________________
२१४
टिप्पनक- परागविवृतिसंवलिता
रिताप्यघटतामवलोहितायमानजडपुटा दृष्टिः सामन्तानाम्, अन्यापृतवामकरतलाली नरश्मिपाशावकृतप्राजनावष्टम्भेन विसंस्थुलावयवास्तस्थुः सारथय: [प]। एवं च तेनातर्कितोपनतेनाप्रतिविधेयेन दैवेनेव लुप्तपुरुषकारेण, जरागमेनेव मन्दीकृताखिलेन्द्रियशक्तिना, महापुरुषेणेव गोपायित समस्तात्मगुणेनाऽनायुःपरिक्षयेण मृत्युनाऽसर्पदंशेन विषवेगेनाऽनभिघातजेन मूर्च्छान्धकारेणाऽदोषक्षोभजन्मना संनिपातेनाऽनुनमीलिततारकेण तमसा, महानिद्रावेगेन युगपदभिभूयमाने वैरिसैन्ये स वीरवर्गाप्रेसरो राजकुमारो शेषदष्टाधरोष्ठमुज्झितरथष्पृष्ठमुद्भूर्णकृपाणमभिमुखमतिरंहसा समापतन्तं सेनापतिमवलोक्य तद्वधाय धनुषि निवेशित - मसितलोलदीधितिजटालफलधारमरातिरुधिरपा नतृष्णया प्रसारितजिह्वासहस्रमिव सद्य एव समहत संहृतानेकप्रतिपक्षमाणं बाणम्, उत्सृष्टचापयष्टिश्च तत्क्षणं क्षात्रसमरनीतिप्रियतया पृथक्कृत्य परिवारतः कृपाणमात्मानं च वेगादवतरभिद्रावेगविगलितपरिस्पन्दः स्यन्दनोत्सङ्गमगमत् [फ] 1
मुहूर्त - किश्चित्कालम्, विस्फारितापि - विस्तारितापि, अमर्षलोहितायमानजडपुटा अमर्षेण क्रोधेन, लोहितायमानौ - रतीभवन्ती, जडपुटौ - व्यामूढचर्मपुटैा यस्यास्तादृशी, सामन्तानाम् अधिकृतनृपाणाम्, दृष्टिः, अघटत समकुचत् । च पुनः, अव्यापृतवामकरतलालीनरश्मिपाशाः अव्यावृताः - व्यापाररहिताः, वामकरतले - बामहस्ततले, आलीनाःसंसकाः, रश्मिपाशाः-अश्वादिनियन्त्रकरज्जुपाशा येषां तादृशाः, विसंस्थुलावयचाः विह्वलावयवाः, सारथयः - अश्व शासकाः, ऊर्ध्वकृत प्राजनावष्टम्भेन ऊर्ध्वोकृतस्य- उन्नमितस्य, प्राजनस्य - अश्वादिप्रेरकदण्डस्य, अवष्टम्भेन - अवलम्बेन, तस्थुः तिष्ठन्ति स्म [ प ] । च पुनः एवम् अनेन प्रकारेण, अतर्कितोपनतेन अकस्मादापतितेन, अप्रतिविधेयेन प्रतीकाररहितेन, अत एव दैवेनेव दुर्भाग्येणेव, लुप्तपुरुषकारेण लुप्तः- विनष्टः, पुरुषकार:- पराक्रमो येन तादृशेन; पुनः जरागमेमेष वार्धक्यागमेनेव, मन्दीकृता खिलेन्द्रियशक्तिना मन्दीकृता-शिथिलिता, अखिलेन्द्रिय शक्तयः- सर्वेन्द्रियसामर्थ्यानि येन तादृशेन; पुनः महापुरुषेणेव महात्मनेव, गोपायितसमस्तात्मगुणेन गोपायिताः - तिरोहिताः, पक्षे संयमेन रक्षिताः, समस्ताः, आत्मगुणाः- वीर्यादयो येन