Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
SSSSSSSSS
tới
EEEEEEE९९
ARRESTEEEEEEEEEEEEEEEEEEEEEETTETTTTTTTTTTTTTTTER GसंपE सामाचारी वैयावृत्यं कर्तुमनाः भवेत्, तदाऽपि पूर्ववदेव बोध्यम् । केवलमत्रैतावान्विशेषो यदुत "जीर्णो वैयावृत्यकरल आग्रहवान् नाचार्यवैयावृत्यं त्यक्तुमिच्छेत्, न वोपाध्यायादीनां वैयावृत्यं कर्तुमिच्छेत्, तदा स कञ्चित्कालं यावद् विश्रामणं कार्यते । यदा तु नूतनस्य वैयावृत्यकालः समाप्तो भवति, तदा स जीर्णः पुनर्वैयावृत्ये स्थाप्यते ।
याद च जाणः साधुविश्रामणमपि नेच्छेत्, तदा तु नूतनो वैयावृत्यकरः परित्याज्य एव" इति । । यदि जीर्णो वैयावृत्यकर इत्वरकालिको भवेत्, अभिनवस्तु यावत्कथिकः । तदा जीर्णस्य वैयावृत्यकालो 2 यावन्न समाप्तो भवेत्, तावन्नूतन उपाध्यायादीभ्यो दीयते, जीर्णस्य काले संपूर्णे तु नूतनः स्ववैयावृत्ये स्थाप्यते।
___ यदि हि द्वावपीत्वरकालिको स्तः, तदापि पूर्ववदेवावगन्तव्यम् । तत्राप्येकः स्ववैयावृत्ये स्थाप्यते । का अपरश्चोपाध्यायादिभ्योऽवधिकालं यावद् दीयते ।
एषा वैयावृत्योपसंपत्कथिता । अधुना तप:करणोपसंपद् व्याख्यायते ।
तत्र क्षपकापरनामा तपस्वी द्विविधो भवति इत्वरो यावत्कथिकश्च । य उत्तरकालेऽनशनं करिष्यति, साह क्षपको यावत्कथिको भवति । यस्त्वनशनकर्ता नास्ति । स इत्वरः कथ्यते । सोऽपि द्विविधः, विकृष्टक्षपकोऽविकृष्टक्षपकश्च । तत्राष्टमादिक्षपको विकृष्टक्षपको भण्यते । चतुर्थषष्ठक्षपकः पुनरविकृष्टक्षपक 2 उच्यते । तत्रायं विवेकः कर्तव्यः - योऽविकृष्टक्षपकोऽस्ति, तमाचार्यः पृच्छति यथा – "चतुर्थषष्ठपारणके त्वं
कीदृशो भविष्यसि ?" इति यदि स वदेत् – "चतुर्थस्य षष्ठस्य वा पारणकेऽहं ग्लानोपमो भविष्यामि" इति तदाऽऽचार्यस्तं प्रतिषिध्येत् → तव चतुर्थादितपःकरणमयुक्तं, स्वाध्यायवैयावृत्यादावेव यत्नं कुरु - इति ।
विकृष्टक्षपकं प्रत्यप्ययमेव विधिदृष्टव्यः । व अत्रान्ये तु व्याचक्षते → योऽविकृष्टक्षपकोऽस्ति, तं प्रत्ययं प्रतिपादितो विधियुक्त एव । किन्तु यो विकृष्टक्षपको भवति, स त्वष्टमादिपारणके ग्लानसदृशतामनुभवन्नपि न निवारणीयः, किन्तु ग्रहीतव्य - इति।
यो पुनर्मासादिक्षपको यावत्कथिको वा भवेत्, स स्वीक्रियते एव।
तत्राप्याचार्येणायं विधिः समादरणीयो यदुत → गच्छवर्तिनः साधून्प्रति पृच्छा कर्तव्या यथा "अमुकः साधुरत्र गच्छे तपःकरणार्थं निश्रास्वीकाराय समागतोऽस्ति, यूयं तावद्वदत किं स स्वीक्रियते न वा?" इति। यदि ह्याचार्यो गच्छमनापृच्छ्यैव समागतं साधुं स्वीकुर्यात्, तदा सामाचारीविराधनाऽऽचार्यस्य भवति । यत आचार्येण गच्छं प्रति पृच्छा न कृता । ततश्चार्येणासंदिष्टाः साधवः समागतस्य तपस्विनो वस्त्रप्रतिलेखनादिरूपं वैयावृत्यं न कुर्युः। ततश्च स क्षपकोऽवसीदेत् । तस्मादवश्यमाचार्येण गच्छं प्रति पृच्छा कर्तव्या । यदि तत्राचार्येण पृष्टाः साधवः ब्रूवते यथा “अस्माकं गच्छे एकस्तावत्क्षपकोऽस्त्येव । यद्वाऽधुना वैयावृत्यकराः अस्माकं समीपे न सन्ति । तस्मादधुनाऽस्य स्वीकारो नोचितः । यथोचितकालेऽस्य वैयावृत्यं करिष्यामि" इति । तदाऽऽचार्यः समागतं क्षपकं वदेत् → प्रतीक्षस्व, अमुककालानन्तरं तव वैयावृत्यमेते करिष्यन्ति - इति । यदि च साधवः कुतश्चित्कारणात्सर्वथा समागतं साधु नेच्छन्ति, तदा तु गच्छाचार्येण तस्य त्याग एव कर्तव्यः। गच्छवासिनां साधनामिच्छामतिक्रम्याचार्यः समागतसाधं स्वीकर्तं नार्हो भवति । यदि च गच्छो विशालो भवेत्
EEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०० SNEERBETTEREGREEEERUTTEERUTEREBRASHTRRRRRRESERECTRE8038888888888888888888888888000

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278