Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 199
________________ GEGOREGEGREEEEEEEEG3333333333338038538050300387380RREEEEEEEEEEEER Emmmmmmmmmmmmm 64संपE सामायारी , स स गुरुर्योग्यशिष्यं कथयति यथा → त्वया पञ्चवर्षानन्तरममुकाचार्यस्य पार्वे पठितव्यं ।। परन्त्वमुकाचार्यस्य पार्वे न पठितव्यम् । न तस्य तथाविधः सम्यग्बोधो वर्तते 6 इत्यादि । स च शिष्योऽवधिकालात्पूर्वमेव निषिद्धस्यैवाचार्यस्य समीपे गत्वा यदि पठति । तदाऽसंदिष्टोऽसंदिष्टस्य पार्वे पठतीति चतुर्थो भङ्गः ॥६०॥ । 1 "अत्र चतुर्यु भङ्गेषु कतमो भङ्गः शुद्ध ?" इति शिष्यजिज्ञासायां प्रत्युत्तरयत्याचार्यः । पढमो एत्थ विसुद्धो बितियपदेणं तु हंदि इयरेवि ।अव्वोच्छित्तिणिमित्तं जेणं ते विय अणुण्णाया ॥६१॥ संदिष्टः संदिष्टस्य पार्वे पठतीति प्रथमो भङ्गः सर्वथा शुद्धः । यतस्तत्र गुर्वाज्ञायाः सम्यक्पालनं भवति, स्वकार्यस्य छेदसूत्राभ्यासस्य च निर्वाहो भवति । शेषास्त्रयो भङ्गास्त्वशुद्धा इत्युत्सर्गः । तत्र द्वितीयतृतीयभङ्गयोर्गुवाज्ञाया देशतः पालनं देशतः खण्डनञ्च भवति । चतुर्थभङ्गे तु गुर्वाज्ञाया सर्वथोल्लङ्घनमेव भवतीति कृत्वा तेऽशुद्धाः । तत्रापवादस्त्वयं। र शिष्यः कदाचित्स्वगुर्वपेक्षयाऽप्यधिकपरिणतिमान्संभवति । स च सम्यक्चिन्तयति - गुरुणा 1 तावत्पञ्चवर्षाणि यावदमुकाचार्यस्य समीपेऽभ्यासो निषिद्धः । परन्तु तदाचार्यस्य वृद्धावस्था वर्तते । कदाचित्ते मृत्युं प्राप्नुयात् । कदाचिदध्यापनस्य शक्तिं विमुञ्चेत् । यद्वा यद्यपि स आचार्यो मध्यमवयाः शोभनस्वास्थ्यधारको यद्यप्यस्ति, तथापि न जाने ? पञ्चवर्षानन्तरं तस्य सम्पर्को भवेन वा ? अधुना त्वत्रैवासन्ननगरादौ स वर्तते । यदि चाहमधुना न पठिष्यामि, तर्हि तादृक्पदार्थानामन्यपाठकस्याभावात्ते ग्रन्था विच्छेत्स्यन्ते । ममापि तादृशविशिष्टग्रन्थानां सम्यग्बोधो न स्यात् । प्रवचनविच्छेदश्च न युक्तः । तस्माद्गुरोराज्ञामुल्लङ्ध्यापि मयाऽधुनैव ते ग्रन्थाः पठनीया" इत्यादि । इत्थञ्च तथाविधकारणवशाद गुर्वाज्ञामुल्लङ्घयन्नपि स साधुर्विशुद्धभाववान्न लेशमपि दोषमवाप्नोति । र तथा कदाचिद् गुरुर्मनसि चिन्तयति यथा → मम शिष्योऽन्यगच्छे गत्वा तेषां विशुद्धाचारादिकं दृष्ट्वा मद्गच्छं परित्यजेत् । तत्रैव च निवसेत् । यद्वाऽयमेव मम वैयावृत्यं सम्यक्प्रकारेण करोति । यदि चैनं प्रेषयेयं परगच्छे, तदा मम वैयावृत्यं कः सम्यक्कुर्यात् - इत्यादि । स तु स्वार्थभावभृतो न विचारयति यदुत → प्रवचनोन्नतिरेव सर्वोपरि तत्त्वं । न शिष्यस्य मद्गच्छे निवासः, न वा मवैयावृत्यं । तुच्छा एते पदार्थाः, न परिणतजिनप्रवचनतत्त्वस्य ममैतादृशी भावनोचिता - इत्यादि । ततश्च स शिष्यं केनापि प्रकारेण वारयति । शिष्यस्तु गीतार्थः परिणतश्च सन् सर्वं सम्यग्जानानो जिनप्रवचनाविच्छेदार्थं गुर्वाज्ञामुल्लङ्ध्यापि परगच्छे गच्छेत्, (जिनप्रवचनञ्च गृह्णीयात् । न तस्य कश्चिदपि दोषः ।। अत्र हि विशुद्धपरिणाम एव प्रमाणम् । स च शिष्येण गुरुणा वा स्वात्मनि सम्यगवधारणीयः । यदि हि की स्वात्मनि वर्तमानमशुद्धपरिणाममपि विशुद्धपरिणाममिव शिष्यो गुरुर्वा मन्येत । तदा तु तयोरहितमेव स्यात् ।। स्वच्छन्दतापरिणामं शुद्धपरिणामं मन्वानस्य शिष्यस्याहितं भवेत् । संकुचितपरिणामं परोपकारबुद्धिरूपं मन्वानस्य गुरोरहितं भवेदिति निष्कर्षः । अत एव ये गुरवो गीतार्थसंविग्ना भवन्ति, ते तु सर्वं सम्यग्जानाना न कदापि EEEEEEEEEEEEEEEEEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८४ PETER

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278