________________
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
PRATISHTRAITREATRITERATURE
m m पसंपE सामायारी ___ अहो भवतां जाड्यम् । यथा हि चतुर्वेदान्जानन्नपि ब्राह्मणो यदाऽऽयुर्वेदं ज्ञातुमिच्छति, तदा वैद्यस्य पार्वे 28 गत्वा वन्दनसत्कारादिना तं वैद्यं तोषयित्वाऽऽयुर्वेद ज्ञानं प्राप्नोति। यदा तु स एव वैद्यश्चतुर्वेदान्ज्ञातुमिच्छति, 8
तदा सोऽपि ब्राह्मणपाडें गत्वा वन्दनादिना तं तोषयित्वा चतुर्वेदज्ञानं प्राप्नोति । र यो हि यद्वस्त्वपेक्षते, स तद्वस्तुस्वामिनं भजत इति नियमः । अत एव सुर्वणकारो वस्त्रसीवनार्थं तन्तुवायं सेवते, स एव च तन्तुवायोऽलङ्कारकरणार्थं सुवर्णकार सेवते । राजानो विद्यार्जनार्थं ब्राह्मणान्सेवन्ते, ब्राह्मणाश्च स्वकटम्बादिपोषणार्थं राजानं सेवन्ते । एवमत्रापि व्याख्यानकाले ज्येष्ठाः ज्ञानप्राप्तिमिच्छन्तीति कत्वा त एव ज्ञानवन्तं क्षुल्लकमपि मुनि वन्दन्ते । स तु क्षुल्लकश्चारित्रवृद्धिमिच्छतीति कृत्वा दिवसमध्ये सामाचार्यनुसारेण सकृद्विाँ ज्येष्ठान्वन्दते । ततश्चात्र न कोऽपि दोषः । ___तथापि यदि कदाग्रहमाश्रित्येदमेव मन्येत यदुत हीनगुणोऽधिकगुणवतो वन्दापयितुं सर्वथा सर्वदाऽयोग्य एव । तदा तु महत्सङ्कटं स्यात् । यत एवं सति ये क्षायिकसम्यग्दृष्टयः श्रेणिकाद्याश्चतुर्थगुणस्थानवर्तिनः । ते क्षायोपशमिकसम्यक्त्वशालिभ्यः साधुभ्यः सकाशात्सम्यग्दर्शनगुणापेक्षया गुणाधिका एव । एवञ्च। सम्यग्दर्शनापेक्षया हीनगुणाः साधवः श्रेणिकादीन् वन्दापयितुमयोग्या एव स्यात् । न चैतद् युक्तम् । किन्तु क्षायिकसम्यग्दृष्टयोऽपि श्रेणिकाद्याश्चारित्रगुणं काडक्षन्ते। तत एव ते चारित्रगुणस्वामिनः क्षायोपशमिकसम्यग्दृष्टीन् मुनीन्वन्दन्ते । ते च मुनयो न तान्निषिध्यन्ति । न वा दोषभाजो भवन्तीति व्याख्यानकाले ज्येष्ठान् वन्दापयन्नपि क्षुल्लको दोषी नैव भवति ।
ननु तर्हि क्षायोपशमिकसम्यग्दृष्टयः साधवोऽपि क्षायिकसम्यग्दर्शनमपेक्षन्त एव । एवञ्च तैः श्रेणिकादिभ्यो। वन्दनं देयं स्यात् । श्रेणिकादिभिश्च तस्य निषेधोऽकर्तव्यः स्यात् । न च महावीरसाधवः श्रेणिकमवन्दन्त ।
तस्मादियमापत्तिः कथं निवार्येतेति चेत् निश्चयनयवद्व्यवहारोऽपि बलवान् । व्यवहारे च साधूनां श्रावकेभ्यो र वन्दनदानं प्रतिषिद्धेमेवेति नेयमापत्तिः ॥७४॥
इममेव पदार्थं स्पष्टयन्नाह । जाणंतस्स हि अगुणं अप्पाणं सगुणभावविक्खायं । वंदावंतस्स परं दोसो मायाइभावेणं ॥५॥
यो हि साधुरात्मानं जानाति यथा → यद्यपि मया सर्वविरतिर्गृहीता, तथापि प्रमादविषयसुखलालसादिदोषयुक्तोऽहं न तां सम्यक्परिपालयामि । मम महाव्रतानि मृतप्रायाणि सञ्जातानि । प्रश्रवणश्लेष्ममलादीनां परिष्ठापनेऽहं यतनामपि न करोमि । मुखवस्त्रिकां विनैव ब्रवीमि । सावधवचनानि मम स्वाभाविकानि सञ्जातानि। गुरुमनापृच्छ्यैव कियन्ति कार्याणि करोम्यहं । विजातीयदर्शने मत्तमिव भवति मे मनः । वस्त्रपात्रादीनाञ्च महान्परिग्रहस्तदुपरि रागश्च मम वर्तते । न वाऽहमुत्तरगुणेषु निर्दोषभिक्षाटनस्वाध्यायध्यानभावनादिष्वपि प्रयते । यथाशक्ति मूलोत्तरगुणपालनसमन्विता एव साधवः षष्ठादिगुणस्थानवर्तिनो भवन्ति । अहन्तु न तथा । यदि मम मनसि सम्यक्पश्चात्तापोऽस्ति, तदा कदाचिदहं सम्यग्दृष्टिरस्मि । किन्तु सम्यग्दृष्टिरप्यहं परेषां वन्दनं ग्रहीतुमयोग्य एव । सुविहिताः साधव एव वन्दनग्रहणे योग्याः । किन्तु मम चारित्रवेषं दृष्ट्वा मुग्धजनाः मां साधुं मत्वा महतादरेण मां वन्दन्ते । अहन्तु “साधुगुणयुक्त" इति लोके प्रसिद्धि प्राप्तोऽस्मि । तस्माद्वन्दमानान् श्रावकादीन् RRENTIRECTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTTERRORIES
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २०३ RRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRE1000RRB
ELEBRastraa
208000083685086RREE688888888888888800388603050000066