________________
BEGE છંદના સામાચારી
शुभाशुभ भावविशेषस्यैव नियामकत्वात् = निर्जराबन्धकारणत्वात् ।
पंचाशकगाथार्थस्त्वयम् छन्द्येन अशनादिनां ग्रहणे क्रियमाणेऽपि छन्दकस्य निर्जरा, अक्रियमाणेऽपि छन्दकस्य निर्जरा । तथा द्विधापि ग्रहणेऽग्रहणे च बंधोऽपि भवति । अत्र = निर्जराबन्धयोः भावः निमित्तं । आज्ञाशुद्धो भावो निर्जरायाः कारणं । आज्ञाऽशुद्धश्च भावो बन्धस्य हेतुरिति ॥५७॥
આ જ કારણ-સર “ગ્રહણ અને અગ્રહણ નિર્જરા અને બંધ પ્રત્યે કારણ બને” એ વિષયમાં અનિયમ=અનેકાન્ત જ છે. છન્દ વડે ગ્રહણ થાય ત્યારે છંદકના જો શુભ ભાવ હોય તો નિર્જરા પ્રાપ્ત થાય અને છંદકના શુભભાવ ન હોય તો ગ્રહણ હોવા છતાં નિર્જરા ન થાય. એ જ પ્રમાણે છન્દ્વ ગ્રહણ ન કરે તો પણ શુભ ભાવની હાજરીમાં છંદકને નિર્જરા મળે, અન્યથા ન મળે, કેમકે ભાવિવશેષ જ ફળની પ્રાપ્તિમાં નિયામક છે. ભાવ હોય તો ફળ મળે, ભાવ ન હોય તો ફળ ન મળે.
આ જ વાતને પંચાશકકાર કહે છે કે,“છન્ધ વડે ગ્રહણ થાય એમાં પણ છંદકને નિર્જરા થાય અને અગ્રહણમાં પણ નિર્જરા થાય. અને બે ય રીતે=ગ્રહણ-અગ્રહણ બે ય માં બંધ પણ થાય છે. આ નિર્જરા અને બંધમાં તો ક્રમશઃ આજ્ઞાશુદ્ધભાવ અને આજ્ઞા-અશુદ્ધભાવ નિમિત્ત છે.” ।।૫ણા
यशो. नन्वशनादिदानस्य न फलाऽहेतुत्वं स्वजन्यभावविशेषसंबन्धेन फलसामानाधिकरण्येन तस्य हेतुत्वसंभव इति व्यवहारनयसूक्ष्मेक्षिकाकरणात् । तथा च स्वगृहीताशनस्य च्छन्द्येनाऽग्रहणे तस्य ग्रहणजन्यफलाभावः, छन्दकस्य च दानजन्यफलाभाव इत्याशङ्कामपाकर्तुमाह
"
जइ विहु ण दाणगहणप्पभवं सुकडाणुमोअणं तत्थ । तह वितयं विहिपालणसमुब्भवं होइ णियमेणं ॥ ५८ ॥
चन्द्र.
व्यवहारनयस्य सूक्ष्मदृष्टिं समाश्रित्य कश्चित्शङ्कते ननु इत्यादि । न फलाहेतुत्वं = किन्तु फलहेतुत्वमेव । ननु अधुनैवोक्तमस्माभिः यदुत निर्जरात्मकं फलं आत्मनि विद्यते, अशनादिदानं च शरीरादौ, ततः कथं तत् निर्जराकारणं भवेत् ? इत्यत आह स्वजन्यभावविशेषसंबन्धेनेति । स्वं = अशनादिदानं, तज्जन्यो यो शुभभाव विशेषः, तादृक्सम्बन्धेन परंपरात्मकेन अशनादिदानं निर्जरायाः अधिकरणे वर्तते । एवं च अशनादिदानस्य निर्जरायाश्चाधिकरणं समानं । एवं च अशनादिदानस्य तादृशसंबंधेन फलसामानिधकरण्येन=निर्जराया अधिकरणे आत्मनि वृत्तित्वेन तस्य = अशनादिदानस्य हेतुत्वसंभव = निर्जराकारणत्वसंभव इति व्यवहारनय सूक्ष्मेक्षिकाकरणात् = व्यवहारनयस्य सूक्ष्मदृष्टेराश्रयणात् अशनादिदानस्य फलहेतुत्वमिति
अन्वयः ।
इदमत्र तात्पर्यं । यद्यपि शुभभाव एव आत्मनि उत्पद्यमानः सन् आत्मनि उत्पद्यमानायाः निर्जरायाः कारणं भवति । तथापि यदा छन्द्यस्य दानं दीयते, तदा तेन दानेनैव स शुभो भावः उत्पद्यते । उत्पन्नो वा वर्धते । यदा तु छन्दनाकरणेऽपि छन्द्यो न गृह्णात्यशनादिकं । तदा भावोत्पत्तिः उत्पन्नभाववृद्धिर्वा न भवतीत्यपि अनुभवसिद्धम् । अत एव जीर्णश्रेष्ठी श्रीवीरेण नवीन श्रेष्ठिगृहे पारणके कृते सति भावहानिं प्राप्त इति प्रसिद्धम्।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - चन्द्रशेजरीया टीका + -વિવેચન સહિત ૭૫૬