Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
evo
mmmmmmmmmmmmm Buसंहार स्वगुणार्जने चातिजागरुको महामुनिरेव शीघ्रं चारित्रपरिणामवृद्धि प्राप्नुवन्परमपदं प्राप्नोति - इति ।
यस्तु दशधा सामाचारी परिपालयन्नपि परेषां वृतान्तानुत्कण्ठेन मनसा श्रृणोति, महतोल्लासेन प्रतिपादयति, तेषामेव दर्शने समुत्सुको भवति । आत्मगुणानामर्जनेऽत्यादरवान्न भवति । स बहिर्मुखतां बिभ्रदन्तर्मुखतां परित्यजन् न दशधा सामाचारीपरिपालनस्य फलं परमपदं शीघ्रं प्राप्नोति । प्रत्युत विलम्बेन लभते ।
किं बहुना ? बहिर्मुखतैव महत्तमोऽपराधः, अन्तर्मुखतैव च महत्तमो गुणः । 1 ननु सामाचारीषु लीनोप्यनाभोगवशात्कर्मबन्धं करोत्येव । ततश्च तद्ध्यानं कथं मोक्षाभिमुखं वक्तुं शक्यतेति
चेत् यो हि यस्मिन्कर्मणि निरन्तराभ्यासवान् भवति, स तादृशं दृढसंस्कारमाप्नोति, येनानुपयोगदशायामपि स अभ्यासानुसारिणीमेव प्रवृत्तिं विदधाति । किं कोऽपि जनो भोजनकालेऽन्यत्किञ्चिच्चिन्तयन्नप्यनाभोगतोऽपि कवलं श्रोत्रे नेत्रे नासिकायां वा प्रक्षिपन्दृष्टः ? किं वा शीघ्रं गच्छन्कोऽप्यनाभोगतोऽपि पादौ उपरिकृत्य र हस्तावधस्तात्कृत्य चलन्दृष्टः ? निरन्तराभ्यासो खलूपयोगाभावेऽपि पूर्ववदेव प्रवृत्तिं जनयति । एवमेवानाभोग तोऽपि सामाचारीषु दृढाभ्यासवान्साधुः सामाचार्युल्लङ्घनं नैव करोति । प्रत्युत सामाचार्यानुसारिणीमेव प्रवृत्तिं विदधाति । ततश्च तस्यानाभोगनिमित्तकमपि कर्मबन्धनं न भवति, प्रत्युत प्रतिक्षणं निजरैव । तथा च क्रमशः कई परमपदप्राप्तिरित न कश्चिद् दोषः।
"यस्य हि परमपदप्राप्तिरासन्ना' भवति, तस्यैव तथाविधो दृढाभ्यासो दृढसंस्कारोऽनाभोगतोऽपि मार्गानुसारिणी प्रवृत्तिश्च भवति, न पुनरितरेषाम्" इति योगिनो विदन्ति ॥८७॥ 8 प्रकृतकारियां जिनशासनस्य सर्वोत्कृष्टं रहस्यं निगदति ग्रन्थकृत् । किं बहुणा इह जह जह रागदोसा लहुं विलिज्जंति । तह तह पयट्टिअव्वं एसा आणा जिणिंदाणं ॥४८॥
किं बहुना कथितेन ? बहुजल्पने कदाचित्श्रोतारः उद्वेगं प्राप्नुयुः, कदाचिद्वा "किमत्र तत्वम्" इत्यत्रैव विमूढा भवेयुः । तस्मादत्र द्वादशाङ्ग्याः सारमेव प्रतिपादयामि । स चायम् । "इह जगति यथा यथा रागद्वेषौ। मायालोभ-क्रोधमानरूपौ क्षयं गच्छतः । तथा तथा प्रयत्नः कर्तव्य" इति हि जिनेन्द्राणामाज्ञा । N "अमुकं कार्यमवश्यं कर्तव्यमेव, अमुकं वाऽपराधरूपं कार्यं नैव कर्तव्यम्" इत्येकान्तो जिनेश्वराणां शासने
नास्ति । किन्तु “यथा यथा रागद्वैषो क्षयं गच्छतः, तथा तथा प्रवृत्तिः कर्तव्या" इत्येवैकान्तोऽस्ति । प्रायश्च से प्रतिपादितायाः सामाचार्याः परिपालनादेव रागद्वैषौ क्षयं गच्छत इति दशधा सामाचारी रागद्वेषक्षयार्थमेव मया प्रतिपादितेति भावः ॥८८॥ अथ ग्रन्थोपसहारं कुर्वन्नाह
इअ संथुओ महायस ! जगबंधव ! वीर ! देसु मह बोहिं ।
तुह थोत्तेण धुव च्चिय जायइ जसविजयसंपत्ती ॥८९॥ ___ हे महायशस्विन् ! हे जगद्बान्धव ! हे वीर ! सामाचारीनिरूपणद्वारा मया संस्तुतस्त्वं मह्यं सम्यक्त्वं परभवे जिनधर्मयुक्ते कुले जन्म च देहि । तवानेन स्तोत्रेण मम सर्वत्र यशसः सर्वत्र विजयस्य च प्राप्तिरवश्यं जायते ॥८९॥
शिवमस्तु सर्वजगतः । समाप्तेयं दशविधचक्रवालसामाचारी
EEEEEEEEEEEEET
emamboemerococcrocoTEC
18050005500RESSINE
EEEEEEEEEEEEECE
EEEEEEEEEEE. EXEEEEEEEEEEEEEE
PROMORRORRE
TIRECIDENTREPRENEURRRRRRRRRRRRRRRRREnt महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी .२१२ SeemaSSSSSSSSSSSSSSSSSSSSSSSSSSSSS888888888DSSSS8888888888888888885600200

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278