________________
AMRITERARETTERTREETITIER
BuसंपE सामायारी जिनप्रवचनस्य शिष्यस्य वा हानि कुर्वन्तीमाज्ञां ददाति । ततश्च तत्र तेषां शिष्याणां प्रथमो भङ्ग एव श्रेयान् । । ते यदि स्वमतिकल्पना किञ्चित्कदालम्बनमवलम्ब्य द्वितीयादिभङ्गेषु प्रवर्तेरन्, तदा ते गुर्वाज्ञाभडजका 8 महापापिनो भवन्ति । 20 यत्र च गुरवोऽगीतार्था असंविग्ना भवेयुः, तत्र तेषां ये विदितपरमार्थाः, गुरुपारतन्त्र्यस्य हृदयं जानानाः, क स्वच्छन्दतादोषं प्रति तिरस्कारवन्तो विशुद्धप्रज्ञा शिष्याः भवन्ति । ते एव द्वितीयादिभङ्गेषु प्रवर्तमानाः र प्रवचनाविच्छेदं कृत्वा महतीं निर्जरां प्राप्नुवन्ति । यद्यपि तेषां गुरवः प्रायोऽगीतार्था असंविग्नाश्च न भवन्ति । तथापि द्रव्यक्षेत्रकालभावविषमतामाश्रित्य सर्वत्र सर्वं संभवतीति न काचिदाशङ्काऽत्र करणीया । अत्रापि बहु । वक्तव्यं। किन्तु ग्रन्थविस्तरभयादेव न वच्मि ॥६१॥
ननु गुरोरनुज्ञां विनैव कार्यकारणे गुरुपारतन्त्र्यरूपचारित्रस्यैव भङ्गो भवेत् । ततश्च कथं गुर्वाज्ञाविरुद्धमाचरन्साधुर्विशुद्धिमान्भवेदित्याशङ्कां परिहर्तुमाह। कारणजायं पप्प य नाणिट्टाफला तया अणापुच्छा । एत्थय णेगमणयओ परोप्परं तारतम्मं वि ॥६२
प्राक्तनगाथायामुक्तमेव यदुत "प्रवचनविच्छेदो मा भूदित्याशयवान्नेव स साधुर्मुर्वाज्ञामुल्लङ्घयन्नपि दोषभाग्नैव भवति । प्रत्युत विशुद्धाध्यवसायेन निर्जरां प्राप्नोति । गुर्वाज्ञोल्लङ्घनं गुरोरनापृच्छा वा प्रवचनाविच्छेदादिपुष्टकारणं विना क्रियमाणमेवानिष्टफलं ददाति । तादृशकारणसद्भावे तु गुर्वाज्ञोल्लङ्घनं गुरोरनापृच्छा वा नैवानिष्टफलं
जनयति" इति । व अत्र ह्यत्सर्गतोऽशुद्धेष्वप्यपवादतो विशुद्धेषु त्रिषु भङ्गेषु नैगमनयोऽपवादमार्गत्वरुपं समानतां विशुद्धेः प्रकर्षापकर्षलक्षणां तरतमताञ्च मन्यते । एतदर्थश्च नयप्रतिपादकेभ्यो ग्रन्थान्तरेभ्योऽवसेयः ॥६२॥
अत्र हि प्रसङ्गतो "गुरोः पार्वे केन विधिना सूत्रार्थग्रहणं क्रियत ?" इत्यर्थग्रहणस्य विधिं संक्षेपतो की दर्शयति । 1 इहयं अत्थग्गहणे विहि जिणवरेहिं पण्णतो । पुदिव उचिएठाणे पमज्जणा होइ कायव्वा ॥३॥
___ अत्र हि सूत्रग्रहणस्य विधिर्न प्रतिपाद्यते । स तु ग्रन्थान्तरादवसेयः । केवलमत्रार्थग्रहणविधिरेव प्रदर्श्यते।। । तत्र प्रथमं यत्र स्थाने कोलाहलो न भवेत्, श्रावकादीनां गमनागमनाभ्यां विक्षेपो न भवेत्, अर्थदातुश्च पवनादिना प्रसन्नता भवेत्, तादृशेऽर्थोपदेशायोचिते स्थाने प्रमार्जना कर्तव्या।
ननु प्रमार्जनाया किं फलं भवतीति चेत् ? शृणु । प्रमार्जना हि चारित्राचारोऽस्ति । अर्थग्रहणञ्च ज्ञानाचारः। ज्ञानाचारश्च चारित्राचारेण सह विरोधं विना पाल्यमान एव श्रेयान् । यदि हि चारित्राचारं विना ज्ञानाचार: पाल्यते, तदा तु स ज्ञानाचारोऽनाचार एव भवति । तस्माद्ज्ञानाचारोऽनाचारो मा भवतु श्रेयस्करश्च भवत्विति स्पृहावता भूमिप्रमार्जनेन चारित्राचारपालनमवश्यं कर्तव्यम् । यतश्च चारित्राचारं विना पाल्यमानो ज्ञानाचारोऽनाचारो भवति। तत एव वसतिसंप्रेक्षणं विना पूर्वधरविरचितानां ग्रन्थानामभ्यासरूपो ज्ञानाचारोऽनाचारो भवति । तृणसंघदृनादिदोषदुष्टे स्थाने शीघ्र स्थण्डिलं गत्वा दूरं निर्दोषस्थाने स्थण्डिलमगत्वा सेव्यमानो ज्ञानाचारोऽनाचारो भवति । दीर्घकालपर्यटनेन प्राप्यमाणां निर्दोषगोचरी त्यक्त्वाऽल्पकालेन प्राप्यमाणां सदोषां भिक्षां गृहीत्वा PoemRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRE
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८५ SarastraMERRRRRRRRRRRRRRRIERasERESOURUN000RRECEMB
3885603800cameric83c888888888888888830666038003880GGREERGEGREGOGGREGsa HECEEEEEEEEEEEEEEEEEEEEEEEEEEE
FECCEC66