Book Title: Samachari Prakaran Part 02
Author(s): Yashovijay Maharaj, Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 205
________________ EEEEEEEEEEEEEEEEEEEEEEEEEEE HTTEERTISITERARI ENTERTAINE GHNE सामायारी स यद्यपि संपूर्ण शास्त्रं स्वयमेव मङ्गलभूतम् । शास्त्रस्य प्रत्येकवाक्यं विघ्नक्षयसमर्थमिति यदि प्रत्येकवाक्यमपि मङ्गलं भवति, तर्हि संपूर्ण शास्त्रन्तु सुतरां मङ्गलमेव । किन्तु तन्मङ्गलं सर्वेषां विघ्नानां । क्षयार्थमुपयोगी । यानि पुनः शास्त्रस्यैव प्रतिबन्धकीभूतानि विघ्नानि, तेषामभावकरणार्थं तु शास्त्रं कथमुपभी युज्यते ? यतः शास्त्रं यदा स्वयमुत्पन्नं भवेत्, तदा तत्सर्वविघ्नानां विनाशकं भवेत् । प्रकृते तु शास्त्रमेव नोत्पन्न, किन्तु प्रयत्नेनोत्पाद्यते । ततश्च शास्त्रात्प्राक्कालभाविनां शास्त्रस्यैव प्रतिबन्धकीभूतानां रोगादिविघ्नानां क्षयः शास्त्रात्कथं स्यात् ? यथा ह्यजैनमत उत्पन्नो भगवान्कृष्णः कंसादिदुष्टजनानां संहारको भवेत् । किन्तु कृष्णस्यैवोत्पतौ ये दुष्टाः । प्रतिबन्धकाः, तेषां विनाशस्तु स्वयमनुत्पन्नः कृष्णः कथं कुर्यात् ? तेषां विनाशस्त्वन्येनैव करणीयः । 2 एवमत्रापि समुत्पन्नं शास्त्रं सर्वविघ्नानां विनाशकं भवेत् किन्तु शास्त्रस्यैवोत्पतौ यानि विघ्नानि, तेषां। विनाशस्तु शास्त्रभिन्नेनैव पदार्थेन करणीयः । तस्मात् शास्त्रीयविघ्नानां विनाशाय कायोत्सर्गकरणं युक्तमेव । ननु "शास्त्रस्य प्रत्येकवाक्यानि मङ्गलभूतानि" इति तावदुक्तमेव । ततश्च प्रथमवाक्यरचनायाः सकाशादेव 2 द्वितीयवाक्यस्य विघ्नानि विनश्येयुः । ततश्च द्वितीयवाक्यमुत्पद्यते । तस्माच्च तृतीयवाक्यस्य प्रतिबन्धकीभूतानि विघ्नानि विनश्येयुः । एवमेव क्रमशः सकलस्यापि शास्त्रस्य निर्विघ्नोत्पत्तिर्भविष्यति । न तत्र मङ्गलान्तर स्यावश्यकतेति चेत् न, प्रथमवाक्यस्य प्रतिबन्धकीभूतानि यानि विघ्नानि, तेषां विनाशं कः कुर्यादिति वद । तस्मात्तदर्थं । कायोत्सर्गकरणं न्याय्यम् । नन्वेवं सति कायोत्सर्गस्य प्रतिबन्धकीभूतानां विघ्नानां विनाशं कः कुर्यादिति प्रश्नोऽपि भवत्येव । ततश्च ई तदर्थं तृतीयं मङ्गलमप्यावश्यकं भवेत् । एवञ्च प्राक्प्रदर्शिताऽनवस्था स्यादिति चेत् न, कायोत्सर्गो हि वर्तमानकाल एव क्रियते । तस्य च सर्वाऽपि सामग्री विद्यत एव । ततश्च तत्र विघ्नानामसंभवान्न तत्र न्तरस्यावश्यकता। ननु शास्त्रस्य प्रथमवाक्यमप्यधुनैव क्रियते । न च तत्रापि विघ्नानां संभवः । ततस्तत्रापि मङ्गलान्तरमना वश्यकमेव । इत्थञ्च कायोत्सर्गकरणं निरर्थकं इति चेन्न, ___मङ्गलं हि मङ्गलबुद्ध्या गृह्यमाणमेव विघ्नविनाशकं भवति । मङ्गलबुद्ध्याऽगृह्यमाणं तु विघ्नविनाशकं न भवति । यथा साध्वादिमङ्गलं मंगलबुद्ध्याऽगृह्णतामज्ञानिनां साध्वादिमङ्गलं विघ्नविनाशकं न भवति । एवञ्च 1 यद्यपि प्रथमवाक्यादिरूपं शास्त्रं स्वयमेव मङ्गलं, विघ्नविनाशकञ्चास्ति । किन्तु "प्रकृतं शास्त्र मङ्गलमस्ति" 1 इति मङ्गलबुद्ध्याऽगृह्यमाणं शास्त्रं विघ्नविनाशकं न भवति । ततश्च विघ्नानि संभवेयुः । ततश्च । र शास्त्रपरिसमाप्तिर्न स्यात् । तस्मात्सर्वेषां श्रोतॄणां मनसि "इदं शास्त्रं मङ्गलम्" इति मङ्गलबुद्धेः समुत्पादनार्थं । कायोत्सर्गः क्रियते । कायोत्सर्गकरणे च सति श्रोतारो जिज्ञासापृच्छादिना "शास्त्रं मङ्गलम्" इति प्रतिपत्तारो। भवन्ति । एवञ्च प्रथमवाक्यादिरूपं शास्त्रं विघ्नविनाशकं भवति । ततश्च शास्त्रस्य समाप्तिर्भवति ।। तस्मात्कायोत्सर्गकरणं युक्तमेवेति स्थितम् । SOTRESSETTEGRECIESGRASSES ತು महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २००३ RESOURISONSTORIESERTISTERIESORTERSITERRENESSORTEREDEEconce

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278