________________
CEE ઉપસંપદ સામાચારી
क्रियमाणो ज्ञानाचारोऽनाचारो भवति । किं बहुना ? सर्वत्र निष्कारणं चारित्राचारं परित्यज्य ज्ञानाचारः सेव्यमानोऽनाचार एव भवति । कारणे तु सति चारित्राचारं विनाऽपि ज्ञानाचारो न दुष्टः । प्रत्युतापवादमार्गरूपः स श्रेयस्करो भवति । यथा सन्मतितर्कादिग्रन्थानामध्ययनार्थं काशीगमने आधाकर्मादिदोषदुष्टाया अपि भिक्षाया अनुज्ञा गीतार्थैर्दीयत इति कारणे तु सति चारित्राचारं विनाऽपि सेव्यमानो ज्ञानाचारो न दुष्ट इति स्थितम् । कारणाभावे तु चारित्राचारपालनमवश्यं कर्तव्यम् । यतस्तत्कल्याणपरम्पराया हेतुरस्ति ॥६३॥ दो निसिज्जाउ तओ कायव्वाओ गुरुण अक्खाणं । अकयसमोसरणस्स उ वक्खाणुचियत्ति उस्सग्गो ॥६४॥
प्रमार्जनानन्तरं गुरोरुपवेशनार्थं स्थापनाचार्यस्य स्थापनार्थञ्चेति द्वे निषद्ये कर्तव्ये । तत्र स्थापनाचार्यं विनाऽर्थव्याख्यानं गुरोरनुचितमितिकृत्वा स्थापनाचार्यस्य तत्र स्थापनाऽवश्यं कर्तव्येत्युत्सर्गः । अपवादतः पुनः तथाविधकारणे सति स्थापनाचार्याभावे पुस्तकादिकं स्थापयित्वाऽर्थदाने न दोषः । खेले य काइयाए जोग्गाई मत्तयादं दो होंति । तयवत्थेण वि अत्थो दायव्वो एस भावत्थो ॥ ६५ ॥
1
यदि गुरोः श्लेष्मणो रोगोऽस्ति । अल्पकालान्तर एव च प्रश्रवणागमनरुपो रोगो वर्तते । तदा तत्र श्लेष्मार्थं प्रश्रवणार्थञ्च द्वे मात्रके गुरुसमीपे स्थापनीये । ततश्च यदाऽर्थदानकाले मुखे श्लेष्मागच्छेत् तदा श्लेष्ममात्रके प्रक्षिपेत् । यदा चार्थदानकाल एव प्रश्रवणशङ्का भवेत् तदा प्रश्रवणमात्रके प्रश्रवणं कुर्यात् ।
यदि च तत्र द्वे मात्र गुरोः समीप एव न स्थाप्येयाताम् । तदा तु प्रश्रवणार्थं गुरुणोत्थाय दूरस्थितस्य मात्रकस्य समीपे गन्तव्यं स्यात् । तत्र च तावत्कालमर्थव्याख्यानस्य विघातो भवेत् । तथा श्लेष्मनिष्ठीवनार्थमपि दूरस्थितस्य मात्रकस्य समीपे गन्तव्यं स्यात् । तत्रापि तावत्कालमर्थव्याख्यानस्य व्याघातो भवेत् । न च स युक्तः, दुर्लभः खलु जिनवचनार्थलाभ इति अर्थव्याख्यानव्याघातस्य परिहारार्थं गुरोः समीप एव द्वे मात्रके स्थापनीये ।
शिष्यः प्रश्नयति ननु श्लेष्ममात्रकस्य तत्र स्थापनं तावद्युक्तमेव । किन्तु प्रश्रवणमात्रकस्य स्थापनं न युक्तम् । यतः प्रायोऽर्थव्याख्यानमनवरतं तु मुहूर्तमात्रकालं यावदेव भवति । गुरुश्चार्थव्याख्यानात्पूर्वं प्रश्रवणं कृत्वैव तत्रागच्छतीति मुहूर्तकालमध्ये पुनस्तस्य गुरोः प्रश्रवणशङ्खैव न संभवतीति तत्र प्रश्रवणमात्रकस्य स्थापनं निरर्थकमेव ← इति ।
आचार्यस्तु समादधाति शिष्य ! यस्य गुरोस्तथाविधो रोगो भवेत्, येन कारणेन मुहूर्तकालमध्येऽपि द्विस्त्रिर्वा प्रश्रवणं भवेत्, तत्र प्रश्रवणमात्रकस्य स्थापनं सार्थकं भवति । अन्यत्र तु न कर्तव्यम् - इति ।
ननु किमेतादृशरोगयुक्तोऽपि गुरुरर्थव्याख्यानं करोति ? येन तत्र प्रश्रवणमात्रकस्य स्थापनं क्रियते ? तादृशरोगवान्गुरुस्तु नैवार्थव्याख्यानं कुरुते इति ममाभिप्राय इति चेत्
—
अत एव जिनवचनरहस्यानभिज्ञेोऽसि । अन्यथा नैवं त्वं वदेः । शृणु तावज्जिनवचनरहस्यम् । साधूनां हि गृहीते संयमजीवने वैराग्यं विवेकं तत्वज्ञानञ्च विना स्थिरता न संभवति । एते त्रयोऽपि गुणा अर्थव्याख्यानादेव लभ्यन्ते । यदि च गुरुरर्थव्याख्यानं न कुर्यात् । तदा शिष्या अन्यत्रैव विषयसुखादिषु पुनरभिलाषं कुर्युः,
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १७७