________________
388600506100500058888RGREESOME0000056683IGGEOGRE88888888888880GGRESSGGREEGC0050000000000000
20333333333003333333333333303300000
MARRIERTERTREETTERTAITERATTITITTERRORITERARE GiपE सामायारी किन्तु तेषामुत्सूत्रप्ररूपणं निरीक्ष्य तेषु मिथ्यात्वं गुणहीनत्वरूपं निश्चित्य सुविहितास्तान् न वन्दन्ते । तथाऽत्रापि
बोध्यम् । अत्र हि अधिकपर्यायरूपो व्यवहाराभिप्रायोऽस्ति । किन्तु निश्चयाभिप्रायो नास्तीति स वन्दनीयो न क भवति । र यदा तु कश्चित्साधुर्विशुद्धतमेन जिनाज्ञापालनादिनाऽन्यजिनाज्ञापालकज्येष्ठेभ्यः सकाशादधिकगुणो। निश्चीयते, किन्तु स साधुर्पयायहीनोऽस्ति । तदा सोऽपि ज्येष्ठानां वन्दनीयो न भवति । अत्र हि निश्चयनयस्या 8 भिप्रायो वर्तते, किन्तु व्यवहारनयस्याभिप्रायोऽधिकपर्यायरूपो न वर्तत इत्यत्र स वन्दनीयो न भवति ।
एवं वन्दनादिविषयेषूत्सर्गतः प्रमाणमेवाङ्गीकरणीयम् । पर्यायाधिकस्याधिकगुणवत्त्वे सति तं प्रति वन्दनं उभयनयसम्मतं भवतीति तत्र प्रमाणस्वीकारो भवति । अपवादतस्तु व्याख्यानकाले व्यवहारनयो गौणो भवति, निश्चयनयो मुख्यो भवतीति पर्यायहीनोऽपि पर्यायज्येष्ठैर्वन्द्यते । तथैव तथाविधकारणवशाद्गुणविहीनोऽपि १ पर्यायाधिको वन्द्यते । तत्र हि निश्चयनयो गौणो भवति । व्यवहारस्तु मुख्यो भवति । यथा वर्तमानकालेऽमुकत्र
गच्छादौ सर्वथा गुणविहीनोऽपि ज्येष्ठः साधुर्जानानैरपि लघुभिः साधुभिर्वन्द्यते, न च तत्र ते भाववन्दनं कुर्वन्ति। तत्र व्यवहारस्य मुख्यत्वं ज्ञेयम् ॥७७॥ .. इत्थञ्च प्रायः प्रमाणमेवाङ्गीकरणीयमिति यत्प्रतिपादितं, तेन केषाञ्चिद्विपरीतोऽभिप्रायो निराकृतो भवति ।। "स च अभिप्रायः कः" इति दर्शयन् तन्निराकरणमपि प्रदर्शयति ग्रन्थकृत् । । एएण नाणगुणओ लहुओ जइ वंदणारिहो नूणं । होइ गिहत्थो वि गुणंतरेणं ति णिद्दलियं ॥७॥
केषाञ्चिदभिप्रायस्तावदयं यदुत "यदि व्याख्यानकाले ज्ञानगुणेनाधिको लघुरपि साधुर्येष्ठानां यदि वन्दनीयो भवेत्, तदा क्षायिकसम्यग्दर्शनगुणेनाधिकः श्रेणिकादिः क्षायोपशमिकसम्यग्दृष्टिनां साधूनां वन्दनीयो। भवेद्" इति । ___तन्निराकरणञ्चेदमेव यदुत → अत्र व्यवहारनयो मन्यते, यदुत "श्रावकः साधूनां वन्दनविधिपूर्वकं वन्दनीयो नैव भवेद्" इति । ततश्चात्र व्यवहारस्य निषेधो वर्तते । तस्मात्साधूनां गुणान्तरेणाधिकोऽपि श्रावकादिर्वन्दनविधिपूर्वकं वन्दनीयो नैव भवतीति स्थितम् - इति ॥७८॥
एतदेव सविस्तरं प्रतिपादयन्नाह । जेणेवं ववहारो विराहिओ होइ सो वि बलिअयरो । ववहारो वि बलवं इच्चाइ वयणसिद्धमिणं ॥७९॥
यदि क्षायोपशमिकसम्यग्दृष्टयः साधवः क्षायिकसम्यग्दृष्टीन् वन्देरन् । तदा व्यवहारनयो विराधितः स्यात्।।
अत्र हि वन्दनीयस्य विचारे चत्वारो भङ्गा वर्तन्ते । तथा हि षष्ठादिगुणस्थानवान् निर्ग्रन्थवेषधारी चेति । प्रथमः, यथा गौतमादयः । षष्ठादिगुणस्थानाभाववान् निर्ग्रन्थवेषधारी चेति द्वितीयः, यथा संविग्नपाक्षिकादयः।। षष्ठादिगुणस्थानभाववान् निर्ग्रन्थवेषरहितश्चेति तृतीयः, यथाऽऽदर्शभवने समुत्पन्नकेवल-ज्ञानो वेषविरहितो भरतचक्री । षष्ठादिगुणस्थानाभाववान् निग्रन्थवेषरहितश्चेति चतुर्थः, यथा श्रेणिकादयः । ___तत्र व्यवहारनयो प्रथमभङ्गवर्तिनमेव वन्दनीयं मन्यते । न तु चरमभङ्गत्रयवतिनं कमपि वन्दनीयं मन्यते।। अत एव व्यवहारनयस्तृतीयभङ्गवर्तिनं केवलिनमपि वन्दनीयं न मन्यते । निश्चयनयस्तु प्रथमभङ्गवतिनं
होपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०७ Chennamo0000000000000000TROTHEROEncomewI0000000000000000000000000000