तादृशेन पुनः अनायुःपरिक्षयेण आयुः परिक्षयरहितेन, मृत्युना मृत्युरूपेण पुनः असर्पदंशेन सर्पदशनरहितेन, विषवेगेन विषज्वालारूपेण पुनः अनभिघातजेन प्रहाराजन्येन, आकस्मिकेनेत्यर्थः, मूच्र्छान्धकारेण मूर्च्छारूपान्धकारेण पुनः भदोषक्षोभजन्मना दोषाणां वैषम्यापन्नवातपित्तादीनाम् यः क्षोभःप्रकोपस्तजनितेन, सन्निपातेन महाज्वरेण; पुनः अनुन्मीलिततारकेण अनुन्मीलिताः - अप्रकाशिताः, तारकाः - नक्षत्राणि यस्मिंस्तादृशेन, तमसा अन्धकाररूपेणेति रूपकमाला, गम्योत्प्रेक्षा माला वा; महानिद्रा वेगेन महत्या निद्राया वेगेनऔरकट्येन, चैरिसैन्ये शत्रुसैन्ये, युगपद् एकदैव, अभिभूयमाने बाध्यमाने सति, वीरवर्गाग्रेसरः वीरसमाजाग्रणीः, स राजकुमारः, रोषदष्टाधरोष्ठं रोषेण-क्रोधेन, दष्टः- प्रणितः, अधरोष्ठः- निम्नोष्ठो येन तादृशम् पुनः उज्झितरथपृष्ठम् उज्जातं - त्यक्तम्, रथस्य, पृष्ठ- पृष्ठभागो येन तादृशम् ; पुनः उद्गूर्णकृपाणम् उद्गूर्ण:- उद्यतः, कृपाण :- खङ्गो येन ताहशम् : पुनः अतिरंहसा अन्यन्तवेगेन, अभिमुखं संमुखम्, समापतन्तम् आगच्छन्तम्, सेनापति निरुक्तसेनानायकम्, अवलोक्य दृष्ट्वा तद्वधाय सेनापतिमारणाय, धनुषि, निवेशितम् आरोपितम्, असितलोलदीधितिजटालफलधारम् असिताभिः - कृष्णाभिः, लोलाभिः - तरलाभिः, दीधितिभिः किरणैः, जटाला-व्याप्ता, फलधारा - अवधारा यस्य तादृशम् ; अत एव अरातिरुधिरपानतृष्णया अरातीनां शत्रूणाम्, यानि रुधिराणि - शोणितानि, तत्पानाभिलाषेण, प्रसारितजिह्वालहस्रमिष व्याप्तसहस्रसंख्यक जिह्वा कमिवेत्युत्प्रेक्षा; संहृतानेकप्रतिपक्षप्राणम् संहृताः- विनाशिताः, अनेकेषां प्रतिपक्षाणां शत्रूणाम्, प्राणाः - असवो येन तादृशम्; बाणं शरम्, सद्य एव तत्क्षणमेव, समहत संहृतवान्, प्रहारान्निवारितवानित्यर्थः । च पुनः उत्सृष्टचापयष्टिः त्यक्तधनुर्दण्डः सन् क्षात्रसमरनीतिप्रियतया क्षात्रीक्षत्रियसम्बन्धिनी या समर नीतिः - पराजये शस्त्रत्यागरूपा संग्रामनीतिः, तस्प्रियतया, तत्क्षणं तत्कालम्, परिवारतः खङ्गकोशात्, पक्षे परिजनात्, कृपाणं खहम्, आत्मानं च खं च पृथक्कृत्य, अवतरनिद्रावेगविगलितपरिस्पन्दः अवतरन्त्याः- आपतन्त्याः, निद्रायाः, वेगेन-उत्कर्षेण, विगलितः - विनष्टः, परिस्पन्दः - शारीरिकचेष्ठा यस्य तादृशः, स्यम्वनो