________________
EEE
GEGE
Glucas8888800300300388888888888888888888880000000000003888888888100000000000000000000000
ecommemama
m
_urierrer अथोपसंहरति । एवं सामाचारी कहिया दसहा समासओ एसा । जिणआणाजुत्ताणं गुरुपरतंताण साहूणं ॥८६॥
ये साधवो जिनाज्ञायुक्ता गुरुपरतन्त्राश्च भवन्ति, तेषामेव संक्षेपतः प्रतिपादिता दशधा सामाचारी भवन्ति । नान्येषाम् । न हि जिनाज्ञापालनरहितानां गुरुपारतन्त्र्यरहितानां वा सामाचारीपालनं संभवति । तत्संभवेऽपि मिथ्यैव भवतीति बोध्यम् ।
ननु गुरुपारतन्त्र्यमपि गरीयसी जिनाज्ञैवास्ति । ततश्च "जिनाज्ञायुक्तानाम्" इत्येव पदं ग्रहीतव्यम्, तेनैव । गुरुपारतन्त्र्यस्यापि ग्रहणं भविष्यति । ततश्च "गुरुपरतन्त्राणाम्" इति पदं निरर्थकमिति चेन्न, केचित्स्वच्छन्दा मूढा वा साधवो द्रव्यक्षेत्रकालभावादिविषमतामाश्रित्य गुरुणा प्रतिपादितमापवादिकवचनं जिनाज्ञाविरुद्धं मत्वा गुरुं त्यक्त्वा जिनाज्ञापालने रता भवन्ति । यथा महति गच्छे गोचरीदोषान्संभाव्य केचिन्मूढा निर्दोषगोचरीरूपां जिनाज्ञां पालयितुं गच्छत्यागं कुर्वन्ति । ततश्च ते स्वयमात्मानं जिनाज्ञायुक्तमेवाभिमन्यन्ते । अतस्तेषां मिथ्याबुद्धिमपनेतुं "गुरुपरतन्त्राणाम्" इति पदमप्यावश्यकम् । ततश्च तत्पदं दृष्ट्वा "न वयं जिनाज्ञायुक्ता अपि गुरुपरतन्त्राः, तस्मादस्माकमेषा दशधा सामाचारी न भवेत् । ततश्च तदभावे वयं जिनाज्ञाविरहिता एव सञ्जाताः" इत्यादि। विचिन्त्य मिथ्याबुद्धिमपहाय गुरुपारतन्त्र्यं बिभ्रति । एवञ्च न तत्पदं व्यर्थम् ।।
ननु तर्हि "गुरुपरतन्त्राणाम्" इत्येव पदं वक्तव्यम् । "जिनाज्ञायुक्तानाम्" इति पदं व्यर्थमेव । यतो गुरुपरतन्त्राः साधवो जिनाज्ञायुक्ता एव भवन्तीति चेत् अहो शिष्य ! त्वं साम्प्रतसाधूनां वक्रतां न जानासि, ते हि विहारकरणादिरू
रूपां सर्वां गर्वाज्ञां स्वीकर्वन्ति. पालयन्ति च । तावन्मात्रेणात्मानं गरुपरतन्त्रं मन्यन्ते । किन्त र विहारादौ समितिगुप्तिपालनादिरूपायां जिनाज्ञायामत्यन्तं प्रमादिनो भवन्ति । कदाचिन्निष्ठुरा भवन्ति । ते हि
वस्त्रप्रक्षालनप्रतिलेखन-गोचर्यानयनादिरूपां. गुरुभक्ति कृत्वाऽऽत्मानं गुरुपरतन्त्रं गुरुभक्तञ्च मन्यन्ते । किन्तु तस्यां भक्तौ यतनादोषवर्जनादिकमकुर्वाणास्ते जिनाज्ञां न पालयन्ति । ततश्च यदि "जिनाज्ञायुक्तानाम्" इति पदं नोच्येत, तदा ते ह्यात्मानं गुरुपरतन्त्रं जानाना सामाचारीमन्तमपि जानीयुः । ततश्च मिथ्याभिमानिनां तेषामहितमेव स्यात् । तस्मात्तेषां भ्रममपनेतुं "जिनाज्ञायुक्तानाम्" इति पदं कथितम् । तच्च दृष्ट्वा सम्यग्बोधं प्राप्य जिनाज्ञायामप्यप्रमादं बिभ्राणास्ते शीघ्रं परमपदं प्राप्नुयुरिति ग्रन्थकृदभिप्रायः ॥८६॥
ननु "कीदृशस्य साधोरियं दशधा सामाचार्यैकान्तिकमात्यन्तिकञ्च फलं दद्याद् ?" इति जिज्ञासायामाह ।। अज्झप्पज्झाणरयस्सेसा परमत्थसाहणं होइ । मग्गम्मि चेव गमणं एयगुणस्सणुवओगेऽवि ॥८७॥
यो मुनिरध्यात्मध्यानरतो भवति, बहिर्मुखतां त्यक्त्वाऽन्तर्मुखो भवति । परेषां वृतान्तानां श्रवणे बधिरः, परेषां के वृतान्तानां दर्शनेऽन्धः, परेषां वृतान्तानां कथने मूको भवति । तस्येयं दशधा सामाचारी परमार्थस्य मोक्षस्य ।
साधनं भवति । ___तदुक्तमध्यात्मसारे ज्ञानगर्भितवैराग्यलक्षणप्रतिपादनावसरे महोपाध्यायैः "चेष्टा परस्य वृतान्ते । मूकान्धबधिरोपमा । उत्साहः स्वगुणाभ्यासे दुःस्थस्येव धनार्जने" इति । तथा वैराग्यकल्पलतायां तैरेव → आसक्तिमानात्मगुणोद्यमेऽन्यकथाप्रसङ्गे बधिरान्धमूकः । क्रियासहस्रासुलभं लभेत, निर्ग्रन्थमुख्यं स्वदयाविलासं - इति । तथाऽध्यात्मोपनिषदि तैरेव → आत्मप्रवृत्तावतिजागरुकः, परप्रवृत्तौ बधिरान्धमूकः, सदा चिदानन्दपदोपयोगी, लोकोत्तरं साम्यमुपैति योगी 6 इति प्रतिपादितम् ।।
त्रिषु स्वोपज्ञेषु ग्रन्थेष्वेकमेव पदार्थमभिदधाना उपाध्याया दर्शयन्ति यदुत → परेषां वृत्तान्तेषु बधिरान्धमूकः
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २११ HomeTESOSISTERSTSESSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS89888888888888888888888888