________________
CEEEEEEEEEEECCCCCCCEEEEEEEEEEEEEEEEEEEEEEGECCEEGEEEEEEEEEEEEEEE
HEROINEERIEEEEEEEEEEEEEEN पसंपE सामायारी प्रमादिनश्च भवेयुः । वैराग्यादिगुणरहिताश्च ते कदाचिच्चतुर्थव्रतभङ्गादिरूपाणां महापापानामासेवका भवेयुः ।। 2 ततश्चानन्तसंसारिणो भवेयुः । तत्कारणञ्च तेषां स गुरुरेव, येन तेभ्यो दीक्षा दत्ता । स तु गुरुः शरणागतानां शिष्याणां हिंसक एव भवति । यस्तान् शिष्यानर्थव्याख्यानेन वैराग्यादिगुणवतो न विदधाति । यतश्चैवम्, तस्मादेव तादृशरोगवताऽपि गुरुणाऽर्थव्याख्यानं कर्तव्यमेवेति ज्ञापनार्थमत्र प्रश्रवणमात्रकस्य गुरोः समीपे स्थापनं ३ प्रतिपादितमिति बोध्यम् ॥६५॥ । “ननु निरोगी गुरुस्तावदर्थव्याख्यानं दद्यादेव, तददाने भवदुक्ता दोषा भवन्त्येव । किन्तु तथाविधरोगग्रस्तो गुरुर्यदि वाचनां न दद्यात्, तदा तु तस्य को दोष ?" इति शिष्यप्रश्नं मनसिकृत्य समादधात्याचार्यः। तावइयावि य सत्ती इहरा नूणं निगहिया होइ । सत्तिय णिगृहंतो चरणविसोहिं कहं पावे ? ॥६६॥ ___ तस्य गुरोर्यद्यपि तथाविधो रोगो वर्तते । किन्तु तथापि तस्यार्थव्याख्याने शक्तिरस्त्येव ।। केवलमर्थव्याख्यानकाल तस्य सकृदद्विर्वा प्रश्रवणार्थमुत्थानं तेन गुरुणा कर्तव्यं स्यात् । न चैतावन्मात्रेण तस्य । सर्वाऽपि शक्तिः विनष्टा वक्तुं शक्येत । स हि तत्रोपविश्यार्थव्याख्यानकरणे शक्त एवेति यदि स तथाविधरोगवशादर्थव्याख्यानं न कुर्यात्तदा तेन विद्यमाना शक्तिर्निगूहिता भवेत् । शक्तिञ्च निगूहन्साधुश्चारित्रोत्कषं नैव । प्राप्नुयात् । ततश्च गुरोश्चारित्रविशुद्धिर्दूरापास्ता भवेत् । ___प्रथमगुणस्थाने तावत्सम्यग्दर्शनं सर्वेषु जिनवचनेषु श्रद्धानरूपं नास्ति । चतुर्थगुणस्थाने जिनवचनेषु । श्रद्धानरूपं सम्यग्दर्शनं वर्तते, किन्तु चारित्रमोहनीयोदयात्ते संयमयोगेषु विद्यमानामपि शक्तिं न स्फोरयन्ति । 8 संसारत्यागस्य शक्तिं बिभ्राणा अपि न ते संसारत्यागं कुर्वन्ति । किन्तु षष्ठगुणस्थाने सर्वेषु जिनवचनेषु । श्रद्धानरूपं सम्यग्दर्शनं स्वयोग्येषु च संयमयोगेषु यथाशक्ति प्रवृत्तिश्च वर्तते । यथा यथा शक्तिस्फोरणं वर्धते,
यथा यथा च शक्तिनिगृहनं हीयते, तथा तथा चारित्रस्य विशुद्धिर्भवति । षष्ठे गुणस्थानेऽपि चारित्रपरिणामा 2 असंख्येया विद्यन्ते । ततश्च सर्वेषां शक्तिस्फोरणं शक्तिनिगूहनत्यागश्च सदृशो न भवति । किन्तु येषां शक्तिस्फोरणं
शक्तिनिगूहनहानिश्चाधिकौ स्तः, तेऽधिकविशुद्धिभाजो भवन्ति । ___ अत एव "साधुना जिनानां कीयत्यः आज्ञाः पाल्यन्ते?" इति तु न प्रधानम् । किन्तु "साधुना जिनाज्ञासु सम्यक् श्रद्धानं शक्ति निगूहनत्यागश्च कियान् कीदृशश्च क्रियत" इत्यस्यैव प्रधानता । ततश्च नमस्कारसहितमात्रप्रत्याख्यानं कर्तुं शक्नुवन्साधुर्यदि तदेव जिनाज्ञाबहुमानपूर्वकं कुर्यात्, तदा स संविग्नो।
भण्यते । प्रतिदिनमाचामाम्लकरणस्य शक्तिं बिभ्राणस्तु यदि विकृतिभोजनमिश्रितमेकाशनकं द्वयशनकं वा का कुर्यात्, तदा शक्तिनिगृहनवान्स संविग्नतां जहाति । ____ तथा वृद्धत्वादिकारणवशाद् विराधनायुक्तं स्थण्डिलपरिष्ठापनं कुर्वन्नपि तत्र जिनाज्ञानुसारेण सम्यग्यतनां कुर्वन्साधुः संविग्नो भवति । निरोगी युवा च साधुर्यदि दूरवर्तिस्थाने विशुद्धस्थण्डिलभूमौ सत्यामपि से स्वल्पदोषदुष्टमासन्नवर्तिस्थानमेव निष्कारणं स्थण्डिलगमनार्थमासेवते, तदा स असंविग्नो भवति । अत्र बहु वक्तव्यं । तत्तु नोच्यते । केवलं जिनाज्ञाबहुमानपूर्वकं शक्तिनिगूहनं विना च जिनाज्ञानां सम्यक्पालनमेव संविग्नतायाः साधकम्, चारित्रविशुद्धेः संपादकञ्चेति सारः ।
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • १८७ MORRORISSETURESSETTERTERESEREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEB