Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 216
________________ EEE GEGE Glucas8888800300300388888888888888888888880000000000003888888888100000000000000000000000 ecommemama m _urierrer अथोपसंहरति । एवं सामाचारी कहिया दसहा समासओ एसा । जिणआणाजुत्ताणं गुरुपरतंताण साहूणं ॥८६॥ ये साधवो जिनाज्ञायुक्ता गुरुपरतन्त्राश्च भवन्ति, तेषामेव संक्षेपतः प्रतिपादिता दशधा सामाचारी भवन्ति । नान्येषाम् । न हि जिनाज्ञापालनरहितानां गुरुपारतन्त्र्यरहितानां वा सामाचारीपालनं संभवति । तत्संभवेऽपि मिथ्यैव भवतीति बोध्यम् । ननु गुरुपारतन्त्र्यमपि गरीयसी जिनाज्ञैवास्ति । ततश्च "जिनाज्ञायुक्तानाम्" इत्येव पदं ग्रहीतव्यम्, तेनैव । गुरुपारतन्त्र्यस्यापि ग्रहणं भविष्यति । ततश्च "गुरुपरतन्त्राणाम्" इति पदं निरर्थकमिति चेन्न, केचित्स्वच्छन्दा मूढा वा साधवो द्रव्यक्षेत्रकालभावादिविषमतामाश्रित्य गुरुणा प्रतिपादितमापवादिकवचनं जिनाज्ञाविरुद्धं मत्वा गुरुं त्यक्त्वा जिनाज्ञापालने रता भवन्ति । यथा महति गच्छे गोचरीदोषान्संभाव्य केचिन्मूढा निर्दोषगोचरीरूपां जिनाज्ञां पालयितुं गच्छत्यागं कुर्वन्ति । ततश्च ते स्वयमात्मानं जिनाज्ञायुक्तमेवाभिमन्यन्ते । अतस्तेषां मिथ्याबुद्धिमपनेतुं "गुरुपरतन्त्राणाम्" इति पदमप्यावश्यकम् । ततश्च तत्पदं दृष्ट्वा "न वयं जिनाज्ञायुक्ता अपि गुरुपरतन्त्राः, तस्मादस्माकमेषा दशधा सामाचारी न भवेत् । ततश्च तदभावे वयं जिनाज्ञाविरहिता एव सञ्जाताः" इत्यादि। विचिन्त्य मिथ्याबुद्धिमपहाय गुरुपारतन्त्र्यं बिभ्रति । एवञ्च न तत्पदं व्यर्थम् ।। ननु तर्हि "गुरुपरतन्त्राणाम्" इत्येव पदं वक्तव्यम् । "जिनाज्ञायुक्तानाम्" इति पदं व्यर्थमेव । यतो गुरुपरतन्त्राः साधवो जिनाज्ञायुक्ता एव भवन्तीति चेत् अहो शिष्य ! त्वं साम्प्रतसाधूनां वक्रतां न जानासि, ते हि विहारकरणादिरू रूपां सर्वां गर्वाज्ञां स्वीकर्वन्ति. पालयन्ति च । तावन्मात्रेणात्मानं गरुपरतन्त्रं मन्यन्ते । किन्त र विहारादौ समितिगुप्तिपालनादिरूपायां जिनाज्ञायामत्यन्तं प्रमादिनो भवन्ति । कदाचिन्निष्ठुरा भवन्ति । ते हि वस्त्रप्रक्षालनप्रतिलेखन-गोचर्यानयनादिरूपां. गुरुभक्ति कृत्वाऽऽत्मानं गुरुपरतन्त्रं गुरुभक्तञ्च मन्यन्ते । किन्तु तस्यां भक्तौ यतनादोषवर्जनादिकमकुर्वाणास्ते जिनाज्ञां न पालयन्ति । ततश्च यदि "जिनाज्ञायुक्तानाम्" इति पदं नोच्येत, तदा ते ह्यात्मानं गुरुपरतन्त्रं जानाना सामाचारीमन्तमपि जानीयुः । ततश्च मिथ्याभिमानिनां तेषामहितमेव स्यात् । तस्मात्तेषां भ्रममपनेतुं "जिनाज्ञायुक्तानाम्" इति पदं कथितम् । तच्च दृष्ट्वा सम्यग्बोधं प्राप्य जिनाज्ञायामप्यप्रमादं बिभ्राणास्ते शीघ्रं परमपदं प्राप्नुयुरिति ग्रन्थकृदभिप्रायः ॥८६॥ ननु "कीदृशस्य साधोरियं दशधा सामाचार्यैकान्तिकमात्यन्तिकञ्च फलं दद्याद् ?" इति जिज्ञासायामाह ।। अज्झप्पज्झाणरयस्सेसा परमत्थसाहणं होइ । मग्गम्मि चेव गमणं एयगुणस्सणुवओगेऽवि ॥८७॥ यो मुनिरध्यात्मध्यानरतो भवति, बहिर्मुखतां त्यक्त्वाऽन्तर्मुखो भवति । परेषां वृतान्तानां श्रवणे बधिरः, परेषां के वृतान्तानां दर्शनेऽन्धः, परेषां वृतान्तानां कथने मूको भवति । तस्येयं दशधा सामाचारी परमार्थस्य मोक्षस्य । साधनं भवति । ___तदुक्तमध्यात्मसारे ज्ञानगर्भितवैराग्यलक्षणप्रतिपादनावसरे महोपाध्यायैः "चेष्टा परस्य वृतान्ते । मूकान्धबधिरोपमा । उत्साहः स्वगुणाभ्यासे दुःस्थस्येव धनार्जने" इति । तथा वैराग्यकल्पलतायां तैरेव → आसक्तिमानात्मगुणोद्यमेऽन्यकथाप्रसङ्गे बधिरान्धमूकः । क्रियासहस्रासुलभं लभेत, निर्ग्रन्थमुख्यं स्वदयाविलासं - इति । तथाऽध्यात्मोपनिषदि तैरेव → आत्मप्रवृत्तावतिजागरुकः, परप्रवृत्तौ बधिरान्धमूकः, सदा चिदानन्दपदोपयोगी, लोकोत्तरं साम्यमुपैति योगी 6 इति प्रतिपादितम् ।। त्रिषु स्वोपज्ञेषु ग्रन्थेष्वेकमेव पदार्थमभिदधाना उपाध्याया दर्शयन्ति यदुत → परेषां वृत्तान्तेषु बधिरान्धमूकः महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २११ HomeTESOSISTERSTSESSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS89888888888888888888888888

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278