Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
18888888888888856086RRORSCRIBEEGGESTEEGSSSSSSSSU588888888560566655568005GSSSESsssssss
REATREETTERTAINEESTEETTEEEEEEEEEEEEEEEEEEEEEN संपE सामाचारी तृतीयभङ्गवतिनञ्च वन्दनीयं मन्यते । द्वितीयभङ्गवतिनं चतुर्थभङ्गवतिनञ्च वन्दनीयं न मन्यते । ____एवञ्च प्रथमभङ्गवर्तिनं तु द्वावपि नयौ वन्दनीयं मन्येते । तृतीयभङ्गवर्तिनन्तु केवलं निश्चय एव । शेषौ तु व द्वौ कोऽपि नयो न मन्यते । ततश्च क्षायिकसम्यग्दर्शनयुक्तषष्ठगुणस्थानवर्त्यपि निग्रन्थवेषविरहितः सन् यदि र वन्द्यते, तदा तत्र व्यवहारनयस्य विराधनमेव भवेत् । यदि च श्रेणिकादिर्वन्द्यते, तदा तूभययोरपि विराधनं भवेत्।। र तस्मात् क्षायिकसम्यग्दृष्टयः श्रावकाः साधूनां वन्दनीया नैव भवन्तीति बोध्यम् ।
शिष्यः प्राह – निश्चयनयो हि मोक्षप्रापकः अतः स एव प्रधानम् । व्यवहारस्तु लोकरञ्जनपरस्तुच्छ एवेति: स नैवापेक्षणीयः- इति । । आचार्यः समादधाति - आगमे प्रतिपादितमस्ति यदुत → ववहारो वि हु बलवं जं छउमत्थंपि वंदइ अरहा। जा होइ अणाभिन्नो जाणतो धम्मयं एयं इति । तदर्थस्तु "पुष्पचुलासाध्व्यादयः केवलिनो यतश्छद्मस्थमणिकापुत्राचार्यादिकं वन्दन्ते, ततो व्यवहारोऽपि बलवानिति निश्चीयते । ते हि केवलिनो यावत्कालं
केवलिरूपेण लोकेन न ज्ञायन्ते, तावत्कालं व्यवहारपालनं स्वधर्मं जानानाः कुर्वन्त्येव"इति । नहि ते। की व्यवहारखण्डनस्येच्छां कुर्युः, यतः सेच्छा मोक्षाङ्गं नास्ति । यच्च मोक्षाङ्गं न भवति, केवलिनो तन्न कुर्वन्ति।
तस्मानिश्चयनयवद्व्यवहारोऽपि स्वस्थाने बलवानिति न तदपलाप: कार्यः । ___अत्र हि → केवलिनां "अहं व्यवहारं पालयामि" इतीच्छा न भवति, यत इच्छा रागरूपा भवति, केवलिनाञ्च रागो न संभवति - इति दिगम्बरा व्याचक्षते । किन्तु तन्न युक्तम् । यतो "रागरूपेच्छा तेषां न भवति, किन्तु करुणारूपेच्छा तु तेषां संभवति" इति नन्दिवृत्तौ प्रसिद्धमेव। र अनन्तरं प्रतिपादितं सर्वमप्युत्सर्गमार्गतोऽस्तीति बोध्यम् । अपवादमार्गतस्तु तथाविधकारणवशात्सर्वेऽपि भङ्गा वन्दनीया भवन्ति । न तत्रापवादमार्गमाश्रित्य वन्दमाना लेशतोऽपि दोषभाजो भवन्तीति विज्ञेयम् ॥७९॥
ननु यदि सर्वत्रोभयनयस्वीकारः कर्तव्यः स्यात्, तदा भवता तु व्याख्यानकाले व्यवहारनयस्य त्याग एव कृत इति कथं परस्परं विरोधो न स्यादिति शिष्याशङ्कामपनेतुं प्राक्प्रतिपादितमपि ग्रन्थकारः स्पष्टयति । उभयगहणा च णियणियठाणे कहियस्स सेवणं सेयं । तेण ण कत्थइ कस्सवि दोसोऽगहणे विणायव्वो ॥४०॥
इह व्यवहारनिश्चयौ समाश्रित्यापि चत्त्वारो भङ्गा भवन्ति । तथा हि गुणाधिक: पर्यायज्येष्ठश्चेति प्रथमो भङ्गः, गुणाधिक: पर्यायलघुश्चेति द्वितीयः । गुणहीनः पर्यायज्येष्ठश्चेति तृतीयः । गुणहीनो पर्यालघुश्चेति चतुर्थः । तत्रोत्सर्गतः प्रथमभङ्ग एव वन्दनीयः । अपवादतस्तु स्वस्वस्थाने अन्तिमास्त्रयोऽपि भङ्गा वन्दनीया भवन्ति ।। तत्र व्याख्यानकाले यदि व्याख्याता साधुःपर्यायहीनो भवेत् तदा द्वितीयभङ्गवर्ती स अपवादतस्तत्र वन्दनीयो। भवति । व तृतीयचतुर्थभङ्गौ च शासनरक्षादिकारणार्थमपवादतो वन्दनीयौ भवतः । ततश्चापवादतः व्यवहारनयमगृहीत्वा
निश्चयमात्रं गृहीत्वा द्वितीयभङ्गवर्तिनं प्रति वन्दनकरणे न कोऽपि दोष इति व्यवस्थितम् ॥८०॥ व अत्र हि संक्षेपतोऽर्थग्रहणविधिः प्रतिपादितः । ततश्च ज्ञानदर्शनोपसंपदोः प्रतिपादनं समाप्तम् । अधुनाई
चारित्रोपसंपत्प्रतिपाद्यते।।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २०७ BosssssssscccxcccccessEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEDS

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278