SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ BOLEBELLELEECEECEEEEEEEEEEEE REEEEE EEEEERTAIEEEEEEEEEEEEEEEEEEEEEER GUसंपE सामायारी वयसा ज्येष्ठः पर्यायेण वा ज्येष्ठो वन्दनीयो भवति । यतो वयसा ज्येष्ठः पर्यायेण वा ज्येष्ठः कदाचिदवन्दनीयोऽपि स्यात् यदि स चारित्रगुणविकलो भवेत् । यथा जमाल्यादयः पर्यायेण ज्येष्ठा अपि साधूनामवन्दनीयाः सञ्जाताः। न वा पर्यायेण लघुः साधुनियमादवन्दनीय एव भवेत् । यतो यदि स अतिमुक्तक इव लघुरपि सन् केवलज्ञानादिगुणभाग्भवेत्, तदा सर्वेषां ज्येष्ठाणामपि वन्दनीयो भवेत् । तस्मात्पर्यायो वयो वा वन्दनविषये नैव प्रेक्षणीयः । किन्तु “यो गुणाधिकः, स गुणहीनानां ज्येष्ठानामपि वन्दनीय" इत्येव मन्तव्यम् ।। व व्यवहारनयोऽभिदधाति "को नाम निश्चयाभिप्रायं प्रतिक्षिपेत् ? यन्निश्चयनयेनोक्तं, तत्सम्यगेव ।। गुणाधिकत्वमेव वन्द्यत्वप्रयोजकं । किन्तु छद्मस्थाः खल्वेते साधवः । को जानाति ? कः साधुः कस्माद । गुणाधिकः ? कस्माद्वा गुणहीनः ? विचित्रा हि जीवानां परिणतिर्भवति । न हि साधूनां मध्येऽमुकस्य । गुणाधिकत्वममुकस्य तदपेक्षया गुणहीनत्वं वा वक्तुं पार्यते । यतः कदाचिदनवरतमाचामाम्लकारी साधुर्भोजनासक्त्यादिरोगरहित इव प्रतिभाति, किन्तु स्वाध्याये प्रमादी भवेत् । स्वाध्यायेऽप्रमत्तश्च परिणतिमानपि । साधुर्भोजनादावासक्तिमानपि भवेत् । तत्र कः कस्माद् गुणाधिको गुणहीनो वेति सर्वज्ञं विना न निश्चीयते । 8 अनुमानन्तु केषाञ्चिदेव गीतार्थानां तात्विकं भवति । अन्ये तु तत्र निश्चयं कर्तुं नैव शक्नुवन्ति । तस्मात् । निश्चयनयाभिप्रायो वास्तविकोऽपि वन्द्यवन्दकविवेके वन्दनादिव्यवहारे च नैवोपयोगी भवति । ततश्चात्रेदमेव मन्तव्यम् यदुत यथा यथा पर्यायवृद्धिर्भवति, तथा तथा गुणवृद्धिरपि सम्यग्जिनाज्ञापालकानां भवत्येव । एवञ्च ये यथाशक्ति जिनाज्ञापालका भवन्ति, पर्यायेण ज्येष्ठाश्च भवन्ति । ते यथाशक्ति जिनाज्ञापालकेभ्यः पर्यायेण लघुभ्यः प्रायो गुणाधिका एव भवन्तीति यथाशक्ति जिनाज्ञापालनविशिष्टोऽधिकपर्यायो यस्य वर्तते, स हीनपर्यायवतां वन्दनीयो भवति । हीनपर्यायवन्तश्च तं वन्दन्ते । ___ननु पर्यायवृद्धिगुणवृद्धौ कथं कारणं भवेदिति चेत् दृष्टान्तेनेदं कथयामि । समानक्षयोपशमवन्तौ । समानरुचिमन्तौ समानपरिश्रमवन्तौ द्वौ साधू स्तः । तत्र यः प्रहरद्वयं यावत्स्वाध्यायं करोति, तस्य ज्ञानमधिकं भवति । यः पुनरधुना वैयावृत्यादिकं कृत्वा प्रहरमात्रं यावत्स्वाध्यायं करोति, तस्य ज्ञानं न्यूनं भवेत् । अत्र हि ह्यन्येषां कारणानां समानताऽस्ति, ततश्च कालभेद एव ज्ञानाधिकतादौ नियामको भवति । एवं यथाशक्ति जिनाज्ञापालकानां मध्येऽधिकपर्यायवतोऽगुणवत्ताऽल्पपर्यायवतश्चाल्पगुणवत्ता युक्तैव। ___ यदा च द्वयोः साध्वोः क्षयोपशमे रुचौ वा तारतम्यं भवेत्, तदा कदाचित्प्रहरद्वयं स्वाध्यायं कुर्वतः सकाशात्प्रहरमात्रं स्वाध्यायं कुर्वतो ज्ञानमधिकं संभवेत् । एवं यदि पर्यायज्येष्ठोऽपि साधुर्जिनाज्ञापालनादौ का प्रमादिदोषान्सेवेत, तदा स जिनाज्ञापालनेऽप्रमादवतोऽल्पपर्यायिनः सकाशादपि हीनगुणः संभवेत् । तदेतत्सर्वं समालोच्य "सम्यग्जिनाज्ञापालकानां मध्ये पर्यायेण ज्येष्ठो वन्दनीयो भवति" इति मन्तव्यम् ।। व्यवहारनिश्चयनयौ प्रतिपाद्य सम्प्रति स्वीकारयोग्यं प्रमाणं दर्शयामि । तदपि शृणु । व्यवहारनिश्चय र योरुभयोरप्याभिप्रायौ समादरणीयौ । यदि हि स्थूलदृष्ट्या जिनाज्ञापालक: पर्यायज्येष्ठः केनचित्प्रकारेण निश्चितमेव गणहीनो निश्चीयते. तदा स नैव वन्दनीयः । यथा निह्नवाः जिनाज्ञापालका पर्यायज्येष्ठाश्च भवन्ति, EEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. २०५ MERESERESTRESSET86888RRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRES
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy