________________
EEEEEEEEEEEEEEEEEEEEEEEEEEE
HTTEERTISITERARI ENTERTAINE GHNE सामायारी स यद्यपि संपूर्ण शास्त्रं स्वयमेव मङ्गलभूतम् । शास्त्रस्य प्रत्येकवाक्यं विघ्नक्षयसमर्थमिति यदि प्रत्येकवाक्यमपि मङ्गलं भवति, तर्हि संपूर्ण शास्त्रन्तु सुतरां मङ्गलमेव । किन्तु तन्मङ्गलं सर्वेषां विघ्नानां ।
क्षयार्थमुपयोगी । यानि पुनः शास्त्रस्यैव प्रतिबन्धकीभूतानि विघ्नानि, तेषामभावकरणार्थं तु शास्त्रं कथमुपभी युज्यते ? यतः शास्त्रं यदा स्वयमुत्पन्नं भवेत्, तदा तत्सर्वविघ्नानां विनाशकं भवेत् । प्रकृते तु शास्त्रमेव नोत्पन्न, किन्तु प्रयत्नेनोत्पाद्यते । ततश्च शास्त्रात्प्राक्कालभाविनां शास्त्रस्यैव प्रतिबन्धकीभूतानां रोगादिविघ्नानां क्षयः शास्त्रात्कथं स्यात् ?
यथा ह्यजैनमत उत्पन्नो भगवान्कृष्णः कंसादिदुष्टजनानां संहारको भवेत् । किन्तु कृष्णस्यैवोत्पतौ ये दुष्टाः । प्रतिबन्धकाः, तेषां विनाशस्तु स्वयमनुत्पन्नः कृष्णः कथं कुर्यात् ? तेषां विनाशस्त्वन्येनैव करणीयः । 2 एवमत्रापि समुत्पन्नं शास्त्रं सर्वविघ्नानां विनाशकं भवेत् किन्तु शास्त्रस्यैवोत्पतौ यानि विघ्नानि, तेषां। विनाशस्तु शास्त्रभिन्नेनैव पदार्थेन करणीयः । तस्मात् शास्त्रीयविघ्नानां विनाशाय कायोत्सर्गकरणं युक्तमेव ।
ननु "शास्त्रस्य प्रत्येकवाक्यानि मङ्गलभूतानि" इति तावदुक्तमेव । ततश्च प्रथमवाक्यरचनायाः सकाशादेव 2 द्वितीयवाक्यस्य विघ्नानि विनश्येयुः । ततश्च द्वितीयवाक्यमुत्पद्यते । तस्माच्च तृतीयवाक्यस्य प्रतिबन्धकीभूतानि विघ्नानि विनश्येयुः । एवमेव क्रमशः सकलस्यापि शास्त्रस्य निर्विघ्नोत्पत्तिर्भविष्यति । न तत्र मङ्गलान्तर स्यावश्यकतेति चेत् न,
प्रथमवाक्यस्य प्रतिबन्धकीभूतानि यानि विघ्नानि, तेषां विनाशं कः कुर्यादिति वद । तस्मात्तदर्थं । कायोत्सर्गकरणं न्याय्यम् ।
नन्वेवं सति कायोत्सर्गस्य प्रतिबन्धकीभूतानां विघ्नानां विनाशं कः कुर्यादिति प्रश्नोऽपि भवत्येव । ततश्च ई तदर्थं तृतीयं मङ्गलमप्यावश्यकं भवेत् । एवञ्च प्राक्प्रदर्शिताऽनवस्था स्यादिति चेत् न, कायोत्सर्गो हि वर्तमानकाल एव क्रियते । तस्य च सर्वाऽपि सामग्री विद्यत एव । ततश्च तत्र विघ्नानामसंभवान्न तत्र
न्तरस्यावश्यकता। ननु शास्त्रस्य प्रथमवाक्यमप्यधुनैव क्रियते । न च तत्रापि विघ्नानां संभवः । ततस्तत्रापि मङ्गलान्तरमना वश्यकमेव । इत्थञ्च कायोत्सर्गकरणं निरर्थकं इति चेन्न, ___मङ्गलं हि मङ्गलबुद्ध्या गृह्यमाणमेव विघ्नविनाशकं भवति । मङ्गलबुद्ध्याऽगृह्यमाणं तु विघ्नविनाशकं
न भवति । यथा साध्वादिमङ्गलं मंगलबुद्ध्याऽगृह्णतामज्ञानिनां साध्वादिमङ्गलं विघ्नविनाशकं न भवति । एवञ्च 1 यद्यपि प्रथमवाक्यादिरूपं शास्त्रं स्वयमेव मङ्गलं, विघ्नविनाशकञ्चास्ति । किन्तु "प्रकृतं शास्त्र मङ्गलमस्ति" 1 इति मङ्गलबुद्ध्याऽगृह्यमाणं शास्त्रं विघ्नविनाशकं न भवति । ततश्च विघ्नानि संभवेयुः । ततश्च । र शास्त्रपरिसमाप्तिर्न स्यात् । तस्मात्सर्वेषां श्रोतॄणां मनसि "इदं शास्त्रं मङ्गलम्" इति मङ्गलबुद्धेः समुत्पादनार्थं ।
कायोत्सर्गः क्रियते । कायोत्सर्गकरणे च सति श्रोतारो जिज्ञासापृच्छादिना "शास्त्रं मङ्गलम्" इति प्रतिपत्तारो। भवन्ति । एवञ्च प्रथमवाक्यादिरूपं शास्त्रं विघ्नविनाशकं भवति । ततश्च शास्त्रस्य समाप्तिर्भवति ।। तस्मात्कायोत्सर्गकरणं युक्तमेवेति स्थितम् ।
SOTRESSETTEGRECIESGRASSES
ತು
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी • २००३ RESOURISONSTORIESERTISTERIESORTERSITERRENESSORTEREDEEconce