं यथा स्यात् तथा, आरब्धतद्वीर्यगुणस्तुतिः आरब्धा-प्रारब्धा, तीर्यगुणानां-तत्पराक्रमगुणानाम् , स्तुतिः-प्रशंसा येन तादृशः, तस्मिन्नेव प्रदेशे राजकुमारावस्थितिप्रदेशे, मुहूर्तमानं क्षणमात्रम् , अतिष्ठत् स्थितवान्, मेनापतिरिति शेषः। च पुनः, तद्वत्तान्तश्रवणसकुतूहल: नृपकुमारवृत्तान्तश्रवणे, सकुतूहल:-सोत्कण्ठः, निपुणतरमपि