SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ A T TERSITERRITTEEEEEEEEEEEEEEEEEEEEEEEEEEET संपE सामाचारी AR तत्र स्थाने तस्य ते आगमा त्रुटिता इव सञ्जाताः । तेषां सन्धिस्तु स्वगच्छे यदा न संभवेत्, तदा स तदर्थमन्यत्र गच्छे निश्रां कृत्वा तिष्ठेत् । तत्र च तथाविधाः साधवत्रुटितानामागमानां सन्धानं कारयेयुरिति ।। का पूर्वाधीतानामागमानाञ्च विनाशः प्रायो दुष्कालादिषु भवति । तथाऽभिनवग्रन्थानामेवाध्ययनार्थं कश्चित्साधुः स्वगच्छे सूत्रदायकस्य साधोरभावेऽपरस्मिन्गच्छे निश्रां स्वीकृत्य वसेत् । एष तावत्सूत्रमात्रमाश्रित्य त्रिविधोपसंपत्प्रतिपादिता। ___ एवंमधीतानामर्थानां पुनरावर्तनार्थं प्रागधीतानां संप्रति विस्मृतानामर्थानां सन्धनार्थं नूतनानामर्थानामध्ययनार्थञ्चोपसम्पत्सामाचारी भवति । एवमेव सूत्रार्थोभयमाश्रित्यापि त्रिविधोपसंपत्सामाचारी भवति । स इत्थञ्च सूत्रेऽर्थे तदुभये च पुनरावर्तनसन्धनाऽध्ययनान्याश्रित्य नव प्रकारा ज्ञानोपसंपद् भवति । एवमेव की सम्यग्दर्शनविशुद्धः संपादकानां ग्रन्थानां सूत्रमर्थं तदुभयञ्चाश्रित्य प्रतिपादितरीत्यैव नवप्रकारा दर्शनोपसंपद। भवति ॥५९॥ . अत्र यस्याचार्यादेनिश्रा स्वीक्रियते, स "प्रतीच्छ्यः" इत्युच्यते । यश्च साधुनिश्रां स्वीकरोति, स प्रतीच्छक की इत्युच्यते । अनयोर्द्वयोश्चतुर्भङ्गी भवति । कर तथा हि। र संदिट्ठो संदिगुस्सेवमसंदिट्ठयस्स संदिष्ठो । संदिष्ठस्स य इयरो इयरो इयरस्स णायव्वो ॥६०॥ अत्रापि दृष्टान्तेनैव पदार्थः प्रतिपाद्यते । एकः आचार्यः स्वयं वृद्धत्वादिकारणवशाच्छेदसूत्र मध्यापयितुमसमर्थः सन्योग्यशिष्यं कथयति यथा “त्वममुकाचार्यस्य पार्वे गत्वा छेदसूत्रं पठ" इति । अत्र हि गुरुणा शिष्योऽपि संदिष्टः, अमुकाचार्योऽपि च संदिष्ट इति शिष्यस्तस्याचार्यस्य सकाशाच्छेदसूत्रं यदि पठेत् तर्हि अयं प्रथमो भङ्गो भवति । स गुरुर्योग्यशिष्यं कथयति यथा → त्वममुकाचार्यस्य पार्वे गत्वा छेदसूत्रं पठ, किन्तु या तवामुकाचार्यस्य से पार्वे पठनस्येच्छाऽभवत् । सा तु न योग्या, न स आचार्यो योग्यः, तस्मात्तत्पार्वे न पठितव्यम् - इति । अत्र हि गुरुणा यः आचार्यादिः प्रतिषिद्धः, स असंदिष्टः कथ्यते, शिष्यश्च संदिष्टः । ततश्च यदि स शिष्यो निषिद्धस्याप्याचार्यस्य पार्वे गत्वा पठेत् । तदा संदिष्टः शिष्योऽसंदिष्टस्य पार्वे पठतीति द्वितीयो भङ्गः।। स गुरुर्योग्यशिष्यं कथयति यथा → अधुना त्वं क्षुल्लकोऽसि । छेदसूत्रस्य पठनेऽधुना तवाधिकारो नास्ति। परं त्वद्गुणान्दृष्ट्वाऽहं कथयामि । यथाऽमुकस्याचार्यस्य पार्वे गत्वा त्वया पञ्चवर्षानन्तरं पठितव्यम् । पञ्चसंवत्सराणि यावदन्थे ग्रन्थाः पठनीयाः - इति । स त्वधीरो भूत्वाऽवधिकालात्पूर्वमेव तदाचार्यस्य पार्वे गत्वा पठति । अत्र हि स आचार्य: संदिष्टः, शिष्यस्तु तस्मिन्कालेऽसंदिष्ट इति संदिष्टस्य पार्वेऽसंदिष्टो पठतीति कर तृतीयो भङ्गः। CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEE महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी. १८३ MosRRESSURESSESISTERESTERESTSESSTORESEARTISSSSROSSESSSSSSSSSSRRRRRRRRRRRRROREB
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy