SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ २२० टिप्पनक-परागविवृतिसंवलिता विसरमिव तुहिनजलबिन्दुनिकरं ववर्ष गगनतलम , अरुणालोकतरलितानि वेतालवृन्दानीव तिरोबभूवुस्तिमिराणि, रणभूमिशोणितावलोकनत्रस्त इव पाश्चात्यशैलशिखरे स्वलद्विकलपादः पपात तारापतिः, आसक्तबालारुणप्रभाप्रभावपिहितवीर्यः सिंहलेन्द्रसूनुरिव निमिमील नक्षत्रराशिः, उत्सृष्टतरुकुलायकोटराणि प्रशान्तप्रहारभयानीव विरतयोधशरवृष्टिसावकाशे विहायसि व्यचरन्ननाकुलानि पञ्जरथकुलानि, अपवर्गचलितवीरवर्गभिन्नसूर्यमण्डलरुधिरप्रवाह इव पूर्व दिग्भागमरुणीचकार सन्ध्यारागः, भयानकाजिभूमिदर्शनोपजातत्रासा इव सुदूरमपससुराशाः, दिङ्मुखस्रस्ततनुतमिस्रविश्रान्तविरलतारका शोकलम्बितालकलनबाष्पजललवा द्रविडराजलक्ष्मीव तत्क्षणं रराज रजनिः, व्याजविजितसिंहलेन्द्रसुतपराभवरोषित इव पुरस्तादुल्ललास टिप्पनकम्-आसक्तबालारुणप्रभाप्रभावपिहितवीर्यः एकत्र बालारुणः-बालादित्य सारथिः, अन्यत्र बालारुणम्-अङ्गुलीयकम् [श] । मुक्तं-घ्युतम् , मौक्तिकविसरमिव-मुक्तामणिसमूहमिव, तुहिनजलबिन्दुनिकरं हिमजलबिन्दुसन्दोहम् , ववर्ष वर्षयति स्म, पुनः वेतालवृन्दानीव व्यन्तरविशेषसमूहा इव, अरुणालोकतरलितानि अरुणस्य-सूर्यसारथेः, आलोकेन-दर्शनेन, तरलितानि-चञ्चलतामापन्नानि, तिमिराणि अन्धकाराः, तिरोबभव तिरोभवन्ति स्म । पुनः रणभमिशोणिताव लोकनत्रस्त इव रणभूमौ-संग्रामक्षेत्रे, यानि शोणितानि तेषामवलोकनेन-दर्शनेन, त्रस्त इव-भीत इव, पादः स्खलन्तः-स्खलनमासादयन्तः, विकलाः-विरलाः, पादाः-किरणा यस्य तादृशः, तारापतिः चन्द्रः, पाश्चात्यशैलशिखरे पश्चिमपर्वतशृङ्गे, पपात पतितः, असं गत इत्यर्थः । पुनः सिंहलेन्द्रसूनुरिव सिंहलेन्द्रस्य-सिंहलद्वीपनृपतेश्चन्द्रकेतोः, सूनुः-कुमारः, समरकेतुरिव, आसक्तबालारुणप्रभाप्रभावपिहितवीर्यः आसक्ता-सम्पृक्ता, या बालारुणस्य-उदयकालिकसूर्यस्य, पक्षे तत्संज्ञकाङ्गुलीयकस्य, प्रभा-द्युतिः, तस्याः प्रभावेनतेजसा पिहितं, वीर्य-सामर्थ्य यस्य तारशः, नक्षत्रराशिः तारागणः, निमिमिल सङ्कुचितः, तिरोबभूव इत्यर्थः। पुनः उत्सृष्टतरुकुलायकोटराणि उत्सष्टानि-प्रभातवेलायामुज्झितानि, तरुकुलायकोटराणि-वृक्षसम्बन्धीनि नीडात्मकगहराणि यैस्तादृशानि, पत्ररथकुलानि पक्षिवृन्दानि, प्रशान्तप्रहारभयानीव प्रशान्तं-निवृत्तम्, प्रहारेभ्यः-अस्त्राघातेभ्यो भयं येषां तादृशानीव, अत एव अनाकुलानि प्रशान्तचित्तानि सन्ति, विरतयोधशरवृष्टिसावकाशे विरताभिः-निवृत्ताभिः, योधानां-भटानाम् , शरदृष्टिभिःशरवर्षाभिः, सावकाशे-अवकाशसहिते, विहायसि आकाशे, व्यचरन् विचरन्ति स्म । पुनः अपवर्गचलितवीरवर्गभिन्नसूर्यमण्डलरुधिरप्रवाह इव अपवर्गचलितेन-युद्धे मृत्वा मोक्षार्थ प्रस्थितेन, वीरवर्गेण-भटगणेन. भिन्नं-कृतभेदनम् , यत् सूर्यमण्डलं-सूर्यविम्बं तस्य, रुधिरप्रवाह इव-शोणितप्रवाह इव, सन्ध्यारागः प्रातःसन्ध्याकालिकाकाशसम्बन्धिरक्तद्युतिः, पूर्व दिग्भागं पूर्वदिगंशम् , अरुणीचकार रञ्जयामास, पुनः भयानकाजिभूमिदर्शनोपजातत्रासा इव भयानिकाया:-भयजनिकायाः, आजिभूमेः-संग्रामभूमेः, दर्शनेन, उपजात:-उत्पन्नः, त्रासः-भयं यासा तादृश्य इव, आशाः दिशः, सुदरम् अतिदूरम्, अपसम्रः अपसूताः, रात्री निरन्तराधिकारव्याप्ततया दिशः समीपस्थाः प्रतिभान्ति, दिवा त्वन्धकारसम्बन्धाभावाद् दूरवर्तिन्य इति वस्तुस्थितिः । पुनः दिखस्नस्ततनुतमिस्त्रविश्रान्तविरलतारका दिमुखेभ्यः-दिगग्रभागेभ्यः, स्रस्तानि-पतितानि, अपमृतानीति यावत् , तनूनि -कृशानि, यानि तमिस्राणि-अन्धकाराः, तेषु विश्रान्ताः-कृतावस्थानाः, विरलाः-कतिपयाः, सान्तरा इत्यर्थः, तारका:-नक्षत्राणि यस्यां तादृशी, रजनिः रात्रिः, तत्क्षणं तत्कालम्, शोकलम्बितालकलग्नबाष्पजललवा शोकेन-रिपुकृतपराजयखेदेन, लम्बितेषु-सस्तेषु, अलकेषु-केशेषु, लग्नाः-स्थिताः, बाष्पजललवा:-अश्रुजलकणा यस्यास्तादशी, द्रविडराजलक्ष्मीरिव द्रविडस्य-तदाख्यया विख्यात. दाक्षिणात्यदेशविशेषस्य, यो राजा तलक्ष्मीरिव, रराज प्रतिभाति स्म। पुनः व्याजविजितसिंहलेन्द्रसुतपराभवरोषित इव व्याजेन-छलेन, विजितस्य-पराजितस्य, सिंहलेन्द्रसुतस्य-सिंहलद्वीपनृपकुमारस्य, पराभवेन-दुःखेन, रोषित इव-क्रोधित इव, लोहितायमानवपुः रत्तीभूतशरीरः, उष्णदीधितिः सूर्यः, पुरस्तात् अने, उल्ललास उल्लसति स्म, उदित
SR No.008456
Book TitleTilakamanjiri Part 2
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy