________________
GEGOREGEGREEEEEEEEG3333333333338038538050300387380RREEEEEEEEEEEER
Emmmmmmmmmmmmm 64संपE सामायारी , स स गुरुर्योग्यशिष्यं कथयति यथा → त्वया पञ्चवर्षानन्तरममुकाचार्यस्य पार्वे पठितव्यं ।। परन्त्वमुकाचार्यस्य पार्वे न पठितव्यम् । न तस्य तथाविधः सम्यग्बोधो वर्तते 6 इत्यादि । स च शिष्योऽवधिकालात्पूर्वमेव निषिद्धस्यैवाचार्यस्य समीपे गत्वा यदि पठति । तदाऽसंदिष्टोऽसंदिष्टस्य पार्वे पठतीति चतुर्थो भङ्गः ॥६०॥ । 1 "अत्र चतुर्यु भङ्गेषु कतमो भङ्गः शुद्ध ?" इति शिष्यजिज्ञासायां प्रत्युत्तरयत्याचार्यः । पढमो एत्थ विसुद्धो बितियपदेणं तु हंदि इयरेवि ।अव्वोच्छित्तिणिमित्तं जेणं ते विय अणुण्णाया ॥६१॥
संदिष्टः संदिष्टस्य पार्वे पठतीति प्रथमो भङ्गः सर्वथा शुद्धः । यतस्तत्र गुर्वाज्ञायाः सम्यक्पालनं भवति, स्वकार्यस्य छेदसूत्राभ्यासस्य च निर्वाहो भवति ।
शेषास्त्रयो भङ्गास्त्वशुद्धा इत्युत्सर्गः । तत्र द्वितीयतृतीयभङ्गयोर्गुवाज्ञाया देशतः पालनं देशतः खण्डनञ्च भवति । चतुर्थभङ्गे तु गुर्वाज्ञाया सर्वथोल्लङ्घनमेव भवतीति कृत्वा तेऽशुद्धाः ।
तत्रापवादस्त्वयं। र शिष्यः कदाचित्स्वगुर्वपेक्षयाऽप्यधिकपरिणतिमान्संभवति । स च सम्यक्चिन्तयति - गुरुणा 1 तावत्पञ्चवर्षाणि यावदमुकाचार्यस्य समीपेऽभ्यासो निषिद्धः । परन्तु तदाचार्यस्य वृद्धावस्था वर्तते । कदाचित्ते
मृत्युं प्राप्नुयात् । कदाचिदध्यापनस्य शक्तिं विमुञ्चेत् । यद्वा यद्यपि स आचार्यो मध्यमवयाः शोभनस्वास्थ्यधारको यद्यप्यस्ति, तथापि न जाने ? पञ्चवर्षानन्तरं तस्य सम्पर्को भवेन वा ? अधुना त्वत्रैवासन्ननगरादौ स वर्तते । यदि चाहमधुना न पठिष्यामि, तर्हि तादृक्पदार्थानामन्यपाठकस्याभावात्ते ग्रन्था विच्छेत्स्यन्ते । ममापि तादृशविशिष्टग्रन्थानां सम्यग्बोधो न स्यात् । प्रवचनविच्छेदश्च न युक्तः । तस्माद्गुरोराज्ञामुल्लङ्ध्यापि मयाऽधुनैव ते ग्रन्थाः पठनीया" इत्यादि । इत्थञ्च तथाविधकारणवशाद गुर्वाज्ञामुल्लङ्घयन्नपि स साधुर्विशुद्धभाववान्न लेशमपि दोषमवाप्नोति । र तथा कदाचिद् गुरुर्मनसि चिन्तयति यथा → मम शिष्योऽन्यगच्छे गत्वा तेषां विशुद्धाचारादिकं दृष्ट्वा मद्गच्छं परित्यजेत् । तत्रैव च निवसेत् । यद्वाऽयमेव मम वैयावृत्यं सम्यक्प्रकारेण करोति । यदि चैनं प्रेषयेयं परगच्छे, तदा मम वैयावृत्यं कः सम्यक्कुर्यात् - इत्यादि । स तु स्वार्थभावभृतो न विचारयति यदुत → प्रवचनोन्नतिरेव सर्वोपरि तत्त्वं । न शिष्यस्य मद्गच्छे निवासः, न वा मवैयावृत्यं । तुच्छा एते पदार्थाः, न परिणतजिनप्रवचनतत्त्वस्य ममैतादृशी भावनोचिता - इत्यादि । ततश्च स शिष्यं केनापि प्रकारेण वारयति । शिष्यस्तु गीतार्थः परिणतश्च सन् सर्वं सम्यग्जानानो जिनप्रवचनाविच्छेदार्थं गुर्वाज्ञामुल्लङ्ध्यापि परगच्छे गच्छेत्, (जिनप्रवचनञ्च गृह्णीयात् । न तस्य कश्चिदपि दोषः ।।
अत्र हि विशुद्धपरिणाम एव प्रमाणम् । स च शिष्येण गुरुणा वा स्वात्मनि सम्यगवधारणीयः । यदि हि की स्वात्मनि वर्तमानमशुद्धपरिणाममपि विशुद्धपरिणाममिव शिष्यो गुरुर्वा मन्येत । तदा तु तयोरहितमेव स्यात् ।। स्वच्छन्दतापरिणामं शुद्धपरिणामं मन्वानस्य शिष्यस्याहितं भवेत् । संकुचितपरिणामं परोपकारबुद्धिरूपं मन्वानस्य गुरोरहितं भवेदिति निष्कर्षः । अत एव ये गुरवो गीतार्थसंविग्ना भवन्ति, ते तु सर्वं सम्यग्जानाना न कदापि
EEEEEEEEEEEEEEEEEEEEEEE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८४ PETER