SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ evo mmmmmmmmmmmmm Buसंहार स्वगुणार्जने चातिजागरुको महामुनिरेव शीघ्रं चारित्रपरिणामवृद्धि प्राप्नुवन्परमपदं प्राप्नोति - इति । यस्तु दशधा सामाचारी परिपालयन्नपि परेषां वृतान्तानुत्कण्ठेन मनसा श्रृणोति, महतोल्लासेन प्रतिपादयति, तेषामेव दर्शने समुत्सुको भवति । आत्मगुणानामर्जनेऽत्यादरवान्न भवति । स बहिर्मुखतां बिभ्रदन्तर्मुखतां परित्यजन् न दशधा सामाचारीपरिपालनस्य फलं परमपदं शीघ्रं प्राप्नोति । प्रत्युत विलम्बेन लभते । किं बहुना ? बहिर्मुखतैव महत्तमोऽपराधः, अन्तर्मुखतैव च महत्तमो गुणः । 1 ननु सामाचारीषु लीनोप्यनाभोगवशात्कर्मबन्धं करोत्येव । ततश्च तद्ध्यानं कथं मोक्षाभिमुखं वक्तुं शक्यतेति चेत् यो हि यस्मिन्कर्मणि निरन्तराभ्यासवान् भवति, स तादृशं दृढसंस्कारमाप्नोति, येनानुपयोगदशायामपि स अभ्यासानुसारिणीमेव प्रवृत्तिं विदधाति । किं कोऽपि जनो भोजनकालेऽन्यत्किञ्चिच्चिन्तयन्नप्यनाभोगतोऽपि कवलं श्रोत्रे नेत्रे नासिकायां वा प्रक्षिपन्दृष्टः ? किं वा शीघ्रं गच्छन्कोऽप्यनाभोगतोऽपि पादौ उपरिकृत्य र हस्तावधस्तात्कृत्य चलन्दृष्टः ? निरन्तराभ्यासो खलूपयोगाभावेऽपि पूर्ववदेव प्रवृत्तिं जनयति । एवमेवानाभोग तोऽपि सामाचारीषु दृढाभ्यासवान्साधुः सामाचार्युल्लङ्घनं नैव करोति । प्रत्युत सामाचार्यानुसारिणीमेव प्रवृत्तिं विदधाति । ततश्च तस्यानाभोगनिमित्तकमपि कर्मबन्धनं न भवति, प्रत्युत प्रतिक्षणं निजरैव । तथा च क्रमशः कई परमपदप्राप्तिरित न कश्चिद् दोषः। "यस्य हि परमपदप्राप्तिरासन्ना' भवति, तस्यैव तथाविधो दृढाभ्यासो दृढसंस्कारोऽनाभोगतोऽपि मार्गानुसारिणी प्रवृत्तिश्च भवति, न पुनरितरेषाम्" इति योगिनो विदन्ति ॥८७॥ 8 प्रकृतकारियां जिनशासनस्य सर्वोत्कृष्टं रहस्यं निगदति ग्रन्थकृत् । किं बहुणा इह जह जह रागदोसा लहुं विलिज्जंति । तह तह पयट्टिअव्वं एसा आणा जिणिंदाणं ॥४८॥ किं बहुना कथितेन ? बहुजल्पने कदाचित्श्रोतारः उद्वेगं प्राप्नुयुः, कदाचिद्वा "किमत्र तत्वम्" इत्यत्रैव विमूढा भवेयुः । तस्मादत्र द्वादशाङ्ग्याः सारमेव प्रतिपादयामि । स चायम् । "इह जगति यथा यथा रागद्वेषौ। मायालोभ-क्रोधमानरूपौ क्षयं गच्छतः । तथा तथा प्रयत्नः कर्तव्य" इति हि जिनेन्द्राणामाज्ञा । N "अमुकं कार्यमवश्यं कर्तव्यमेव, अमुकं वाऽपराधरूपं कार्यं नैव कर्तव्यम्" इत्येकान्तो जिनेश्वराणां शासने नास्ति । किन्तु “यथा यथा रागद्वैषो क्षयं गच्छतः, तथा तथा प्रवृत्तिः कर्तव्या" इत्येवैकान्तोऽस्ति । प्रायश्च से प्रतिपादितायाः सामाचार्याः परिपालनादेव रागद्वैषौ क्षयं गच्छत इति दशधा सामाचारी रागद्वेषक्षयार्थमेव मया प्रतिपादितेति भावः ॥८८॥ अथ ग्रन्थोपसहारं कुर्वन्नाह इअ संथुओ महायस ! जगबंधव ! वीर ! देसु मह बोहिं । तुह थोत्तेण धुव च्चिय जायइ जसविजयसंपत्ती ॥८९॥ ___ हे महायशस्विन् ! हे जगद्बान्धव ! हे वीर ! सामाचारीनिरूपणद्वारा मया संस्तुतस्त्वं मह्यं सम्यक्त्वं परभवे जिनधर्मयुक्ते कुले जन्म च देहि । तवानेन स्तोत्रेण मम सर्वत्र यशसः सर्वत्र विजयस्य च प्राप्तिरवश्यं जायते ॥८९॥ शिवमस्तु सर्वजगतः । समाप्तेयं दशविधचक्रवालसामाचारी EEEEEEEEEEEEET emamboemerococcrocoTEC 18050005500RESSINE EEEEEEEEEEEEECE EEEEEEEEEEE. EXEEEEEEEEEEEEEE PROMORRORRE TIRECIDENTREPRENEURRRRRRRRRRRRRRRRREnt महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी .२१२ SeemaSSSSSSSSSSSSSSSSSSSSSSSSSSSSS888888888DSSSS8888888888888888885600200
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy