SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ 18888888888888856086RRORSCRIBEEGGESTEEGSSSSSSSSU588888888560566655568005GSSSESsssssss REATREETTERTAINEESTEETTEEEEEEEEEEEEEEEEEEEEEN संपE सामाचारी तृतीयभङ्गवतिनञ्च वन्दनीयं मन्यते । द्वितीयभङ्गवतिनं चतुर्थभङ्गवतिनञ्च वन्दनीयं न मन्यते । ____एवञ्च प्रथमभङ्गवर्तिनं तु द्वावपि नयौ वन्दनीयं मन्येते । तृतीयभङ्गवर्तिनन्तु केवलं निश्चय एव । शेषौ तु व द्वौ कोऽपि नयो न मन्यते । ततश्च क्षायिकसम्यग्दर्शनयुक्तषष्ठगुणस्थानवर्त्यपि निग्रन्थवेषविरहितः सन् यदि र वन्द्यते, तदा तत्र व्यवहारनयस्य विराधनमेव भवेत् । यदि च श्रेणिकादिर्वन्द्यते, तदा तूभययोरपि विराधनं भवेत्।। र तस्मात् क्षायिकसम्यग्दृष्टयः श्रावकाः साधूनां वन्दनीया नैव भवन्तीति बोध्यम् । शिष्यः प्राह – निश्चयनयो हि मोक्षप्रापकः अतः स एव प्रधानम् । व्यवहारस्तु लोकरञ्जनपरस्तुच्छ एवेति: स नैवापेक्षणीयः- इति । । आचार्यः समादधाति - आगमे प्रतिपादितमस्ति यदुत → ववहारो वि हु बलवं जं छउमत्थंपि वंदइ अरहा। जा होइ अणाभिन्नो जाणतो धम्मयं एयं इति । तदर्थस्तु "पुष्पचुलासाध्व्यादयः केवलिनो यतश्छद्मस्थमणिकापुत्राचार्यादिकं वन्दन्ते, ततो व्यवहारोऽपि बलवानिति निश्चीयते । ते हि केवलिनो यावत्कालं केवलिरूपेण लोकेन न ज्ञायन्ते, तावत्कालं व्यवहारपालनं स्वधर्मं जानानाः कुर्वन्त्येव"इति । नहि ते। की व्यवहारखण्डनस्येच्छां कुर्युः, यतः सेच्छा मोक्षाङ्गं नास्ति । यच्च मोक्षाङ्गं न भवति, केवलिनो तन्न कुर्वन्ति। तस्मानिश्चयनयवद्व्यवहारोऽपि स्वस्थाने बलवानिति न तदपलाप: कार्यः । ___अत्र हि → केवलिनां "अहं व्यवहारं पालयामि" इतीच्छा न भवति, यत इच्छा रागरूपा भवति, केवलिनाञ्च रागो न संभवति - इति दिगम्बरा व्याचक्षते । किन्तु तन्न युक्तम् । यतो "रागरूपेच्छा तेषां न भवति, किन्तु करुणारूपेच्छा तु तेषां संभवति" इति नन्दिवृत्तौ प्रसिद्धमेव। र अनन्तरं प्रतिपादितं सर्वमप्युत्सर्गमार्गतोऽस्तीति बोध्यम् । अपवादमार्गतस्तु तथाविधकारणवशात्सर्वेऽपि भङ्गा वन्दनीया भवन्ति । न तत्रापवादमार्गमाश्रित्य वन्दमाना लेशतोऽपि दोषभाजो भवन्तीति विज्ञेयम् ॥७९॥ ननु यदि सर्वत्रोभयनयस्वीकारः कर्तव्यः स्यात्, तदा भवता तु व्याख्यानकाले व्यवहारनयस्य त्याग एव कृत इति कथं परस्परं विरोधो न स्यादिति शिष्याशङ्कामपनेतुं प्राक्प्रतिपादितमपि ग्रन्थकारः स्पष्टयति । उभयगहणा च णियणियठाणे कहियस्स सेवणं सेयं । तेण ण कत्थइ कस्सवि दोसोऽगहणे विणायव्वो ॥४०॥ इह व्यवहारनिश्चयौ समाश्रित्यापि चत्त्वारो भङ्गा भवन्ति । तथा हि गुणाधिक: पर्यायज्येष्ठश्चेति प्रथमो भङ्गः, गुणाधिक: पर्यायलघुश्चेति द्वितीयः । गुणहीनः पर्यायज्येष्ठश्चेति तृतीयः । गुणहीनो पर्यालघुश्चेति चतुर्थः । तत्रोत्सर्गतः प्रथमभङ्ग एव वन्दनीयः । अपवादतस्तु स्वस्वस्थाने अन्तिमास्त्रयोऽपि भङ्गा वन्दनीया भवन्ति ।। तत्र व्याख्यानकाले यदि व्याख्याता साधुःपर्यायहीनो भवेत् तदा द्वितीयभङ्गवर्ती स अपवादतस्तत्र वन्दनीयो। भवति । व तृतीयचतुर्थभङ्गौ च शासनरक्षादिकारणार्थमपवादतो वन्दनीयौ भवतः । ततश्चापवादतः व्यवहारनयमगृहीत्वा निश्चयमात्रं गृहीत्वा द्वितीयभङ्गवर्तिनं प्रति वन्दनकरणे न कोऽपि दोष इति व्यवस्थितम् ॥८०॥ व अत्र हि संक्षेपतोऽर्थग्रहणविधिः प्रतिपादितः । ततश्च ज्ञानदर्शनोपसंपदोः प्रतिपादनं समाप्तम् । अधुनाई चारित्रोपसंपत्प्रतिपाद्यते।। महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २०७ BosssssssscccxcccccessEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEDS
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy