________________
be
REE000000000000000000000REERUIREOX88003888888888886पसंपE साभाथारी निषिध्यामि । प्रकटीकरोमि मत्स्वरूपम् -- इत्यादि । स यदि वन्दमानान् निषिध्येत्, स्वयञ्च साधुवेषं परित्यज्य श्रावको भवेत्, साधुवेषे वा दृढानुरागानान्स साधुवेषं बिभ्राणोऽपि संविज्ञपाक्षिकभावं स्वीकुर्यात्, तदा दोषी न भवति।
यस्तु स्वं गुणविकलमवन्दनीयं जानानोऽपि यश:कीर्तिप्रतिष्ठासुखशीलतादीन् तुच्छपदार्थानाकाङ्क्षमाणः स्पृह्यन्वन्दमानान्मुग्धजनान्न निवारयेत्, आत्मनो निर्गुणताञ्च न प्रकटीकुर्यात्, स मायादिभावेन महादोषभाग्भवति। दुर्लभं भवति तस्यानन्तकालेऽपि चारित्रम् । दुर्गतयस्तस्य करतलगता इव भवन्ति । तदुक्तमध्यात्मसारे "व्रतभारासहत्वं ये विदन्तोऽप्यात्मनः स्फुटम्, दम्भाद्यतित्वमाख्यान्ति, तेषां नामापि पाप्मने । ॥१॥ कुर्वते ये न यतनां सम्यक्कालोचितामपि, तैरहो यतिनाम्नैव दाम्भिकैर्वञ्चयते जगत् ॥२॥ धर्मार्थिनाऽतस्त्याज्यो दम्भोऽनर्थनिबन्धनम्, शुद्धिः स्याद् ऋजुभूतस्येत्यागमे प्रतिपादितम् ॥३॥ जिनैर्नानुमतं किञ्चिन्निषिद्धं वा न सर्वथा । कार्ये भाव्यमदम्भेनेत्याज्ञा पारमेश्वरी ॥४॥ ___चतस्रोऽपि कारिकाः स्पष्टा एवेति न विवृणोमि । . ___ यतश्चैवं, तस्मात्स्वयं निर्गुणेन साधुना परेषां वन्दनं नैव ग्राह्यम् । वर्तमानकाले तु तथाविधव्यवहाराभावाद वन्दनग्रहणकाले दृढः पश्चात्तापभावो धर्तव्यः । यथौचित्यञ्च स्वदोषास्तत्र प्रकटीकर्तव्या इति ॥७४॥ ___अत्र हि निर्गुणसाधोः परान्वन्दापयतस्तावद्दोषो भवतु, किन्तु व्याख्यानकाले व्याख्यानलब्धियुक्तो ज्येष्ठान वन्दापयन्नपि लेशमपि दोषं नैव प्राप्नोति । यतः स तथाविधनिर्गुणसाधुसदृशो नास्ति । केवलं प्रवचनस्याराधनार्थमेव वन्दनग्रहणं करोति । अत एव "पर्यायापेक्षया क्षुल्लकोऽपि व्याख्याता र परान्वन्दापयन्निर्दोषः" इत्येव केवलं न, प्रत्युत स चारित्रगुणहीनोऽपि यदि भवेत् तथापि तदा व्याख्यानगुणयुक्तः सन् परान्वन्दापयन्नपवादमार्गतो निर्दोष एव ॥५॥
एतदेवाह। र एत्तो अववाएणं पागडपडिसेविणोऽवि सुत्तत्थं । वंदणयमणुण्णायं दोसाणुववूहणाजोगा ॥७६॥
पर्यायमात्रापेक्षया क्षुल्लको व्याख्याता व्याख्यानकाल उत्सर्गत एव वन्दनीयः । यदि स क्षुल्लको व्याख्याता 1 मूलगुणे उत्तरगुणे वा निष्कारणमेवातिचारान्सेवते । तदा स उत्सर्गतोऽवन्द्यः । किन्तु व्याख्यानकाले। व्याख्यानगुणमाश्रित्य स अपवादतो वन्दनीयो भवति । तत्र हि प्रवचनार्थं जिनवरैर्वन्दनमनुज्ञातमिति भावः ।।
ननु चारित्रभ्रष्टं प्रति वन्दनं तस्मिन्विद्यमानानां दोषाणामनुमोदनरूपमिति जिनवरैस्तस्य निषेधः कृतः ।। अधुना तु तं प्रत्येव वन्दने क्रियमाणे कथं तद्गतानां दोषाणामनुमोदनरूपो दोषो न भवेदिति चेत्
ननु प्रागेवोक्तम्, यदुतात्र चारित्रभ्रष्टस्यापि साधोः व्याख्यानकरणगुणमात्रमपेक्षमाणाः साधवस्तं वन्दन्ते । तत्र तत्पाश्र्वात्प्रवचनार्थप्राप्तिरेवानेन वन्दनेनेष्यते । न तु तद्गतानां दोषाणां मनसाऽप्यत्रानुमोदनं क्रियते ।। ततश्चापवादतः तं प्रति वन्दनकरणे न दोषः ॥७६॥ निच्छयणएण इहयं पज्जाओ वा वओ व ण पमाणं । ववहारस्स पमाणं उभयणयमयं च घेतव्वम् ॥७७॥ ___ निश्चयनयो मन्यते - यः साधुरितरसाधुभ्यः सकाशाद्गुणैरधिको भवेत् स तेषां वन्दनीयो भवति । न हि
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEE
र महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २०४ ReasomaraGREENEResmameraERTERRRRRRRREsamaccedis